SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३५ - २,२३ ] द्वितीयः सर्गः भयात्पलायमानस्य कामस्य गलिता करात् । बाणावलिरिवाभाति बाणावलिरितस्ततः ॥२०॥ शुचिसंगाद्विकासो मे कश्चातोऽपि मुनेः शुचिः । इतीव मन्यमानागाद्विकासं नवमल्लिका ॥२१।। कदम्बैः सहसा नाथ विकसत्कुसुमोत्करैः। रोमाञ्चकञ्चुकादानादलमात्मसमीकृतः ।।२२।। तिरश्चां संहतिस्तत्र परस्परविरोधिनी । विरोधं सहजं हित्वा बन्धुभावेन वर्तते ।।२३।। विमुञ्चन्तः विमुञ्चमानाः । कुटजद्रुमाः कुटजवृक्षाः। शिखण्डिताण्डबाटोपं शिखण्डिनां मयूराणां ताण्डवस्य नर्तनस्य आटोपं संभ्रमम् । तन्वन्ति विस्तारयन्ति । तनू विस्तारे लट् ॥१९॥ भयादित्यादि। भयात् भोतेः । इतस्ततः इतोऽमुतश्च । पलायमानस्य । कामस्य मन्मथस्य । करात् हस्तात् । गलिता पतिता । बाणावलिरिव बाणानां शराणाम् आवलिरिव समूह इव । बाणावलिः बाणानां कुरण्टकानाम् आवलि: समूहः । आभाति शोभते ॥२०॥ शुचिसंगादित्यादि । मे मम । शुचिसंगात् शुचेः आषाढमासस्य संगात् संपर्कात, पक्षे शचेः निर्मलपुरुषस्य संगात् । विकासः विकसनम् । भवितव्य इति शेषः । अतो अमुष्मात् । मुनेरपि योगीन्द्रादपि । कः शुचिः को निर्मल: न कोऽधन्य इति भावः । इति इत्थम् । मन्यमानेव बुध्यमानेव । नवमल्लिका नूतनमल्लिका । विकास विकसनम् । अगात् आयात् । इण गतौ लुङ् । 'गैत्योः' इति गादेशः ॥२१॥ कदम्बैरित्यादि । नाथ, भो स्वामिन् । विकसत्कुसुमोत्करैः विकसन् कुसुमानाम् उत्करो येषां तैः, विकसत्पुष्पसमूहयुक्तरित्यर्थः । कदम्बेः कदम्बवृक्षः । रोमाञ्चकञ्चुकादानात् रोमाञ्च एव रोमहर्षणम् एव कञ्चुको वारबाणः तस्य आदानात् । आत्मा स्वयम् । सहसा शीघेणं । अलम् अत्यन्तम्। समीकृतः प्राक असम इदानीं समः क्रियते स्म समोकृतः, अभूवम् इति भावः ॥२२॥ तिरश्चामित्यादि । तत्र मनोहरोद्याने । परस्परविरोधिनी परस्पर वैरवती । तिरश्चां तिर्यग्जोवानाम् । संहतिः संदोहः। सहजं सहभाविनम् । विरोधं । हित्वा त्यक्त्वा । बन्धुभावेन बन्धुत्वेन, उपशमभावेनेत्यर्थः । कुटज वृक्षोंका विकास देखकर मयूर यह समझ रहे हैं कि वर्षाऋतु आ गयी है, अतः वे भी नाच रहे हैं ।।१९॥ राजन् ! वहां इधर-उधर बाण-वृक्षोंकी पंक्तियाँ लगी हुई हैं। वे ऐसी जान पड़ती हैं मानो मुनिराजके भयसे भागे हुए कामदेवके हाथसे गिरे हुए बाणोंकी पंक्तियाँ हों ॥२०॥ 'शुचि-आषाढ़मासके समागमसे मेरा विकास होता है। इन मुनिराजसे बढ़कर शुचिपवित्र (आषाढ़ मास ) और कौन होगा' मानो यही सोचकर चमेली खिल उठी ॥२१॥ राजन् ! मुनिराजके आनेपर जिस समय कदम्ब वृक्षोंमें फूल खिले उसी समय मेरे सारे शरीर में रोमांच हो आया, इससे ऐसा जान पड़ा मानो मैंने कवच पहन लिया हो। इस अवसरपर कदम्ब वृक्षोंने मुझे पूरी तरहसे अपने समान बना लिया ॥२२॥ जिन पशुओंमें आपसी विरोध है, उनका झुण्ड वहां जन्मजात विरोध छोड़कर मित्रोंकी भाँति हिल-मिलकर बैठा हुआ १. अ क ख ग घ मदहमा । २. श स तनुङ् । ३. आ प्रतौ केवलं 'इतोऽमुतश्च' इति पाठो दृश्यते । ४. आ 'अतो' इति नास्ति । ५. 'दानात्' इति टीकाकारसंमतः पाठः, "धानात्' इति सर्वासु प्रतिषु । ६. = शीघ्रम् । ७. आ 'परस्पर' इति नास्ति । ८. आ हित्वा हा संपूर्वं त्यक्त्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy