SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ -१,८५] प्रथमः सर्गः एतस्यानृजुरयमष्टमीमृगाको व्याक्षिप्तो विकटललाटपट्टकेन । संजातानतिभिरितीव तत्र भेजे भूपालन कुटिलता नृपासनस्थे ॥४॥ तेजोनिधावुदयधामिन सुवर्णनाभनाम्नि प्रवर्त्य तनये युवराजशब्दम् । भोगानवास्थित सदानुभवन् स भूपः सोमप्रभादशनजातकिणाङ्कितोष्टः ॥८॥ ॥ इति श्रीवीरनन्दिकृतावुदयाले चन्द्रप्रभचरिते महाकाव्ये प्रथमः सर्गः ॥ १ ॥ कल्पने लङ् ॥ ८३ ॥ एतस्येत्यादि । एतस्य पद्मनाभस्य । विकटललाटपट्टकेन विकटस्य विशालस्य ललाटस्य पट्ट केन प्रदेशेन 'सुन्दरविशालविकरालेषु विकटः' इति नानार्थकोशे । अनृजुः वक्रः । अयम् एषः । अष्टमोमृगाङ्कः अष्टम्या: चन्द्रः । व्याक्षिप्तः निराकृतः । इतीव संजातानतिभिः संजाता निष्पन्ना आनतिनमस्कारो येषां तैः । भूपालैः भूपतिभिः । नृपासनस्थे सिंहासनस्थिते तत्र तस्मिन् पद्मनाभे । कुटिलता वक्रता। न भेजे न सिषेवे। भज सेवायां कर्मणि लिट् ॥ ८४ ॥ तेज इत्यादि। सोमप्रभादशनजातकिणाङ्कितोष्ठः सोमप्रभादेव्या दशनदन्तैर्जातेन किणेन कलङ्कन अङ्कित: चिह्नित ओष्ठो यस्य सः । सः भूपः पद्मनाभः । तेजोनिधौ पराक्रमनिधाने। उदयधाम्नि उदयस्य भाग्यस्य धाम्नि निलये। सूवर्णनाभनाम्नि सुवर्णनाभनामधेये । तनये पुत्रे । युवराजशब्दं युवराजाभिधानम् । प्रवर्त्य प्रवर्तनं कृत्वा । भोगान् पञ्चेन्द्रियभोगान् । सदा अनवरतम् । अनुभवन् । निविशन् । अवास्थित अवसत् । स्था गतिनिवृत्ती लुङ् । 'संविप्रावात्' इति तङ् ॥ ८५ ॥ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्क चन्द्रप्नभचरिते महाकाव्ये तयाख्याने च विद्वन्मनोवल्लभाख्ये प्रथमः सगः ॥ १ ॥ दोनोंको सम्हाला ॥८३॥ पद्मनाभने जब अपने विस्तीर्ण सुन्दर ललाटकी शोभासे कुटिल अष्टमीके चन्द्रमाको भी जीत लिया, तब उसके सामने हमारी क्या दशा होगी, मानो इसी चिन्ताके कारण पद्मनाभके राजसिंहासनपर आरोहण करते ही सभी राजा उसके सामने नतमस्तक हो गये और उन्होंने अपनी कुटिलवृत्ति छोड़ दी ॥८४॥ पद्मनाभकी रानीका नाम सोमप्रभा और पुत्रका नाम सूवर्णनाभ था। पुत्र बड़ा तेजस्वी और प्रगतिशील था। उसे युवराज बनाकर पद्मनाभ अपनी पत्नी सोमप्रभाके साथ-जिसने सम्भोगके समय अनुरागवश उसके होठको दन्तक्षतसे चिह्नित कर दिया था-भोगोंका अनुभव करने लगा ॥८५।। इस प्रकार वीरनन्दी विरचित उदयाङ्क चन्द्रप्रभचरित महाकाव्यमें पहला सर्ग समाप्त हुआ ॥१॥ १. श स व्याक्लष्टः । २. = भूपालैः राजभिः । नृपासनस्थे सिंहासनस्थिते । तत्र राजनि । कुटिलता वक्रत्वम् । न भेजे। यथायमष्टमीमगाङ्गोऽनेन वक्रतरोऽपि जित: तत्र के वयम्, इति वक्रत्वं विहाय पदयोः पतिता इति भावः । ३. श स तोष्ठः । ४. श स 'कलन' नास्ति । ५. आ अधिकतो चिह्नितावोष्ठी यस्य सः । ६. श स 'श्री' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy