________________
चन्द्रप्रभचरितम्
[ १, २० - गतैः समासत्तिमिवेतरेतरश्रियामनन्यत्रभुवां दिदृक्षया। निरन्तरोद्यानवितानराजितैर्महागृ हैामपुरैविभाति यः ॥२०॥ वणिक्पथस्तूपितरत्नसंचयं समस्ति तस्मिन्नथ रत्नसंचयम् । पुरं यदालानितमत्तवारणैर्विभाति हम्र्यैश्च समत्तवारणैः ॥२१॥ गभीरनादैः प्रतिमानिपातिभिः पयोधरैर्मन्दसमीरणेरितैः।
जलेभयूथैरिव संकुलान्तरा विराजते यत्परिखा प्रथीयसी ॥२२।। इति धनंजयः । बहिः स्थितैः बाह्यस्थितैः । नूतनधान्यराशिभिः नतनानां नवीनानां धान्यानां राशिभिः पुजैः । कुतूहलात् कौतुकात् । उपयातैः उपागतैः । कुलमेदिनीधरैः कुलभूधरैरिव । निगमाः भक्तग्रामाः । विभान्ति विराजन्ते । भा दीप्तौ लट् । उत्प्रेक्षा ॥१९॥ गतरित्यादि । य: देशः । अनन्यत्रभुवाम् अन्यत्र भवन्तीत्यन्यत्रभुवो नान्यत्रभुवोऽनन्यत्रभुवः तासाम् अन्यत्र [°त्रा ] संभूतानाम् । इतरेतरश्रियाम् इतरेतरस्य श्रियः तासाम् अन्योन्यसंपदाम् । दिदृक्षया द्रष्टुं वाञ्छया। 'सन्भिक्षा-' इत्यादिना उ-प्रत्ययः । समासनि सामीप्यम् । गतः यातैरिव । निरन्तरोद्यानवितानराजितैः निरन्तराणां निबिडानाम् उद्यानानाम् आरामाणां वितानेन निवहेन राजितैः । "विस्तारावसरक्रतुवृत्तभेदतुच्छमन्दसमाजेषु वितानम्' इति नानार्थकोशे । महागृहैः [ महान्ति विशालानि गृहाणि भवनानि येषु तैस्तथोक्तैः ] । ग्रामाश्च पुराणि च तैः ग्रामैः पत्तनैश्च । विभाति विराजते । भा दीप्तौ लट् । उत्प्रेक्षा ॥ २०॥ वणिक्पथेत्यादि । अथ देशवर्णनानन्तरम् ।
। यत यस्मात आलानितमत्तवारणः बन्धसंभाविता४ मत्तवारणा मत्तगजा येषां तैः । समत्तवारणः मत्तवारणेन सह वर्तन्त इति समत्त वारणाः, तैः, उपधानफलकविशेषयतैः। 'मत्तवारणमिच्छन्ति दान क्लिन्नकटद्विपे। महाप्रासादवीथीनां वरण्डे चाप्युपाश्रये' इति विश्वः । हम्यः धनिनिवासैः । विभाति विराजते । वणिक्पथस्तुपित रत्नसंचयं वणिजां पथिषु वणिक्पथेषु । 'ऋक्पू पथ्यपोऽत्' इति अत्, स्तूपितो राशीकृतो रत्नानां संचयो यस्मिन् तत्तथोक्तम् । रत्नसंचयं नाम [रत्नसंचयनामकम् । पुरं पत्तनम् । समस्ति प्रवर्तते । अस भुवि लट् । पादान्त्ययमकम् ॥२१॥ गभीरनादरित्यादि । प्रथीयसी प्रकृष्टा पृथ्वी प्रथीयसी, अत्यन्तं महतो। 'गुणाङ्गाद्वेष्ठेयसु' इति ईयसु । यत्परिखा यस्य पुरस्य परिखा खातिका । गभीरनादैः गभीरो नादो येषां तैर्गभीरध्वनिसहितैः । प्रतिमानिपातिभिः प्रतिमां निपातयन्तीत्येवं अन्नकी ढेरियाँ लगी हुई हैं वे ऐसो प्रतीत होती हैं मानो उन गाँवोंकी शोभाके देखनेकी इच्छासे कौतूहलवश कुलाचल ही चले आये हों ॥१९॥ वहाँके निकटवर्ती ग्रामों और नगरोंमें अटूट सम्पत्ति है, ऐसी सम्पत्ति और कहीं सम्भव नहीं है। वे ग्राम-नगरादि मानो एक दूसरेकी इस सम्पत्तिके देखनेकी इच्छासे ही समीपताको प्राप्त हुए हैं। थोड़े-थोड़े अन्तरसे लगे हुए बागबगीचोंके समूहों और बड़े-बड़े महलोंसे उन ग्रामों और नगरोंकी शोभा देखते ही बनती है ॥२०॥ अब यहाँसे नगरका वर्णन प्रारम्भ होता है-उस देशमें एक रत्न संचय नामका नगर है। उस नगरके बाजारोंमें रत्नोंकी ढेरियाँ लगायी जाती हैं। इससे उसका 'रत्नसंचय' यह सार्थक नाम ही समझना चाहिए। वह पुर खम्भेसे बँधे हुए मत्तवारणों-हाथियों-और मत्तवारण सहित-छज्जेवाले-बड़े-बड़े भवनोंसे सुशोभित है ।।२१॥ मेघों और हाथियोंमें बड़ी समानता पाई जाती है। दोनोंका गर्जन एक-जैसा गम्भीर होता है। दोनोंकी विशाल छाया दृष्टिगोचर होती है। दोनों ही मन्दवायुसे प्रभावित होते हैं - मेघ उसी दिशाकी ओर जाते हैं, जिधर
१. श स यातैः । २. रापसर । ३. [ यत् पुरं ] । ४. आ बन्धासम्भाविता । ५. [ बन्धसम्भाविताश्च ते मत्तवारणा मत्तगजा: तैः ] । ६ श स राशितो। ७. [ अतिशयेन पृथ्वी पृथीयसी ] । ८. आ श स ईयस् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org