________________
२८
चन्द्रप्रभचरितम्
मुनीन्द्रमविनिन्दितं समभिवन्द्य स श्रीधरं तपः समधिशिश्रिये नृपतिभिः समं भूरिभिः ॥ ८१ ॥
गुरुविरहभवेन पद्मनाभो भृशमसुखेन हतस्तदा तताम् । नरपतिपदमास्थितोऽपि लक्ष्मीर्भवति मुद्दे नहि बान्धवैर्वियुक्ता ||२||
विपुलमतिभिवृद्धामात्यैः कृतप्रतिबोधनः पितृविरहजं हित्वा शोकं कियद्भिरसौ दिनैः । नयनविगलद्वाष्पापूरां सुधीः समभावयत् प्रकृतिमुभयीं स्वामि स्नेहाकुलीकृतचेतसम् ॥ ८३ ॥
पद्मनाभस्य अक्षिणी नयने । पाणिना हस्तेन । प्रमृज्य प्रमार्जनं पूर्वं संमायं । अविनिन्दितम् अकुत्सितं संपूर्ण - चारित्रम् इत्यर्थः । श्रीधरं श्रीधरनामधेयम् । मुनीन्द्रं मुनीनाम् इन्द्रः तं मुनिपतिम् । समभिवन्द्य संस्तुत्व | भूरिभिः अनेकैः । नृपतिभिः नृणां नराणां पतिभिः । समं साकम् । तपः बाह्याभ्यन्तरभेदम् । समधिशिश्रिये स्वीकरोति स्म । श्रिञ् सेवायां लिट् ॥ ८१ ॥ गुरुविरहेत्यादि । गुरुविरहभवेन पितृवियोगजनितेन । असुखेन दुःखेन । हतः पीडितः । पद्मनाभः पद्मनाभनरेन्द्रः । नरपतिपदम् अधिराजपदम् । आस्थितोऽपि आरूढोऽपि । 'शीस्थासोऽधेराधारः' इत्याधारे द्वितीया । तदा तस्मिन् अवसरे । भृशम् अत्यन्तम् । तताम संक्लिष्टवान् । तमु ग्लानो लिट् । बान्धवैः ज्ञातिभिः । वियुक्ता रहिता । लक्ष्मी: संपत्तिः । मुदे प्रीतये । न भवति । अर्थान्तरन्यासः || ८२ ।। विपुलमतिभिरित्यादि । विपुलमतिभिः विपुलया महत्या मत्या बुद्ध्या सहितैः । वृद्धामात्यैः वृद्धैः परंपरागतैः अमात्यैः मन्त्रिभिः । कृतप्रतिबोधनः कृता प्रतिबोधना यस्य सः । सुधीः शोभनधिषणः । असौ पद्मनाभः । कियद्भिः किं मानम् अस्त्येषाम् इति कियन्ति तैः कतिचिद्भिः । दिनैः दिवसैः । पितृविरहजं पितु: विरहेण जातम् । शोकं दुःखम् । हित्वा त्यक्त्वा । नयनविगलद्वाष्पापूराम् नयनैः विगलन् वाष्पस्य आपूरः प्रवाहो यस्याः ताम् । स्वामिस्नेहाकुलीकृतचेतसम् स्वामिनः स्नेहेन प्रेम्णा प्रागनाकुलमिदानीमाकुलं क्रियते, आकुलीकृतं स्वामिस्नेहेन आकुलीकृतं चेतो यस्य तम् उभयाम् उभयरूपां प्रजापरिवारभेदभिन्नाम् आप्तबलमूलबलविकल्पां वा । प्रकृतिम् अमात्यादिसंहतिम् । प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्त्वमात्यादिमातृषु ।' इति वैजयन्ती । समभावयत् आश्वासयत् । भू कृपोव
3
१५
श्रीधर मुनिके पास पहुँचे । निर्मल चारित्र के धारक होनेसे उनकी प्रशंसा सभी करते थे । उनको नमस्कारकर कनकप्रभने अनेक राजाओंके साथ जिनदीक्षा ले लो और तपस्या प्रारम्भ कर दी || ८१ ॥ राजगद्दी पर बैठकर भी पद्मनाभको पिताके चले जानेसे बड़ा दुःख हुआ, उससे उसके हृदयको बड़ी चोट पहुँची । ठीक है — बन्धुओंके बिना राज्यलक्ष्मी भी सुख नहीं दे सकती || ८२ ॥ कनकप्रभके चले जानेसे पद्मनाभके समान प्रजाको भी बहुत सन्ताप हुआ । उसकी आँखोंसे अश्रुधारा प्रवाहित हो रही थी और उसका हृदय भी व्याकुल हो उठा था | स्वामीके प्रति उसे स्नेह जो था । इस स्थितिको देखकर बुद्धिमान् वृद्ध मन्त्रियोंने पद्मनाभको सान्त्वना दी । फलतः कुछ दिनोंमें उसका वह शोक दूर हो सका । स्वयं शोकको छोड़कर उसने दोनों प्रकारकी प्रकृतिको अपने स्वभाव ( स्वास्थ्य )
१. आश स न भवति हि । ३. [ नयनेभ्यो ] ४ [ यस्याः ताम् ]
Jain Education International
[ १, ८:
For Private & Personal Use Only
इस प्रकार और प्रजा
२. श प आ 'विपुलया महत्या मत्या बुद्धया सहितैः नास्ति । । ५. = संस्कृतवान् ।
www.jainelibrary.org