SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ - १,७५] प्रथमः सर्गः दहनस्तृणकाष्ठसंचयैरपि तृप्येदुदधिर्नदीशतैः । न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः ॥७२।। वपुरप्यतिमात्रमान्तरं त्यजति प्राणिनमायुषः क्षये। विरहे खलु कोऽत्र विस्मयो बहिरङ्गैर्धनमित्रबान्धवैः ॥७३॥ सुखमिष्टसमागमे यथा विरहे तस्य तथैव चासुखम् । अत एव सजन्ति निवृतौ सुधियः संगसुखैकनिःस्पृहाः ॥७॥ हितमेव न वेत्ति कश्चन भजतेऽन्यः खलु तत्र संशयम् । विपरीतरुचिः परो जगत्त्रिभिरज्ञानतमोभिराहतम् ।।७।। लक्यद्रिजाक्रोष्टुशङ्करेषु शिवम्' इति नानार्थकोशे। अतिविप्र कृष्यते दूरो क्रियते । विरुद्ध सेवया विरोध-[धि ] वस्तुसेवनेन । ज्वररोगीव ज्वररोगवानिव । उपमा ।।७१॥ दहन इत्यादि । अपि यदि । तृणकाष्ठसंचयैः तृणानां काष्ठानां संचयैः समूहैः । दहनः अग्निः । तृप्येत् प्रोण येत्' नदोशतैः नदीनाम् अनेकैः । उदधिः समुद्रः । पुमान् तु पुरुषस्तु । कामसुखैः कामस्य सुखैः । न तृप्येत् । कर्मणः दुरितस्य । कापि काचित् । बलवत्ता खलु बलयुक्तता हि । अहो अद्भुतम् ॥७२॥ वपुरित्यादि । अत्र संसारे । वपुरपि शरीरमपि । आयुषः आयुष्यस्य । क्षये नाशे। आन्तरम् अन्त:स्थितम् । प्राणिनं जीवम् । अतिमात्रं भृशम् । त्यजति विमुञ्चति । बहिरङ्गैः बाह्यः। धनमित्रबान्धवैः धनैः द्रव्यैः मित्रैः सखिभिः बान्धवैः बन्धुभिः। सह। विरहे विगमे। विस्मयः आश्चर्यम्। कः खल न कोपीत्यर्थः ॥७३॥ सुखमित्यादि । यथा येन प्रकारेण । इष्टसमागमे इष्टम्य वनितादेः समागमे संप्राप्तौ। सुखम् । तथैव च। तस्य इष्टस्य । विरहे विगमे। असुखं दुःखम् । स्यादित्यध्याहारः । अतएव एतस्मात्कारणादेव । संगसुखैकनिस्पृहाः संगेन परिग्रहेण जाते सुखे एक केवलं निस्पृहा वाञ्छारहिताः । सुधियः कल्याण बुद्धयो जनाः । निवृत्ती मोक्ष कारणे । सजन्ति सन्नह्यन्ति, सन्नद्धा भवन्तीत्यर्थः । षज संगे लट् । 'दन्शसन्जश्शपि' इति न लुक् ।।७४॥ हितमित्यादि। कश्चन पुरुषः । हितमेव न वेत्ति न जानाति । अन्यः अपरः। तत्र हिते। संशयं संदेहम् । भजते सेवते । खलु स्फुटम् । परः अन्यः । विपरीतरुचिः विवरीता रुचिः श्रद्धानं यस्य सः । जगत्रिभिः जगतां त्रिभिर्मूढसंशयविपरीतलक्षण: त्रिभिः । अज्ञानतमोभि: बहुत दूर पहुँच जाता है। जैसे ज्वरका रोगी कुपथ्यका सेवन करनेसे ज्वरके मोक्षसे-आरोग्य लाभसे-दूर जा पहुँचता है । ७१ ॥ सम्भव है कभी अग्नि घास व लकड़ी आदिके ढेरसे और समुद्र सैकड़ों नदियोंसे तृप्त हो जाय । किन्तु मनुष्य विषय-सुखसे कभी भी तृप्त नहीं हो सकता। कर्मोको प्रबलता आश्चर्य जनक है ॥ ७२ ।। आयुके नष्ट होते ही जब शरीर भो सदा अपने अन्तरवर्ती-शरोरसे कभी पृथक् न दिखनेवाले-जीवको छोड़ देता है, तो प्रत्यक्षमें पृथक् दृष्टिगोचर होनेवाले सम्पत्ति, मित्र और भाइयोंसे विरह होने में आश्चर्य ही क्या है ॥७३॥ पत्नी व धन आदि इष्ट वस्तुओंके संयोगमें जैसे सुख होता है, वैसे ही उनके वियोगमें दुःख भी होता है । इसीलिये बुद्धिमान् मनुष्य उस संयोगजनित सुखकी चाहको ठुकराकर मुक्तिसुखकी प्राप्तिका प्रयत्न करते हैं-मोक्षमार्गमें लग जाते हैं ।। ७४|| इस जगत्में तीन प्रकारके अज्ञानी हैंपहले वे जो अपने हितको जानते ही नहीं, दूसरे वे जो हितको जानकर भी उसके विषयमें सन्देह करते हैं, और तीसरे वे जो हितको अहित या अहितको ही हित समझते हैं। इस प्रकार सभी संसारी प्राणी इन तीन प्रकारके अज्ञानोंसे नष्ट हो रहे हैं- सदा दुखका अनुभव कर रहे हैं । जिस १. [ तृप्तिमवाप्नुयात् ] । २. [ नदीनां शतानि तैः शतसंख्यापरिमिताभिनंदोभिरित्यर्थः ] । ३. श स संगमसु । ४. श स संगमेन । ५. आ मोक्षकारणं । ६. श स भजति । ७. [ जगत् लोकःत्रिभिः०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy