________________
–१, ६७ ]
प्रथमः सर्गः
अथ जातु स मेदिनीपतिर्निजलक्ष्मीपरिभूषितं पुरम् । परिहृष्टमतिर्विलोकयन्नवतस्थे गुरुसौधमूर्धनि ||६४ ॥ विनिपातयता यच्छया दशमासन्नतमैकपल्वले । परिपीय पयः समुत्तरन् ददृशे तेन तदा गवां गणः ||६५ || घनपङ्कनिमग्नममं किल तत्रैकमसौ जरद्गवम् । म्रियमाणमवेच्य तत्क्षणादिति निर्वेदमगाद्विचक्षणः ||६६ || क्षणभङ्गुरवृत्ति जीवितं भवभाजामिति नात्र विस्मयः । तदिहाद्भुतमेतदीदृशं यदवस्यद्भिरपिं प्रमुह्यते ॥ ६७॥
रराज बभौ । राजञ दीप्तो लिट् । अनेकशकुन्तसंकुलः अनेकं शकुन्तानां संकुलं यस्य स जलाशयः सरोवरः । राजहंसेन विना राजहंसपक्षिणा विना । न विराजते न भाति । लट् ॥ ६३ ॥
२३
।
अथेत्यादि । अथ अनन्तरम् । स मेदिनीपतिः कनकप्रभः । निजलक्ष्मीपरिभूषितम्, निजस्य स्वस्य लक्ष्म्या संपदा परिभूषितम् अलंकृतम् । पुरम् रत्नसंचयम् । परिहृष्टमतिः परिहृष्टा संतुष्टा मतिर्यस्य सः, संतुष्टबुद्धिः सन् । विलोकयन् गुरुसोधमूर्धनि गुरो महति सोधस्य हर्म्यस्य मूर्धनि उपरि । अवतस्थे अवतिष्ठति स्म । स्था गतिनिवृत्तौ लिट् ॥ ६४ ॥ विनिपातयतेत्यादि । यदृच्छया स्वेच्छया । दृशं नेत्रम् । विनिपातयता व्यापारयता । तेन कनकप्रभेण । तदा तत्समये । आसन्नतमे अत्यन्तसमीपे । एकस्मिन् पल्वले सरसि । पयः सलिलम् । परिपीय परिपानं पूर्वं पीत्वा । समुत्तरन् निर्गच्छन् । गवां पशूनाम् । ददृशे दृश्यते स्म । दृशू प्रेक्षणे कर्मणि लिट् ॥ ६५॥ घनपङ्केत्यादि । विचक्षणः प्रौढः । असौ कनकप्रभः । तत्र सरसि । घनपङ्कनिमग्नं घ सान्द्रे पङ्के कर्दमे निमग्नं पतितम् । म्रियमाणम्, म्रियत इति म्रियमाणः तं जीवितं त्यजन्तम् । एकं जरद्गवम् जरंश्चासौ गौश्च जरद्गवः तं 'गोस्तत्पुरुषात्' इत्यट्, वृद्धवृषभम् । अवेक्ष्य अवेक्षणं पूर्वं दृष्ट्वा । तत्क्षणात् तस्मात्क्षणात् । इति वक्ष्यमाणप्रकारेण । निर्वेदं वैराग्यम् । अगात् अगमत् । इण गतो लुङ । 'गत्योः' इति गादेश: ।। ६६ ।। क्षणभङ्गुरेत्यादि । भवभाजां भवं भजन्ति स्म भवभाजः तेषाम्, संसारिणामित्यर्थः । जीवितं जीवनम् । [ क्षणभङ्गुरवृत्ति क्षणभङ्गुरा विनश्वरा वृत्तिर्यस्य तत् ] । इति एवं प्रकारेण । अत्र लोके । विस्मयः आश्चर्यम् । नन भवति । किंतु यत् एतत् इदम् । ईदृशम् एतत्प्रकारम् 'त्यदाद्य-' इत्यादिना दृशेर्धातोः कटु प्रत्ययः । अवस्यद्भिरपि जानद्भिरपि । प्रमुह्यते मुग्धीभूयते । मुह वैचित्ये लट् । [ एष विस्मयः ]
किन्तु राजहंस के बिना वह शोभा
ठीक भी है-- जलाशय में कितने ही अन्य पक्षी क्यों न रहें, नहीं पाता ॥ ६३ ॥
एक दिन राजा कनकप्रभ विशाल राजमहलकी छतपर बैठे हुए अपनी विभूतिसे विभूषित राजधानीकी शोभाको देखकर मन-ही-मन बड़े प्रसन्न हो रहे थे || ६४ ॥ इतनेमें उनकी दृष्टि पासके एक जलाशयपर पड़ी जहाँ पानी पीकर एक बैलोंका झुण्ड वापिस लौट रहा था ॥ ६५ ॥ जिधर से वह झुण्ड लौट रहा था वहाँ सघन कीचड़ जमा हुआ था । उसमें एक बूढ़ा बैल फँस गया था । उसे मरते हुए देखकर बुद्धिमान् राजाको वैराग्य उत्पन्न हो गया, वह मन में इस प्रकार विचार करने लगा ॥ ६६ ॥
संसारी जीवोंका जीवन यदि क्षणभङ्गुर विजलीके समान देखते-देखते नष्ट होनेवाला है तो इसमें कोई आश्चर्य नहीं है, आश्चर्य तो केवल यही है कि जीवनकी क्षणभङ्गुरताको
Jain Education International
१. अ परिपाय । २. क ख ग घ यद्वश्यद्भिरपि । ३. [ अनेके नाना शकुन्ताः पक्षिणः तैः संकुलो व्याप्तः ] । ४. [ भजन्तीति ] । ५. आ मूढो भूयते ।
For Private & Personal Use Only
www.jainelibrary.org