________________
चन्द्रप्रभचरितम् पराक्रमाकान्तमहोभुजो जगल्ललामलक्ष्मीनिलयीकृतोरसः। नृपस्य तस्याथ निशान्तनायिका सुवर्णमालेति बभूव भामिनी ॥५४॥ यदीयमेणाङ्कमरीचिहारिणा विसारिणा कान्तिमयेन वारिणा। नितान्तनिधौतमिवाविनिन्दितं न जातुचिच्छीलमभून्मलीमसम् ॥५५॥ वहन् स्मरापाण्डुकपोलमण्डले शशाङ्कशङ्कामिव वक्त्रपङ्कजे। सहासफेनो विचकास यत्तनावनूनलावण्यमयः पयोनिधिः ॥५६।। भुवः समुद्धर्तुरधिष्ठितात्मनो बलेन सत्यानुरतैकचेतसः।
बभूव लक्ष्मीः पुरुषोत्तमस्य सा मृगेक्षणा तस्य नृपस्य मन्दिरे ॥५७॥ अथ नरपतिवर्णनानन्तरम । पराक्रमाकान्तमहोभजः पराक्रमेण विक्रमेण आक्रान्ता निराकृता महोभुजो राजानो यस्य, तस्य । जगल्ललामलक्ष्मीनिलयीकृतोरस: जगतो लोकस्य ललाम्ना श्रेष्ठया लक्ष्म्या रमया निलयीकृतम् आवासीकृतम् उरो वक्षो यस्य तस्य । नपस्य कनकप्रभस्य । सुवर्णमालेति सुवर्णमालेत्यभिख्या निशान्तनायिका अन्तःपुरप्रधाना। भामिनी कामिनी। बभूव भवति स्म । भू सत्तायां लिट ॥ ५४॥ यदीयमित्यादि । यस्याः सुवर्णमालाया इदं यदीयम् । 'दोश्च्छः' इति छ-प्रत्ययः । अविनिन्दितम् अकुत्सितम् । शीलं स्वभावः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । एणाङ्कमरीचिहारिणा एणाङ्कस्य चन्द्रस्य मरीचिहारिणा अपहारशोलेन । बिसारिणा प्रसारिणा । कान्तिमयेन कान्तिस्वरूपेण । वारिणा सलिलेन । नितान्तनिधौ तमिव नितान्तम् अत्यन्तं निधौतमिव प्रक्षालितमिव । जातुचित् सकृदपि । मलीमसं मलयुक्तम् । नाभूत् नाभवत् । भू सत्तायां लुङ् ।॥ ५५ ॥ वहन्नित्यादि । यत्तनौ यस्याः सुवर्णमालायाः तनो शरोरे। सहासफेनः हास एव फेनः तेन सहित: । अनूनलावण्यमयः अनूनं संपूर्ण लावण्यमयं देहकान्तिमयं लवणमयं वा यस्य सः (?)। पयोनिधिः समुद्रः । स्मरापाण्डुकपोलमण्डले स्मरेण मन्मथेन आपाण्डु ईषच्छुभ्र कपोलयोगण्डयो मण्डलं प्रदेशो यस्य तस्मिन् । वक्त्रपङ्कजे मुखकमले । शशाङ्कशङ्का चन्द्र इति शङ्कां संशयम् । वहन्निव धरन्निव । विचकास ववृधे । कस गतौ लिट् । उत्प्रेक्षा ॥ ५६ ॥ भुव इत्यादि । भुवः भूमेः। समुद्धर्तुः रक्षकस्य । 'कृतकामुकस्य-' इत्यादिना कर्मणि षष्ठी । पक्षे समुद्धर्तुः धारकस्य । बलेन सामर्थ्येन, बलदेवन । अधिष्ठितात्मन: अधिष्ठितो युक्त आत्मा बुद्धिः, पक्षे देहो यस्य । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च ।' इत्यमरः । सत्यानुरतैकचेतसः सत्येऽनुरतं तत्परम् एकं मुख्यं चेत: चित्तं यस्य तस्य, पक्षे सत्यायां सत्यभामायाम् अनुरतम्
अब यहाँसे रानीका वर्णन प्रारम्भ होता है। उसके पराक्रमसे सभी राजा-महराजा प्रभावित थे। जगत्के पदार्थों में सबसे श्रेष्ठ जो लक्ष्मी है उसने कनकप्रभके वक्षस्थलको अपना निवासगृह बना लिया था। उसके अन्तःपुर में रानी सुवर्णमाला मुख्य थी। वही उसको पटरानी थी ॥ ५४ ।। सुवर्णमालाका शोल कभी मलिन नहीं हुआ, उसकी सभी प्रशंसा करते थे। वह मानो चन्द्रकिरणोंके समान मनोहर व चारों ओर फैलनेवाले उसके कान्ति-जलसे खूब धो दिया गया था ॥ ५५ ।। उसका कपोल मण्डल गोरा था। कामदेवने उसे और भी गोरा कर दिया । अतएव वह चन्द्र सदृश दिखता था। लावण्यके समुद्रने उसे साक्षात् चन्द्रमा समझ लिया। फलतः वह उसके शरीरमें वृद्धिको प्राप्त हुआ था। उसका मन्दहास उसमें फेनका स्थान ले रहा था ॥५६॥ कनक प्रभने कृष्णके समान पृथ्वीका उद्धार किया था। कृष्ण जहाँ बलरामसे युक्त थे वहाँ कनकप्रभ आत्मबलसे संयुक्त था। कृष्णका मन यदि सत्यभामा
१. अ भोगिनी। २. अ °मिवावनिन्दितं ममिवारिनिन्दितं । ३. [ एणाङ्क: चन्द्रः, तस्य मरोचयः किरणाः, तद्वत् हारिणा मनोहरेण ] | 'यत्राकृतिस्तत्र गुणा भवन्ति प्रायो विरूपासु भवन्ति दोषाः' इति सूचितम् । ४. श स 'भू सत्तायां लुङ्' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org