SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [२, २४ - इति श्रुत्वा स तद्वाणी मुनिवृत्तान्तशंसिनीम् । स्वाङ्गेऽपि न ममौ हर्षादुद्वेल इव वारिधिः ॥२४।। सत्कृत्य स स्वकीयैस्तं भूषणैः पारितोषिकैः । वनपालमथान्यैश्च कृतार्थमकरोद्धनैः ।।२५।। यस्य देवस्य गन्तव्यं स देवो गृहमागतः । इत्युक्ति घोषयन्नुच्चैरुदस्थादासनादसौ ॥२६।। दिशि तस्यामवस्थाय यत्रासौ परमेश्वरः। बदध्वा लक्ष्यमसौभमावनंसीत्तस्य पादयोः ॥२७॥ व्यानशेऽथ तदादेशात्पुरं पटहनिःस्वनः । मुनिवन्दनयात्रायां कुर्वन्संकेतिनीः प्रजाः ॥२८॥ वर्त्तते तिष्ठति । वृतु वत्तन आत्मनेपदम् ॥२३॥ इतीत्यादि । सः पद्मनाभमहोपतिः। मुनिवृत्तान्तशसिनों मुनेः श्रीधरमुनीन्द्रस्य वृत्तान्तशंसिनी वार्ताभिधायिनीम् । तद्वाणों तस्य वनपालस्य वाणी वचनम् । इति उक्तप्रकारेण । श्रुत्वा निशम्य । हर्षात् संतोषात् । स्वाङ्गेऽपि स्वस्य आत्मन: अङ्गेऽपि शरीरेऽपि । उद्वेल: वेलामुद्गतः, तीरमतिक्रान्त इत्यर्थः । वारिधिरिव समुद्र इव । न ममो न प्रमिमोते स्म । मा माने लिट् ॥२४॥ सत्कृत्येत्यादि । सः पद्मनाभः। अथ वाश्रिवणानन्तरम् । स्वकीयः स्वस्य संबन्धः । पारितोषकैः पारितोषस्य संतोषस्य योग्यानि पारितोषकाणि तैः । भूषणैः आभरणैः । तं वनपालम् ऋषिनिवेदकम् । सत्कृत्य सत्कारं कृत्वा । 'कारिका'-इत्यादिना ति संज्ञा । अन्यैश्च शेषश्च । धनः द्रव्यः । कृतार्थं कृतो निष्पन्नोऽर्थः प्रयोजनं यस्य तम् । अकरोत् अकार्षीत् । डुकृञ् करणे लङ् ॥२५॥ यस्येत्यादि । यस्य देवस्य देवतायाः । गृहम् आवासः । गन्तव्यं गन्तुं योग्यम् । स देवः देवता। आगतः समायातः । इत्युक्तिम् एवं प्रकार [क] नीतिवचनम् । उच्चैः नितान्तम् । घोषयन् उच्चारयन् । असो पद्मनाभमहीपतिः। आसनात् सिंहासनात् । उदस्थात् उदतिष्ठत् । ष्ठा गतिनिवृत्ती लुङ ।।२६।। दिशीत्यादि। असौ पद्मनाभभूपतिः । यत्र यस्यां दिशि । असो अयम् । परमेश्वरः श्रीधरमुनिपरमेष्ठी वर्तते । तस्यां दिशि । अवस्थाय अवस्थानं पूर्व स्थित्वा । लक्ष्यम् अङ्कम् । बध्वा कृत्वा । तस्य श्रीधरमुनीन्द्रस्य । पादयोः चरणारविन्दयोः। भूमौ धरण्याम् । अनंसीत् अनमत् । णम् प्रहत्वे शब्दे। लङ ॥२७॥ व्यानश इत्यादि । अथ व.दनानन्तरम् । तदादेशात् तस्य पद्मनाममहीपतेः आदेशात आज्ञायाः । मनिवन्दनयात्रायां मनेः मुन'न्द्रस्य वन्दनस्य यात्रायां प्रर पौरजनान् । संकेतिनी: संकेतवतोः । कुर्वन् विदधानः । पटहस्वनः पटहस्य आनकस्य स्वनः ध्वनिः । पुरं रत्नसंहै ॥२३॥ इस प्रकार मालीसे मनोहर बागमें मुनिराजके आनेके समाचार सुनकर महाराज पद्मनाभ चन्द्रोदय होनेपर उमड़े हुए सागरको भाँति खुशोके मारे अपने शरीरमें फूला नहीं समाया ॥२४॥ पद्मनाभने अपने आभूषण देकर उस मालोका सत्कार किया और उसे और भी धन इनाममें देकर कृतार्थ कर दिया ॥२५॥ 'जिनके मन्दिरमें मुझे स्वयं जाना चाहिए था वे देव स्वयं ही मेरे घर पधारे हैं' इस उक्तिको जोरसे दुहराता हुआ राजा पद्मनाभ उन्नत सिंहासनसे उठ खड़ा हुआ ॥२६॥ और जिस दिशामें मुनिराज विराजे थे उसी ओर खड़े होकर पद्मनाभने भूमिपर उनके चरणोंका ध्यान कर नमस्कार किया ।।२७। इसके पश्चात् महाराज पद्मनाभके आदेशसे प्रजाको मुनिराजकी वन्दनाके लिए जानेवाले जुलूस में सम्मिलित होनेकी सूचना देनेके १. अ वारिधेः । २. यैः संभूष। ३. आ ष्ठा गतिनिवृत्तो लट् आत्मने पदम् । ४. = न माति स्म । ५. = आत्मीयः । ६. आ प्रतावेव 'ऋषिनिवेदकम्' इति समुपलभ्यते । ७. = आदृत्य । ८. आ श स इत्युक्तम् । ९. = पश्चात् किञ्चित् । १०.=नमनोद्देश्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy