________________
२४
चन्द्रप्रभचरितम्
[१, ६८क्षणदृष्टतिरोहितैर्जनो विषयैः स्वप्न इव प्रतार्यते । . रतिमेति तथापि तेष्वयं जडबुद्धिर्धिगनात्मवेदिताम् ॥६॥ प्रहतं मरणेन जीवितं जरसा यौवनमैष पश्यति । प्रतिजन्तु जनस्तदप्यहो स्वहितं मन्दमतिर्न पश्यति ।।६६॥ यदतीतमतीतमेव तत्सुखमागामिनि को विनिश्चयः । समुपैति वृथा बत श्रमं पुरुषस्तत्क्षणसौख्यमोहितः ॥७॥ परिणामहिते समीहते पथि सद्यः सुखलिप्सया न यः।
स शिवादतिविप्रकृष्यते ज्वररोगीव विरुद्धसेवया ॥७१॥ ॥६७॥ क्षणदृष्टेत्यादि । स्वप्न इव स्वप्ने यथा । क्षणदृष्टतिरोहितैः क्षणे स्वल्पकाले दृष्टः पश्चात् तिरोहितैः अदृष्टैः । विषयैः पञ्चेन्द्रियविषयैः । जनः लोकः । प्रतार्यते वञ्च्यते । तृ प्लवन-तरणयोः । णिजन्तात्कर्मणि लट् । तथापि तेन प्रकारेणापि । मन्दबुद्धिः मन्दमतिः। अयं जनः । तेषु विषयेषु । रति प्रोतिम् । एति गच्छति । इण गती लट् । अनात्मवेदिताम् आत्मज्ञानरहिताम् । धिक् कष्टम् । 'हा धिक् समया-' इत्यादिना द्वितीया ॥६८॥ प्रहतमित्यादि । एषः अयम् । जन: लोकः । प्रतिजन्तु जन्तून् जन्तून् प्रतिजन्तु तेषु सकल. जीवेषु । जीवितं जीवनम् । मरणेन मृत्युना। प्रहतं विनष्टम् । यौवनं जरसा जरया । 'जरायाङसिन्द्रयस्याचि' इति जसादेशः । प्रहतम् इति पश्यति स्वयमीक्षते । तदपि तथापि । मन्दबुद्धिः मन्दमतिः स्वहितं स्वस्मै हितम् आत्मनेहितम् । न पश्यति । दृश प्रेक्षणे लट् । '[पाघ्राध्मा-] धेट दृशः शः' इत्यादिनाति (?) इति पश्यादेशः । अहो आश्चर्यम ॥६९।। यदित्यादि। यत्सखम अतीतं भतम । तदतीतमेव अतिगतमेव । आगामिनि भविष्यति । सुखे विनिश्चयः व्यवसायः कः, न कोऽपीत्यर्थः । तत्क्षणसौख्यमोहितः । तत्क्षणे तत्काले जातसौख्येन सुखेन मोहितो मूढः । पुरुषः । वृथा मुधा । श्रमं प्रयासम् । समुपैति संप्रयाति । बत हन्त ।।७०।। परिणामहित इत्यादि । यः सद्यः शीघ्रम् । सुखलिप्सया सुखं लब्धुमिच्छया । परिणामहिते परिणामेऽन्ते हिते । पथि रत्नत्रयात्मके' । न समोहते न चेष्टते । सः जनः शिवात् मोक्षात् । 'सुखसलिलमोक्षमङ्गलकोलकवालुकामयामजाननेवाले भी मोहजालमें फंसे हुए हैं ।। ६७ ॥ स्पर्शन आदि पाँच इन्द्रियोंके विषय स्वप्नमें देखे गये राज्यादिके समान क्षणभर दिखलायो देते हैं, बादमें वे दृष्टिसे ओझल हो जाते हैं। वे विषय प्राणीको धोखा देकर चले जाते हैं। फिर भी उनकी मूर्खता देखिए जो वे उन्हीं विषयोंमें आनन्द मानते हैं वे अपनी आत्माकी ओर जरा भी ध्यान नहीं देते इस अनात्मज्ञताको धिक्कार है ॥ ६८ ।। प्रत्येक जीवका जीवन मृत्युके द्वारा और यौवन बुढ़ापेके द्वारा नष्ट किया जाता है। परन्तु इसे देखते हुए भी मूर्ख जीव अपने हितकी ओर ध्यान नहीं देता, यह कितने आश्चर्यकी बात है ॥६९।। भूतकालमें जो भोगने में आया, वह तो बीत ही गया-अब वह लौटकर नहीं आयगा। रहा भावी सुख, सो उसका निश्चय ही क्या है-कदाचित् वह न भी प्राप्त हो सके ? फिर भी बड़ा खेद और आश्चर्य है कि मनुष्य उस क्षणिक तात्कालिक सुखके मोहमें मग्न होकर व्यर्थ ही परिश्रम करता रहता है ॥ ७० ॥ जो मनुष्य आगे सुख देनेवाले मार्ग ( रत्नत्रय ) इच्छासे तात्कालिक सुखकी अभिलाषासे शीघ्र ही नहीं लगता, वह मोक्षसे
१. क ख ग घ वेदितम् । २. अ समीहिते। ३. [क्षणं स्वल्पकालं ] । ४. आ दृष्टः पाश्चान्न दृष्टः अदृष्टः श स दृष्टः तिरोहितैः पाश्चान्न दृष्ट: अदृष्टैः । ५. [ जन्तुं जन्तुं प्रति इति प्रतिजन्तु ] । ६. आ धेड्वेत्यादिना शिधे पश्यादेशः । ७. [ गतम् ] । ८. श स अतिगतमिव । ९. [ सुखस्य लब्धम् इच्छा लिप्सा, तया]। १०. स आत्मत्रयात्मके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,