SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ -२, ३२] द्वितीयः सर्गः पञ्चषानपि कृत्वाग्रे पत्तीन्प्राप्तनराधिपः। क्रमशः संमिलल्लोकैरतुभ्यद्राजगोपुरम् ।।२६।। सपौरः ससुहृद्वर्गः सकलत्रः सबान्धवः । सतनूजः ससामन्तः स चचाल ससैनिकः ॥३०॥ गच्छंल्लावण्यसंक्रान्तदिदृतुनयनो वनम् । नन्दनाभिमुखीभूतशक्रशोभा बभार सः॥३१॥ क्षणादशोकसंयुक्तं पुंनागपरिवारितम् । वनमात्मसमं प्राप्य पिप्रिये पृथिवीपतिः ॥३२॥ चयम् । व्यानशे व्याप्नोति स्म । अशोङ् व्याप्तो कर्तरि लिट् । 'नक्चाश्न्वृदाद्यनेकहलः'' इति नगागमः ॥२८॥ पञ्चषानपीत्यादि । पञ्चषानपि पञ्च वा षड्वा इति पञ्चषाः तान् । 'सुज्वा--' इति समासः । 'प्रमाणीसंख्याड्डः' इति ड-प्रत्ययः। पत्तोन् पदातोन, पादचारिभृत्यानित्यर्थः। अग्रे पुरः। कृत्वा विधाय ! प्राप्तः प्रयातैः । नराधिपः नराणाम् अधिपाः तैः भूपालेः। क्रपशः क्रमात् । 'बह्वल्पार्थ-' इत्यादिना शसि प्रत्ययः । संमिलल्लोकैः संमिलद्भिः संयुजानः लोकः जनः । राजगोपुरं राजद्वारम् । अक्षुभ्यत् । क्षुभ संचलने ॥२९॥ सपौर इत्यादि । सपोरः पौरजनसहितः। ससुहृद्वर्गः सुहृदां वर्गेण समूहेन सहितः । सकलत्रः अन्तःपुरसंयुक्तः। सबान्धवः बन्धुजनैः युतः। सतनूजः तनू जैः पुत्रैः युक्तः । ससामन्तः राज्यसंधिस्थभूपैः' सहितः । ससैनिक: सेनापतिसनाथः । सः पद्मनाभमहीपालः । चचाल प्रतस्थे । चल कम्पने लिट् ॥३०॥ गच्छन्नित्यादि । लावण्यसंक्रान्तदिदृक्षुनयनः लावण्ये देहकान्तो संक्रान्तानि प्रतिबिम्बितानि दिदृक्षूणां द्रष्टुमिच्छूनां नयनानि नेत्राणि यस्य सः । वनं मनोहरोद्यानम् । गच्छन् यान् । सः पद्मनाभमूपतिः । नन्दनाभिमुखीभूतशक्रशोभां प्रागनभिमुख इदानोमभिमुखो भवति स्म अभिमुखोभूतः नन्दनस्य नन्दनवनस्याभिमुखीभूतः तथोक्तः स चासो शक्रश्च तस्य शोभा लीलाम् । बभार धरति स्म । भृञ् भरणे । लिट् ॥३१॥ क्षणादित्यादि । पृथिवीपतिः पद्मनाभमहीपतिः । अशोकसंयुक्तम् अशोकः अशोकवृक्षः, पक्षे शोकरहितजनैः संयुक्त सहितम् । पुनागपरिवारितं पुन्नागः पुन्नागवृक्षः, पक्षे पुंसां पुरुषाणां नागः श्रेष्ठः परिवारितं वेष्टितम् । 'स्युरुत्तरपदे व्याघ्रपुंगवर्षभाऊ जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः।' इत्यमरः । आत्मसमं आत्मनः स्वस्य लिए भेरीकी आवाज सारे नगरमें गूंज उठो ॥२८॥ इस समाचारको सुनते हो आस-पासके अन्य नगरोंके राजे-जिनके आगे पांच-छह नौकर थे-पुरके दरवाजेपर जा पहुँचे। धीरे-धीरे और लोग भी क्रमसे आ गये । फलतः वहाँ बड़ो भोड़ हो गयी ॥२६॥ फिर आने पुत्र, मित्र, कलत्र, भाई, पुरवासी और सामन्तोंके साथ महाराज पद्मनाभने भो प्रस्थान किया ॥३०॥ महाराज पद्मनाभ जब वनको ओर जा रहे थे, उस समय सभी दर्शकोंकी दृष्टि उन्हींकी ओर लगी हुई थी। इससे उनके दीप्तिमय देहमें हजारों नेत्र दृष्टिगोचर होने लगे। फलतः वे नन्दन वनकी ओर जानेवाले इन्द्रको भाँति सुशोभित हो रहे थे ॥३१॥ महाराज पद्मनाभ शीघ्र ही वन पहुँच गये। उस वन में अशोक वृक्ष थे और वह चारों ओरसे नागकेसरके वृक्षोंसे घिरा हुआ था। पद्मनाभके साथ जितने मनुष्य थे वे सबके सब अशोक-शोक रहित थे तथा उसे चारों ओरसे श्रेष्ठ पुरुष घेरे हुए थे। अत: उस वनको अपने ही समान पाकर पद्मनाभको १. आ प्रतावेव केवलं सूत्रमिदं दृश्यते । २. श स श:-प्रत्ययः । ३. = चुक्षोभ । ४. श स तनुजैः । ५. श स स्थभावैः । ६. अ ससैन्यकः । ७. = 'मुक्ताफलेषुच्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' ८. श स यन् । ९. श स सह संयु। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy