SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१, २६ - सुगन्धिनिःश्वासमरुन्मनोहरे मनोभुवापाण्डुनि कामिनीमुखे । समापतन् राहुरिवेन्दुशङ्कया विलोक्यते यत्र मधुब्रतव्रजः ॥२६॥ निपातयन्ती तरले विलोचने सजीवचित्रासु निवासभित्तिषु । नवा वधूर्यत्र जनाभिशङ्कया न गाढमालिङ्गति जीवितेश्वरम् ॥२७॥ शशाङ्ककान्ताश्ममयोध्र्वभूमिकात् पतत्पयः सौधचयाद् विधूदुगमे । शिखण्डिनां यत्र पयोदशङ्किनां तनोत्यकाण्डेऽपि विकासि'ताण्डवम् ॥२८॥ वर्तनशोलानाम् । शरीरिणां शरीरमस्त्येषामिति शरीरिणस्तेषां प्राणिनाम् । गजभ्रमः गजा इति भ्रमः । वितन्यते विस्तार्यते । तनु विस्तारे कर्मणि लट् । भ्रान्तिमान् ।। २५ ॥ सुगन्धीत्यादि । यत्र पुरे । सुगन्धिनिश्वासमरुन्मनोहरे सु शोभनो गन्धो यस्य [ स ] सुगन्धिः, 'सूत्पूतिसुरभेगन्धादिद् गुणे' इति इत्, स चासौ निश्वासश्च तस्य मरुद् वायुः तेन मनोहरं तस्मिन् । मनोभुवा पाण्ड्डनि मनोभवेन मन्मथेन मन्मथक्रीडयेत्यर्थ आपाण्डुनि ईषच्छुभ्रे । कामिनीमुखे कामिनीनां वनितानां मुखे। मधुव्रतव्रजः मधुव्रतानां भ्रमराणां व्रजः समूहः । इन्दुशङ्कया इन्दुरिति चन्द्र इति शङ्कया संदेहेन । समापतन् समागच्छन् । राहुरिव राहुग्रह इव । विलोक्यते वीक्ष्यते । लोकृन दर्शने कर्मणि लट् । भ्रान्तिरुत्प्रेक्षा च ॥ २६ ।। निपातयन्तीत्यादि । यत्र पुरे। सजीवचित्रासु जीवचित्रैः सह वर्तन्त इति तथोक्ताः तासु भावचित्रसहितासु । निवासभित्तिष निवासस्य गृहस्य भित्तिषु कुड्येषु । तरले चञ्चले । विलोचने नयने । निपातयन्ती व्यापारयन्ती। नवा नवोढा । वधूः नारी। जनाभिशङ्कया जना वर्तन्त इत्यभिशङ्कया संदेहेन । जीवितेश्वरं प्राणकान्तम् । गाढम् दृढम् । न आलिङ्गति आलिङ्गनं न करोति । लिगु गती लट् ॥ २७ ।। शशाङ्केत्यादि । यत्र पुरे। विधूद्गमे विधोश्चन्द्रस्योद्गम उदयः तस्मिन् । शशाङ्ककान्ताश्ममयोख़भूमिकात् शशाङ्ककान्तश्चासावश्मा च शशाङ्ककान्ताश्मा चन्द्रकान्तशिला तस्य विकाराः शशाङ्ककान्ताश्ममयाः, ऊर्ध्वा चासो भूमिश्च तथोक्ता शशाङ्ककान्ताश्ममयोर्ध्वभूमिर्यस्य तस्मात् । सौधचयात् सौधानां चयः तस्मात् । पतत्पयः स्रवदुदकम् । अकाण्डेऽपि अकालेऽपि । 'काण्डोऽस्त्री दण्डबाणावर्गावसरवारिष' इत्यमरः । पयोदशङ्कुिनां पयोदो मेघ इति शकिनां शिखण्डिनां शिखण्डोऽस्त्येषामिति शिखण्डिनः तेषां मयूराणाम् । विकासिताण्डवम्, विकासि मनोहरं ताण्डवं नर्तनम् । तनोति आभूषण पहनते हैं। फलतः उस नगरके प्रमुख द्वारके शिखरपर जो भी मनुष्य पहुँचते हैं, उन्हें नीचे घुमड़ते हुए मेघोंमें हाथियोंका भ्रम हो जाता है ।।२५॥ वहाँ अत्यन्त सुन्दर स्त्रियाँ निवास करती हैं। उनके गोरे मुखमण्डलको कामदेवने और भी अधिक गोरा कर दिया है। उनके श्वासवायुमें मनको हरनेवाली सुगन्धि निकलती है। फलतः उनके मुखमण्डलपर जो भौरोंका झुण्ड गिरता है, उसे देखकर ऐसा जान पड़ता है मानो वह उनके उस मुखमण्डलको पूर्णमासीका चन्द्रमण्डल समझकर ही उसपर गिर रहा है ॥२६॥ वहाँको चित्रकला और महलोंकी सजावट दर्शनीय है। उन महलोंकी दीवालोंपर जो मनुष्य आदि प्राणियोंके अनेक चित्र बने हुए हैं वे सब-के-सब सजीव जान पड़ते हैं। ऐसी अवस्था में पहली बार आई हुई बहू उन्हें अपनी चंचल दृष्टिसे देखकर वहाँ अन्य लोगोंकी उपस्थितिके भ्रममें पड़ जाती है अत एंव वह अपने पतिके साथ गाढ आलिंगन नहीं करती ।। २७ ॥ वहाँके महल बहुत ऊंचे हैं। उनकी छतों पर चन्द्रकान्तमणि जड़े हुए हैं । अतः चन्द्रोदय होते ही उनसे पानी झरने लगता है । १. अ आ इ विकाशि । २. = अत्र मुख-चन्द्रयोः कान्तिमत्तया समानत्वेऽपि सुगन्धित्वेन कामिनीमुखे विशेष इति भावः । ३. श स मनोभुवापाण्डुर । ४. आ 'च' नास्ति । ५. प्राणनाथम् । ६. अश्ममयो । ७. [ विकासि प्रोत्फुल्लबह ] । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy