SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १४ चन्द्रप्रभचरितम् स यत्र दोषः परमेव वेदिकाशिरः शिखाशायिनि मानभञ्जने । पतत्कुले कूजति यन्न जानते रसं स्वकान्तानुनयस्य कामिनः ॥३८॥ अथाभवद् भूरिगुणैरलंकृतो नरेश्वरस्तस्य पुरस्य शासिता । न केनचिद्यस्तु लितद्युतिस्तथाप्युवाह रूढया कनकप्रभाभिधाम् ॥३६॥ यशोभिरेणाङ्क कला समुज्ज्वलैः पुरः प्रयातैरिव पूरितान्तरे । विधूपितारातिकुलानि भूतले न यस्य तेजांसि ममुर्महौजसः ||४०|| परलोकभोरुभिः परलोकेभ्यः शत्रुलोकेभ्यः, पक्षे परलोकेभ्यो जन्मान्तरेभ्यो भोरुभिर्भयचाकितैः महाजनैः सत्पुरुषैः । प्रकामं यथेष्टम् । अधिष्ठितम् आश्रितम् । प्रविभाति प्रविराजते । भा दीप्तौ लट् । विरोधः । || ३७ ॥ स इत्यादि । यत्र पुरे । वेदिकाशिरः शिखाशायिनि वेदिकायाः शिरसः पुरोभागस्य शिखायामग्रभागे शायिनि स्वापिनि । मानभञ्जने मानं गर्व भनक्तीति मानभञ्जनं तस्मिन् गर्वावमर्दने । पतत्कुले पततां पक्षिणां कु समूहे । कूजति ध्वनति सति । कामिनः कामुकाः । स्वकान्तानुनयस्य स्वेषां कान्तानां प्राणनायिकानाम् । अनुनयस्य प्रार्थनायाः । रसं स्वादम् । यत् यस्माद्धेतोः । न जानते न बुध्यन्ते । ज्ञा अवबोधने लट् । यत्तदोनित्यसंबन्धादिति ततो हेतोः । सः अरसज्ञतालक्षणो गुणः । परमेव केवलमेव । दोषः स्यान्नापरो भवेत् । तद्ध्वनिः ततोऽप्यधिकः ( ? ) इति भावः ।। ३८ ।। अभूत अथेत्यादि । अथ पुरवर्णनानन्तरम् । यः राजा । केनचित् चेतनाचेतनद्रव्येण । तुलितद्युतिः तुलिता उपमिता द्युतिः कान्तिर्यस्य सः । न - न भवति । तथापि कनकप्रभाभिधां कनकप्रभ इत्यभिधाम् अभिधानम् । रूढ्या प्रतीत्या । उवाह दधौ । वह प्रापणे लिटि । भूरिगुणैः भूरिभिर्बहुलं गुणैर्नय प्रतापादिभिः । अलंकृतः भूषितः । स नरेश्वरः नराणामीश्वरो नरपतिः । तस्य पुरस्य रत्नसंचयपुरस्य । शासिता रक्षकः । अभवत् I भू सत्तायां लङ् ।। ३९ ।। यशोभिरित्यादि । एणाङ्ककला समुज्ज्वलैः एणाङ्कस्य चन्द्रस्य कला इव समुज्ज्वलैः प्रकाशमानैः । पुरः प्रयातैरिव अग्रे धावद्भरित्र । यशोभिः कीर्तिभिः । पूरितान्तरे पूरितं परिपूर्णम् अन्तरं मध्यं यस्य तस्मिन् । भूतले भूमिप्रदेशे । महौजसः महापराक्रमस्य । यस्य राज्ञः । विधूपितारातिकुलानि विधूपितानि संतापितानि अरातीनां शत्रूणां कुलानि यैः तानि । तेजांसि पराक्रमाः । न ममुः आदि उत्तम गुणोंसे विभूषित हैं; मुख्य हैं; अरहंत या विष्णुके समान गुणी हैं; मद रहित हैं; सदा हर्ष मनाते हैं; निर्भय हैं और कभी किसीसे शत्रुता नहीं रखना चाहते ।। ३७ ।। वहाँ यदि कोई दोष है तो केवल यही कि वेदिकाके ऊपरी भाग में सोनेवाले पक्षी, जो अव्यक्त मधुर ध्वनि - कलकल शब्द - करते हैं उसे सुनते ही मानवती नायिकों का मान गलित हो जाता है । फलतः उनके साथ अनुनय करनेसे जो रस मिल सकता है, उससे उनके कामक्रीडाके इच्छुक पतिदेव सर्वथा वंचित रह जाते हैं - उसके अनुभवका उन्हें अवसर प्राप्त हो नहीं होता ॥ ३८ ॥ [ १, ३८ अब आगे उस पुरके राजाका वर्णन प्रारम्भ होता है । उस नगरका शासक — राजा अनेक गुणोंसे विभूषित था । उसके शरीरको आसाधारण कान्तिके लिए यद्यपि किसी सुवर्णादिकी उपमा नहीं दी जा सकती थी, फिर भी वह रूढिवश कनकप्रभ - सुवर्ण-जैसी कान्तिवाला इस नामको धारण करता था - उसका नाम कनकप्रभ था || ३६ || वह बड़ा बलवान था । उसका यश चन्द्रमाकी कलाओंके समान निर्मल था - जो पहलेसे हो पृथ्वीको व्याप्त कर चुका था— उसका पराक्रम प्रसिद्ध हो चुका था । मानो इसीलिए शत्रुओंको सन्ताप देनेवाला उसका १. [ प्रणयिनीनाम् ] । २. आ तद्दर्शनानन्तरे । ३. आ वहि प्रापणे लिटि । ४. [ कलाभिः ] । ५. आ प्रधूषितानि श स प्रधूपितानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy