________________
- १, ३७ ]
प्रथमः सर्गः
विभान्ति यस्मिन् बहुधोज्ज्वलोपल प्रणद्धभित्तीनि गृहाणि सर्वतः । निजेषु लीनानि दधत्सु दीप्रतां पतङ्गसंतापभियेव धामसु ॥३४॥ सन प्रदेशोऽस्ति न यो जनाकुलो जनोऽप्यसौ नास्ति न यो धनेश्वरः । धनं न तद् भोगसमन्वितं न यन्न यत्र भोगोऽपि स यो न संततः ॥३५॥ विलुप्तशोभानि विलोचनोत्पलैः सितेतराण्यम्बुरुहाणि योषिताम् । मरुच्चलद्वीचिनि यत्र शीतले लुठन्ति तापादिव दीर्घिकाजले ॥ ३६॥ महागुणैरप्यगुणैर्मदोज्झितैरपि प्रवृत्तप्रमदैर्महाजनैः ।
अधिष्ठितं यत्प्रविभाति निर्भयैरपि प्रकामं परलोकभीरुभिः ॥ ३७॥
3
७
।। ३३ ।। विभान्तोत्यादि । यस्मिन् पुरे । विविधोज्ज्वलोपलप्रणद्धभित्तीनि विविधैर्नानाप्रकारैरुज्ज्वलैदिव्यैरुपलै रत्नशिलाभिः प्रणद्धा निबद्धा भित्तयो येषां तानि । गृहाणि सदनानि । सर्वतः समन्ततः । दीप्रताम् प्रकाशनशीलताम्' । 'न कम्यस्कम्प स्मिहिंसदोपो रः' इति र प्रत्ययः । दधत्सु धरत्सु । निजेषु स्वकीयेषु । धामसु कान्तिषु । ' गृहदेहत्विट्प्रभावा धामानि ' इत्यमरः । पतङ्गसंतापभिया पतङ्गस्य सूर्यस्य संतापाज्जातया भिया भीत्या | 'पञ्चमो भयादिभि:' इति पञ्चमी । 'पतङ्गी पक्षिसूर्यौ च' इत्यमरः । लीनानि स्थगितानीव । विभान्ति विराजन्ते । उत्प्रेक्षा ॥ ३४ ॥ स इत्यादि । यत्र पुरे । यः प्रदेशः । जनाकुल: लोकसंकीर्णः । न-न भवति । स प्रदेशः । न अस्ति न विद्यते । यः जनोऽपि लोकोऽपि । धनेश्वरः द्रव्यपतिः । नन्न भवति । असौ जनोऽपि । नास्ति न विद्यते । यत् धनम् । भोगसमन्वितं भोगसंयुतम् । न-न संभवति । तत् धनम् । न न संभवति । यः भोगोऽपि । सन्ततः शाश्वतः । न-न भवति । सः भोगः । न-न विद्यते । एकावल्यलंकारः ।। ३५ ।। विलुप्तशोभानीत्यादि । यत्र पुरे । योषितां वनितानाम् । विलोचनोत्पलैः विलोचनानि एवं उत्पलानि तैः । विलुप्तशोभानि विलुप्ता अपहृता शोभा येषां तानि तथोक्तानि । सितेतराणि सितस्य इतराणि सितेतराणि । अम्बुरुहाणि अम्बुनि रुहन्तीत्यम्बुरुहाणि नीलोत्पलानि इत्यर्थः । मरुच्चलद्वीचिनि मरुता चलन्त्यो वीचयो यस्मिन् तस्मिन् । शीतले दीर्घिकाजले दीर्घिकायाः सरोवरस्य जले | तापादिव संतापादिव । लुठन्ति । लुठि प्रतिघाते लट् । उत्प्रेक्षा ॥ ३६ ॥ महागुणैरित्यादि । यत् पुरम् । महागुणैरपि महान्तो गुणा येषां तैः सभ्यक्त्वादिगुणयुवतैरपि । अगुणैः गुणहीनैः, पक्षे न गुणा अगुणाः तैर्मुखैः [ मुख्यैः ] । 'रूपादौ तन्तुषु ज्यायामप्रधाने नये गुण:' इत्यभिधानात् । मदोज्झितैरपि गर्वरहितैरपि । प्रवृत्तप्रमदैः प्रकृष्टो मदः प्रमदो महाहंकारः, पक्षे प्रमदः संतोष:, प्रवृत्तो निष्पन्नः प्रमदो येषां तैः । निर्भयैरपि सप्तभयरहितैरपि । वहाँके भवनोंकी भित्तियाँ बहुत प्रकारके उज्ज्वल — चमकीले - पाषाणोंसे निर्मित थीं । इसलिये वे दिन में खूब चमकते हैं। उनका तेज इतना अधिक है कि उसमें वे स्वयं दृष्टिगोचर नहीं होते । अत एव ऐसा जान पड़ता है मानो वे सूर्यकी तेज धूपके भयसे अपने धाम - तेज - में छिप रहे हैं ||३४|| वहाँ ऐसा कोई प्रदेश ( मुहल्ला ) नहीं जो मनुष्योंसे व्याप्त न हो; ऐसा कोई मनुष्य भी नहीं, जो धनकुबेर न हो; ऐसा धन भी नहीं, जो भोगमें न आता हो; और ऐसा कोई भोग भी नहीं, जो निरन्तर उपलब्ध न हो ||३५|| वहाँकी स्त्रियोंके नेत्र-कमलोंने नील कमलोंकी शोभाको लुप्त कर दिया है— जीत लिया है । इससे ऐसा प्रतीत होता है कि इस पराजयजनित सन्तापके कारण ही मानो वे दीर्घिकाओं ( जलाशयों ) के भीतर वायुके वेगसे लहराते हुए शीतल जल में इधर-उधर लोट रहे हैं ।। ३६ ।। उस नगरकी शोभा जिन महान् पुरुषोंसे है, वे सम्यग्दर्शन
१३
१. श स प्रकाशशीलतां । २. श स सन्तापाज्जातया' नास्ति । ३. आ 'भिया' नास्ति । ४. [तिरोहितानीव ] । ५. आ भोगैः संयुतं । ६ श न विद्यते । ७ [ सितेभ्यः ] । ८ = लुठन्ति प्रकम्पन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org