________________
चन्द्रप्रमचरितम्
[१,६१गलन्मदस्योन्नतवंशशालिनो गृहीतसम्यग्विनयस्य सोन्नतेः। गजाधिपस्येव गरीयसौजसा युतस्य यस्याभवदकुशो गुरुः ॥६१।।। विभूषितं यौवनरूपसंपदा विकारवत्या दधतोऽपि विग्रहम् । प्रमाथिभिर्यस्य जितान्तरद्विषो मनो न जरा व्यसनैर्मनस्विनः ॥६२॥ स बह्नपत्योऽपि विशामधीश्वरः सुतेन तेनैव रराज जिष्णुना ।
विराजतेऽनेकशकुन्तसंकुलो न राजहंसेन विना जलाशयः ॥६३॥ र्मार्गेण शालिनी: शोभमानाः । क्रियाः जिनपूजादिव्यापारान् । समाचरन्' प्रवर्तयन् । कृतज्ञः कृतं जानातीति कृतज्ञः उपकारस्मरणवान् । समस्तविद्याधिगमात् समस्तविद्यायाः परिज्ञानात् । प्रवृद्धधी: 'प्रवृद्धा धोर्यस्य तथोक्तः समृद्धबुद्धिरित्यर्थः । सः पद्मनाभः । पलिताङ कुरैविना सितकेशविना । वृद्धः स्थविरः । बभूव भवति स्म । लिट् ॥६०॥ गलन्नित्यादि । गलन्मदस्य गलन स्रवन् मदो गर्वो मदजलं वा यस्य तस्य । उन्नतवंशशालिनः उन्नतेन महता वंशेन गोत्रेण, पक्षे महता भद्रजात्या अथवा पष्ठास्थिना शालिनः शोभमानस्य । 'वंशो वेणी कूले वर्गे पृष्ठस्यावयवेऽपि च ।' इति विश्व: । गहीतसम्यग्विनयस्य गहीत: सम्यक् समीचीनो विनयः सत्कारो येन तस्य । सोन्नतेः उन्नत्या गाम्भीर्येण दैर्ध्यण च सहितस्य । गजाधिपस्येव हस्तिन इव । यस्य पद्मनाभस्य । गुरुः पिता। अङकुशः सृणिरिव । अभवत् अभूत् । लङ । श्लेषोपमा ।। ६१ ॥ विभूषितमित्यादि विकारवत्या विकारयुक्तया । यौवनरूपसंपदा यौवनस्वरूपसंपत्त्या। विभूषितम् अलंकृतम् । विग्रहं शरीरम् । दधतोऽपि धरतोऽपि । जितान्तरद्विषः जिता निराकृता अन्तरद्विषः कामक्रोधलोभमानमदरूपा अरिषड्वर्गा येन तस्य । मनस्विनः सुमनोयुक्तस्य" । यस्य पद्मनाभस्य । प्रमादिभिः तिरस्करणशीलः । व्यसनैः स्वाभाविकादिभिः । न जह्ने नापह्रियते स्म । हृञ् हरणे कर्मणि लिट् ।। ६२ ॥ स इत्यादि । विशां मनुजानाम् । 'द्वो विशौ वैश्य मनुजो' इत्यमरः । अधीश्वरः प्रभुः । सः कनकप्रभः । बह्वपत्योऽपि बहु. पुत्रयुक्तोऽपि । जिष्णुना जयशीलेन । 'भूजेस्स्नुक्' इति शीलार्थे स्नुक् । तेनैव पद्मनाभेनैव । सुतेन पुत्रेण । जाते हैं उन्हें भो वह आसानीसे कर दिखलाता था, तथा वे सब न्याय मार्गके अनुकूल होनेसे सुन्दर दृष्टिगोचर होते थे । समस्त विद्याओंका अभ्यासकर लेनेसे उसकी बुद्धि विकसित हो गई थी। यद्यपि उसके बाल श्वेत नहीं हुए थे, फिर भी वह बुद्धिसे वृद्ध हो गया था ।। ६० ॥ जैसे गजराजके गण्डस्थलसे मदजल झरता है; उसको पीठकी हड्डी उभरी रहती है; वह अच्छी शिक्षा प्राप्त करता है; वह ऊँचा होता है; बहुत अधिक बलवान होता है और उसका दबानेवाला केवल अङ्कुश हो होता है। इसी तरह पद्मनाभको ज्ञान आदिका मद-अहङ्कार नहीं था; उसने उन्नत वंशमें जन्म लिया था; उसने अच्छी शिक्षा प्राप्त की थी; वह निरन्तर उन्नतिशील था, वह बलवान था और वह अपने पिताजीको ही अपना अङकुश मानता था-केवल पिताजीसे ही दबता था, और किसीसे भी नहीं दबता था ॥ ६१ ॥ यौवन रूप सम्पत्ति कामक्रोधादि विकारोंको उत्पन्न करनेवाली होती है ! किन्तु पद्मनाभके शरीरको विभूषित करके भी वह उसे विकारयुक्त नहीं बना सकी। वह बड़ा मनस्वो था। उसने काम आदि आभ्यन्तर शत्रुओंपर उसने विजय पाली थी। अतः घोर दुःख देनेवाले व्यसन उसके मनको नहीं हर सके । ६२ ।। कनकप्रभके और भी अनेक पुत्र थे, किन्तु उसकी शोभा केवल विजयशील पद्मनाभसे ही थी, सो
१. स 'समाचरन् प्रवर्तयन्' नास्ति । २. = प्रबुद्धा धीर्यस्य सः । ३. श स यागहस्तिन । ४. श स वर्गों। ५. = मनस्विनः पण्डितस्य । ६. मूलप्रतिष 'प्रमाथिभिः' पाठोऽस्ति । = प्रमाथिभिः प्रपातिभिः । ७. आ भाविकादिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org