________________
१६
चन्द्रप्रभचरितम्
कलासमग्रोऽपि जनाभिनन्द्यपि श्रियं दधानोऽप्यभिभूतविष्टपाम् । प्रदोषसंसर्गितया यमुज्ज्वलं शशाक जेतुं नं कुरङ्गलाञ्छनः ॥४४॥ कुलं चरित्रेण विशुद्धवृत्तिना यशोभिराशाः शरदभ्रविभ्रमः । वगुणैर्यः श्रवणेन शेमुषीं विशेषयामास जगद्विशेषकः ॥ ४५ ॥
૨
3
देशः । निसर्गजत्यागगुणेन निसर्गजेन स्वभावजनितेन त्यागगुणेन वितरणगुणेन । निर्जितैः पराजितैः । कल्ोपपदैः कल्प एवोपपदं येषां तैः । महीरुहैः वृक्षः, कल्पवृक्षैरित्यर्थः । शुचेव शोकेनेव । नितान्तम् अत्यन्तम् । विमनस्कवृत्तिता विनष्टं मनो यस्था सा विमनस्का सा वृत्तिर्येषां ते विमनस्कवृत्तयः तेषां भावः तथोक्ता मनोविहीनवर्त्तनत्वम् । दधे दधे । डुधाञ् धारणे च कर्मणि लिट् ॥ ४३ ॥ कलासमग्रोऽपीत्यादि । कुरङ्गलाञ्छनः मृगाङ्कः चन्द्रः । कलासमग्रोऽपि कलाभि: षोडशभागैः समग्रोऽपि संपूर्णोऽपि, पक्षे कलाभिः शिल्पादिकोशलैः संपूर्णोऽपि । 'कला स्यान्मूलवृद्धी शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलाकालयोः कलाः ।।' इति विश्वः । जनाभिनन्द्यपि लोकपोषणशीलोऽपि पक्षे जगदाह्लाद्यपि । अभिभूतविष्टपाम् अभिभूतं तिरस्कृतं विष्टपं यया ताम् । श्रियं शोभाम्, पक्षे संपत्तिम् । दधानोऽपि धत्त इति दधान: । 'सल्लड् -' इत्यादिना आनश्-प्रत्ययः । प्रदोष संसंगितया प्रदोषस्य रजनीमुखस्य, पक्षे प्रकृष्टो दोषः प्रदोष इति ध्वनिः तस्प संसर्गितया संबन्धित्वेन । उज्ज्वलम् उत्तेजसम् । यं कनकप्रभम् । जेतुं जयनाय । न शशाक समर्थो न बभूव । शक्लृ शक्तो लिट् ॥४४॥ कुलमित्यादि । जगद्विशेषकः जगतां विशेषको जगत्तिलक इत्यर्थः । ' तमालपत्र तिलकचित्रकाणि विशेषकम्' इत्यमरः । यः कनकप्रभः । विशुद्धवृत्तिना विशुद्धया निर्मलरूपया वृत्त्या युक्तेन । चरित्रेण चारित्रेण । कुलं गोत्रम् । विशेषयामास अलंकार । शिष्लृ विशेषणे णिजन्ताल्लिट् तद्योगे 'दयायास्क -' इत्यादिना अस भुवीति धातोर्योगः । शरदभ्रविभ्रमैः शरद: शरत्कालस्याभ्रस्येव विभ्रमो येषां तैः शुभैः यशोभिः कीर्तिभिः । आशाः दिशाः । विशेषयामास । गुणैः शक्तित्रयादिभिः । वपुः शरीरम् । विशेषयामास । श्रवणेन शास्त्रेण । 'श्रवणं श्रुतिकर्णयोः' इति
५
[१, ४४
दूसरोंके लिए थी । उसने अपने सर्वोत्कृष्ट स्वाभाविक दानगुणसे कल्पवृक्षों को जीत लिया था । इसी शोकसे मानो उन सबने अतिशय अचेतनाको — पृथिवीकायिकरूपताको — ग्रहण किया था ॥ ४३ ॥ वह समस्त ( ७२ ) कलाओं में प्रवीण था, प्रजाको आनन्द देता था और उसके पास अपार सम्पत्ति थी यों चन्द्रमा भी समस्त ( १६ ) कलाओंका स्वामी है, लोगोंको आह्लाद प्रदान करता है और उत्कृष्ट शोभा व लक्ष्मीको धारण करता है । फिर भी वह चूंकि प्रदोष संसर्गितासे–रात्रिके समागम रूप दोषसे -- दूषित है अतः वह कुरंगलांछन -- मृगले चिह्न उपलक्षित ( कलंकी ) चन्द्रमा - उस उक्त प्रदोषसं संगिता दोषसे--अनेक निष्कृष्ट दोषोंके सम्बन्धरूप कलंकसे रहित उस कनकप्रभको जीतने के लिए समर्थ नहीं हो सका || ४४ ॥ वह समस्त जगत्का तिलक था । उसने पवित्र चरित्रसे अपने कुलको, धवल यशसे दिशाओंको,
१. अ क ख ग घ शशांककेतुर्न आ इ शशांक जेतुं न । २. विगतं मनो यस्यासौ विमनस्कोऽचेतनस्तस्य वृत्तिर्व्यापारस्तस्या भावस्ताम्, अचेतनत्वमित्यर्थः ] । ३ आ मूलगैवृद्धा श स मूलगे वृद्धौ । ४. आ श सकलानां । ५. आ प्रकृष्टदोषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org