________________
- २,७]
द्वितीयः सगः दारुणं यस्तपस्तेजः सौम्यां च दधदाकृतिम् । समाहारेण निर्वृत्तः सूर्याचन्द्रमसोरिव ।।४।। मोक्षसंधानचित्तेन गुणमार्गणशालिना । येन चापधरेणेव भूतेभ्योऽदीयताभयम् ॥५॥ त्रिकालगोचरानन्तपर्यायपरिनिष्ठितम् । प्रतिबिम्बमिवादर्श जगद्यद्वचसीयते ॥६॥ सुवर्णैरभिनिर्वृत्ता दत्तमुक्तोत्तमास्पदाः । यस्याश्चर्यकथाः कर्णपूरायन्ते विपश्चिताम् ॥७॥
लट् ॥ ३ ॥ दारुणमित्यादि। यः मुनिपतिः । दारुणं भयंकरम् ( तीव्रम् )। तपस्तेजः तप एव तेजः' तपःप्रतापम् । सौम्यां मनोहराम् । आकृति च आकारं च । दधत् दधातीति दधत् घरन् । सूर्याचन्द्रमसोः सूर्यश्च चन्द्रमाश्च सूर्याचन्द्र मसौ तयोः । 'इन्द्रासोमादिषु देवतानाम्' इति साधुः। समाहारेण समूहेन निवृत्तः निष्पन्न इव । भातीत्यध्याहारः ॥ ४॥ मोक्षेत्यादि। मोक्षसंधानचित्तेन मोक्षे परमनिर्वाणे संधान संबन्धो यस्य तत् तथोक्तं मोक्षसंधानं चित्तं यस्य तेन, पक्षे मोक्षश्च संधानं च तयोः शरमोक्षणशरसंधानयोः चित्तं यस्य तेन । गुण मार्गणशालिना गुणः गुणस्थानः मार्गणैः मार्गणास्थानः शालिना सम्पूर्णेन, पक्षे गुणेन मौा मार्गणः बाणैश्च शालिना। येन मुनिपतिना। चापधरेणेव धनुर्धरेणेव । भूतेभ्यः प्राणिभ्यः । अभयम् अदीयत । दाण् दाने कर्मणि लङ् , पक्षे अभयम् अदीयत अखण्डयत । दो अवखण्डने। श्लेषोपमा ।। ५ ।। त्रिकालेत्यादि । त्रिकालगोचरानन्तपर्यायपरिनिष्ठितं त्रिकाल एव गोचरो येषां ते त्रिकालगोचराः अनन्ताः अनन्तसंख्यावच्छिन्ना: पर्यायाः सहभाविपरिभाविपरिणामाः तथोक्ताः त्रिकालगोचराश्च ते अनन्तपर्यायाश्च तैः परिनिष्ठितं युक्तम् । जगत लोकः । यद्वचसि यस्य श्रीधरमुनीन्द्रस्य वचसि वचने । आदर्श दर्पणे। प्रतिबिम्बमिव प्रतिकृतिरिव । ईक्ष्यते दृश्यते । ईक्षि दर्शने कर्मणि लट् ॥ ६ ॥ सुवर्णरित्यादि । सुवर्णैः स्पष्टाक्षरः, पक्षे कनकैः। अभिनिवृत्ताः विरचिताः । दत्तमुक्तोत्तमास्पदाः दत्तं मुक्तानां सिद्धानाम् उत्तम श्रेष्ठम् आस्पदं येषां तैः, पक्षे दत्तं मुक्तानां मौक्तिकानाम् उत्तमम् आस्पदं येषां ते । यस्य मुनिपतेः ।
उन्हें आनन्द देतो हैं ॥३॥ उनकी आकृति सौम्य है और उसपर उनके तपका तीव्र तेज है। अत: लगता है वे सूर्य और चन्द्रके संमिश्रणसे रचे गये हैं। वे तेजस्वी होकर भी शान्त हैं ॥४॥ उनका मन मुक्तिके अनुसन्धान में लगा हुआ है, सद्गुणोंके अन्वेषणसे उनको शोभा है और वे समस्त प्राणियोंको अभय प्रदान करते हैं । अतएव वे इस समय उस धनुर्धारीके समान जान पड़ते हैं, जिसका मन केवल बाण छोड़ने और उसके स्थान में दूसरा बाण रखने में लगा हुआ है; जिसकी शोभा डोरी और बाणोंसे है तथा जो लोगोंको निर्भय कर रहा है ॥५॥ जिस प्रकार दर्पण में, सामने रखे सभी पदार्थों और उनको वर्तमान अवस्था की स्पष्ट झलक मिल जाती है, उसी प्रकार उनके वचनों में सारे जगत् और उसकी भूत, वर्तमान और भविष्य में होनेवाली सभी अवस्थाओंकी स्पष्ट झाँकी मिल जाती है ॥६॥ उपदेश देते समय वे प्रसंगवश जो कथाएं सुनाते हैं, वे कर्णभूषण सरीखी रहती हैं। जिस प्रकार कर्णभूषण सोनेसे बनाये
१.=तपसस्ते जस्तपस्तेजः । २. = समुच्चयेन । ३. श स अखण्डयत । ४. परिभावि । ५. आ प्रती केवलं 'ते' इति दृश्यते । ६.= यास ताः। ७.=यास ताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org