________________
चद्रप्रमचरितम्
[२, १६ -
तद्धर्मश्रवणज्जातविबोधा इव चम्पकाः। न मनागप्यजायन्त मलिनालिसमाश्रयाः॥१६।। यथा पलाशास्तत्रव' शोभन्ते नव किंशुकैः। तथैव जम्बूतरवो विराजन्ते न किं शुकैः ॥१७॥ जयशब्दं वयःशब्दैः कुर्वत्याः काननश्रियः। दन्तावलिरिवाभाति कुन्दकुड्मलसंततिः ॥१८।। हासानिव विमुञ्चन्तः संतोषात्कुसुमोद्गमान् ।
शिखण्डिताण्डवाटोपं तन्वन्ति कुटजद्रुमाः ॥१६॥ तिलकवृक्षः । पृथ्व्याः भूमेः । तिलकं श्रेष्ठम् । तं मुनिम् । दृष्ट्वा वीक्ष्य । क्षणात् उत्सवात् । 'कालविशेषो. त्सवयोः क्षणः' इत्यमरः । व्यकसत् अस्फुटत् । कस गतौ लङ् । तथा हि-स्वपक्षदर्शनात् स्वेषां पक्षाणां सहायानां दर्शनात् वीक्षणात् । कस्य पुरुषस्य । प्रोतिः संतोषः । नोपजायते नोत्पद्यते, अपि तु उपजायते एवं ॥१५॥ तद्धर्मत्यादि। चम्पकाः चम्पकवृक्षाः। तद्धर्मश्रवणात् तस्य श्रीधरमुनीन्द्रस्य धर्मस्य धर्मोपदेशस्य श्रवणात् । जातविबोधा इव जात उत्पन्नो बोधो येषां ते त इव । मनागपि स्वल्पमपि । मलिनालिसमाश्रयाः मलिनानां कृष्णवर्णानाम अलीनां भ्रमराणां समाश्रयाः संबन्धयुक्ताः, पापसमूहस्याधारा न भवन्तीति ध्वनिः । नाजायन्त नाभवन । जनङ प्रादुर्भाव लङः ।।१६।। यथेत्यादि । तत्रैव मनोहरोद्यान एव । पलाशा: पलाशवृक्षाः । नवकिंशुकैः नवनवीनैः किंशुकैः किंशुकवृक्षस्य पुष्पाणि किंशुकानि तैः । 'बहुलं श्लुक् पुष्पमूले' इति विहितप्रत्ययस्य श्लुक । यथा येन प्रकारेण । शोभन्ते विराजन्ते । तथैव तेन प्रकारेणैव । जम्बूतरवः जम्बूवृक्षाः। शुकैः कोरपक्षिभिः । न विराजन्ते किं न शोभन्ते किम् । अपि तु विराजन्त एव । राजन् दोप्तो लट् । यमकम् ॥१७॥ जयशब्दमित्यादि। कुन्दकुड्मलसंततिः कुन्दानां माध्यानां कुड्मलानां मकूलानां संततिः समहः । वयःशब्दः वयसां शब्दैः पक्षिध्वनिभिः । 'खगबाल्यादिनोवयः' इत्यमरः । जयशब्द जयेतिशब्दम् । कुर्वत्याः विदधत्याः। काननश्रियः उद्यानलक्ष्म्याः । दन्तावलिरिव दन्तानां रदनानाम आवलिः पंक्तिः समह इव । आभाति विराजते। भा दीप्तो लट् । उत्प्रेक्षा ॥१८॥ हासानित्यादि। संतोषात् प्रमोदात् । हासानिव हास्थानोव । कुसुमोद्गमान् कुसुमानां पुष्पाणाम् उद्गमान् कुड्मलानि । पाकर तिलकवृक्ष मारे खुशीके फूल उठे हैं। अपने पक्षके व्यक्तिको देखकर किसे प्रसन्नता नहीं होती ? ॥१५॥ जान पड़ता है उनके श्रीमुखसे धर्मोपदेश सुनकर चम्पक वृक्षोंका विवेक जाग उठा है, मानो इसीलिए उन्होंने अपना पूर्ण विकास कर लिया है और इसके पश्चात् काले भौंरोंको-भौंरोंको क्या पापपुञ्जको-आश्रय लेनेके लिए अपने पास तनिक भी नहीं फटकने दिया ॥१६॥ राजन् ! यह तो सभी जानते हैं कि ढाकके पेड़ वसन्तमें और जामुनके पेड़ वर्षा ऋतुमें विकसित होते हैं। किन्तु आपके बागमें इस समय ढाकके पेड़ जैसे नवीन फूलोंसे शोभा पा रहे हैं क्या उसी प्रकार जामुनके पेड़ तोतोंसे शोभा नहीं पा रहे हैं ? ॥१७॥ राजन् ! वहाँ पक्षी चहचहा रहे हैं, अतः लगता है मुनिराजको देखकर वनलक्ष्मी जयजयकार कर रही है । कुन्द वृक्षोंमें कलियाँ खिल रही हैं। उन्हें देखकर ऐसा प्रतीत हो रहा है मानो जयजयकार करनेसे उसके दाँतोंकी पंक्ति देख पड़ रही हो ॥१८॥ कुटजवृक्ष विकसित हो गये हैं। उनमें कलियां खिल उठी हैं । अतएव ऐसा जान पड़ता है कि मुनिसमागमके सन्तोषसे वे हँस रहे हैं।
१. आ इ तत्रेव म तत्रेश। २. अ क ख ग घ म संहतिः । ३. श स तथापि । ४.-विबोधों। ५. आ कुटम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .