________________
३८
चन्द्रप्रभचरितम्
वायुना विदधे किंचित्संजाताध्यपरिश्रमः । वनलक्ष्मीविनिःश्वाससमेन विपरिश्रमः ||३३|| सेनापतिं समादिश्य सेनामावासयेति सः । प्रविवेश महानागादवतीर्य महावनम् ॥ ३४॥ राजलीला' परित्यज्य चामरादिपरिच्छदाम् । विनीतः शिष्यवद् भेजे देशं मुनिसमाश्रितम् ||३५|| ददृशे च मुनिस्तेन स्थितो नीलशिलातले । शरत्प्रसन्न शीतांशुरिवाकाशैकमण्डले ||३६|| त्रिः परीत्य प्रणम्य त्रिस्त्रिर्जयेति निगद्य सः । त्रिरुक्तमखिलं कृत्वा न्यविक्षत मुनेः पुरः ||३७||
समं सदृशम् । वनं मनोहरोद्यानम् । क्षणात् शीघ्रात् । प्राप्य गत्वा । पिप्रिये प्रांति ययो । प्री प्रीतौ । लिट् । श्लेषः ||३२|| वायुनेत्यादि । किंचित्सं जाताघ्वपरिश्रमः किंचित् ईषत् संजातेन उत्पन्नेन अध्वनः मार्गस्य परिश्रमेण युक्तः वनलक्ष्मीनि[ विनि] श्वाससमेन वनस्य उद्यानस्य लक्ष्म्याः श्रियः नि[विनि] श्वासस्य समेन सदृशेन । वायुना मन्दमारुतेन । विपरिश्रमः विगतपरिश्रमः । विदधे चक्रे । डुधाञ् धारणे च । कर्मणि लिट् । उपमा ||३३|| सेनापतिमित्यादि । सः पद्मनाभभूपालः । सेनां चमूम् । आवासयेति निवासयेति सेनापति सेनानायकम् । समादिश्य आज्ञापयित्वा । महानागात् महागजपतेः । अवतीर्य अवरुह्य । [ महावनं ] महत् पृथु वनम् उद्यानम् । प्रविवेश जगाम । विश प्रवेशने लिट् ||३४|| राजलीलामित्यादि । विनीतः विनययुतः । चामरादिपरिच्छदां चामरादिभिः प्रकोर्णकादिभिः परिच्छदैः परिकरैः युक्तां राजलीलां राजविलासम् । परित्यज्य विमुच्य । मुनिसमाश्रितं मुनिना मुनीन्द्रेण समाश्रितम् । देशं प्रदेशम् । शिष्यवत् छात्रवत्। भेजे सिषेवे ' । भज सेवायाम् | लिट् ||३५|| दश इत्यादि । शरत्प्रसले शरदा प्रसन्ने निर्मले । आकाशैकमण्डले आकाशस्य एकमण्डले एकप्रदेशे । शीतांशुरिव चन्द्र इव । नीलशिलातले इन्द्रनील शिलाप्रदेशे । स्थितः । मुनिः मुनीन्द्रः । तेन पद्मनाभभूपेन । ददृशे च वक्ष्ये । दृशु प्रेक्षणे । कर्मणि लिट् ॥३६॥ त्रिः परीत्येत्यादि । सः पद्मनाभ भूपः । त्रिः परोत्य त्रीन् वारान् परीत्य प्रदक्षिणीकृत्य । त्रिः त्रीन् वारान् जयेति सर्वोत्कर्षेण वर्त्तस्वेति । निगद्य उच्चार्य । अखिलं समस्तम् । त्रिरुक्तं त्रिवारोक्तम् । कृत्वा विधाय ।
९
१०
[ २, ३३ -
बड़ी प्रसन्नता हुई ||३२|| पद्मनाभको रास्तेकी थोड़ी-सी थकान हो गयी थी । किन्तु उसे वनलक्ष्मीकी श्वास- सरीखी वहाँको मन्द, सुगन्ध और शीतल वायुने शीघ्र ही दूर कर दिया ||३३|| पद्मनाभने पहले सेनापतिको आदेश दिया कि सेनाको यहींपर ठहरा दो और फिर हाथीसे उतरकर वन में प्रवेश किया ||३४|| पद्मनाभने चामर आदि शाही ठाटको हटा दिया और फिर एक विनीत शिष्यकी भाँति वे उस प्रदेश में जा पहुँचे जहाँ मुनिराज विराजे थे || ३५॥ वहाँ पहुँचकर पद्मनाभने मुनिराजके दर्शन किये । वे उस समय नीली चट्टानपर विराजमान थे । अतः वे शरत्कालीन निर्मल आकाशके एक प्रदेश में पूर्णचन्द्रकी भांति सुशोभित हो रहे थे || ३६ || फिर पद्मनाभने मुनिराजको तीन बार परिक्रमा को; उन्हें तीन बार प्रणाम किया और तीन बार उनका जयजयकार किया । इस तरह सब तोन-तीन बार करके उनके आगे
१. क ख ग राजलक्ष्मीम् । २ = शीघ्रम् । ३. = किंचिद् ईषत् संजात उत्पन्नोऽन्वपरिश्रमो यस्य सः । ४. = निवेशय, इति इत्थम् । ५. आ श स महागजपतेः सकाशात् । ६= प्रवेशं चकार । ७. क ख घ राजलः मोम् । ८. = प्राप इत्यर्थः । ९. = दृष्टश्च । १०. आ दृष्ट प्रेक्षणे श स दृश प्रेक्षणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org