________________
- १, ४८]
प्रथमः सर्गः न भूरिदानोऽपि मदेन संगतिं जगाम यः साधितशत्रषड्गुणः । अहीनसंसर्गसमन्वितोऽपि वा द्विजिह्वसंसर्गतया न दूषितः ॥४६॥ निजैः समस्तानभिभूय धामभिः समुद्धतान् मण्डलिनोऽतिदुःस है । चकार यो गामपि सर्वविष्टपप्रतोतकीर्तिः करिणी वसुंधराम् ॥४७॥ नितान्त वृद्धन कठोरवृत्तिना सनीतिना कञ्चकिनेव तेजसा ।
निरन्तरं यस्य विभोर्वधूरिव व्यधीयत श्रोश्चपलापि निश्चला ॥४८॥ विश्वः । शेमुषीम् बुद्धिं च । विशेषयामास ॥४५॥ नेत्यादि । साधितशत्रुषङ्गणः साधिताः शत्रवः षङ्गणाश्च येन स: 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षङ्गणाः' इत्यमरः । यः कनकप्रभः । भूरिदानोऽपि भूरि बहुलं दानं वितरणं यस्य, बहुवितरणोऽपि, पक्षे बहुगर्वयुक्तोऽपि । 'त्यागग जमदशुद्धिपालनच्छेदनेषु दानम्' इति नाना. थकोषे । मदेन अहंकारेण । संगति संसर्गम् । न जगाम न ययौ । गम्ल गतौ लिट् । अहोनसंसर्गसमन्वितोऽपि न हीना अहीनाः, तेषां महतां संसर्गेण संपर्केण समन्वितोऽपि यक्तोऽपि, पक्षे अहोनाम् इनोऽहीन. तस्य सर्पराजस्यसंसर्गसहितोऽपि । द्विजिह्वसंसर्गतया द्विजिह्वस्य दुर्जनस्य, पक्षे, सर्पस्य संसर्गतया संपर्कयुक्तया [ युक्ततया ] दूषितः निन्दितः । न-न बभूव ॥४६॥ निजैरित्यादि । सर्वविष्टपप्रतीतकीर्तिः सर्वेषु विष्टपेषु प्रतीता प्रथिता कीतिर्यस्य सः । यः कनकप्रभः । अन्यदुःसहैः अन्यैः इतरः सोढमशक्यः । निजैः स्वकीयः। धामभिः तेजोभिः । 'गृहदेहत्वित्प्रभावा धामानि' इत्यमरः । समुद्धतान् गर्वितान् । समस्तान् सकलान् । मण्डलिनः मण्डलम् अस्त्येषाम् इति मण्डलिनः भूपालान् । 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्टप्रभेदेऽप्युपसूर्य केऽपि भुजङ्गभेदे शुनि मण्डल: स्यात् ॥' इति विश्वः । अभिभूय तिरस्कृत्य । वसुंधरां वसु द्रव्यं धरतीति वसुंधरा तां द्रव्यधारिणी भूमिम् । गाम अपि गोसंज्ञाम अपि । करिणी हस्तिनी करवती च । चकार विदधौ। डुकृञ् करणे लिट् ॥४७॥ नितान्तेत्यादि । विभोः प्रभोः। यस्य कनकप्रभस्य । नितान्तवृद्धेन नितान्तम् अत्यन्तं वृद्धेन वर्षीयसा प्रवृद्धेन च । कठोरवृत्तिना निष्ठुरवर्तनायुक्तेन । सनीतिना नीतियुक्तेन । कञ्चुकिनेव अन्तःपुराधिकारिणेव । तेजसा पराक्रमेण । श्रो: लक्ष्मीः । चपला चञ्चलापि । वधूरिव सीमन्तिनीव । निरन्तरं सदैव । निश्चला स्थिरीभूता। व्यधीयत अक्रियत । डुधाञ् धारणे च कर्मणि लङ् गुणोंसे शरोरको और शास्त्र-श्रवणसे बुद्धिको विभूषित किया था ॥ ४५ ॥ वह बड़ा दानी ( हाथी ) था किन्तु उसे तनिक भी मद-घमण्ड ( मदजल ) नहीं था, हो भी कैसे सकता था; क्योंकि उसने काम, क्रोध, हर्ष, मान, लोभ और मद इन छ: अन्तरङ्ग शत्रुओंपर पूर्ण विजय पा ली थी। वह उत्तम पुरुषों ( शेषनाग ) से सम्बन्ध रखता था, किन्तु उसे चुगलखोरों व दुर्जनों ( सर्पो ) का संसर्ग दूषित नहीं कर सका था-वह कानका कच्चा नहीं था ।। ४६ ।। उसकी कीति सारे संसारमें फैली हुई थी। उसने अपने असह्य तेज व प्रभावसे उद्दण्ड मण्डलेश्वरोंको जीतकर अपने अधीन कर लिया था। इस प्रकारसे उसने गोको-गायको-भी करिणीहथिनी-बना दिया था, ( विरोधाभास है; उसका परिहार है-) गोको-पृथिवीको-करिणीकरवाली ( राजशासन ग्राह्य भागसे संयुक्त )-बना दिया ॥ ४७ ॥ उसका प्रताप उन्नतिकी चरम सीमापर था, कठोर व्यवहार करनेवाला था तथा कानून उसका साथ दे रहा था। उस ( प्रताप ) ने उस ( कनकप्रभ ) की चञ्चल लक्ष्मीको हमेशाके लिए स्थिर कर दिया था।
१. टोकानुसृतोऽयं पाठः, प्रतिषु षड्गणः । २. आ इ अदीन । ३. अ आ ( टीकाकृतस्तु समक्ष 'नोऽन्यदुःसहैः' पाठ आसोदिति प्रतीयते ) इनोरिदुःसहैः । ४. = साधितो वशं नीतः शत्रूणां षड्गणो येन सः । तदुक्तम् - काम: क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवत्ययम् । ५. श स त्यागमद गजमद । ६ आ श स संसर्गितया । ७. आ श स तां भूमि द्रव्यधारिणीं ।
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org