________________
−१, १९ ]
प्रथमः सर्गः
सदा यमस्मत्प्रतिपक्षभूतया कृताधिवासो धनधान्य संपदा । इतीव यस्मिन् विहिताभ्यसूयया न जातु लोको विपदा विलोक्यते || १६ || विकासवद्भिः शरदभ्रपाण्डुरैः सितातपत्रैरिव यः प्रसारितैः । समस्तदेशाधिपतित्वमात्मनो व्यनक्ति लोके स्थलनीरजाकरैः ॥१७॥ समुज्ज्वलाभिः कनकादियोनिभिर्विकासिनीभिः खजिभिः समन्ततः । कृतास्पदा यत्र जनर्द्धिहेतुभिर्यथार्थनामा वसुमत्यजायत || १८ || शिखावलीलीढघनाघनाध्वभिर्बहिः स्थितैर्नूतनधान्यराशिभिः । विभान्ति यस्मिन्निगमाः कुतूहलादिवोपयातैः कुलमेदिनीधरैः ॥१६॥
3
लट् ।।१५।। सदेत्यादि । यस्मिन् विदेहे । अयम् एष मङ्गलावतीदेशः । अस्मत्प्रतिपक्षभूतया अस्माकं प्रतिपक्षभूतया विरुद्धभूतया । धनधान्यसंपदा धनानां धान्यानां संपदा संपत्त्या । सदा सर्वस्मिन् काले । कृताधिवासः कृतो विहितो अधिवासः स्थानं यस्यासौ इति एवं प्रकारेण । विहिताभ्यसूयया विहितया कृतया अभ्यसूयया ईयेव यद्वा विहिता अभ्यसूया यया सा तथोक्ता तथा । विपदा विपत्त्या । लोकः जनः । जातु कदाचिदपि । नविलोक्यते न वीक्ष्यते । लोकृञ् दर्शने कर्मणि लट् ||१६|| विकासवद्भिरित्यादि । यः देश: । विकासवद्भिः विकासोsस्त्येषामिति विकासवन्तः तैः विकसनयुक्तैः । ' अस्त्यस्मिन्वेति मतुः' इति मतुः 'मान्तोपान्त - इत्यादिना मस्य वः । शरदभ्रपाण्डुरैः शरदि शरत्काले प्रवर्तमानम् अभ्रं मेघ इव पाण्डुराः शुभ्राः तैः । प्रसारितैः विस्तृतैः । स्थलनीरजाकरैः स्थले प्रवर्तमानानां नीरजानाम् आकरैः खनिभिः सितातपत्रैरिव सितैः आतपत्रैरिव श्वेतच्छत्रैरिव । लोके जगति । आत्मनः स्वस्य । समस्त देशाधिपतित्वं समस्तानां देशानाम् अधिपतित्वं प्रभुत्वम् । व्यनक्ति व्यक्तीकरोति । अञ्जू गतिव्यक्तिम्रक्षणेषु लट् ||१७|| समुज्ज्वलाभिरित्यादि । यत्र देशे । जनद्धिहेतुभिः जनानाम् ऋद्धीनाम् ऐश्वर्याणां हेतुभिः कारणभूतैः । समुज्ज्वलाभिः प्रकाशमानाभिः । कनकादियोनिभिः कनकादीनां योनिभिः उत्पत्तिस्थानः । विकासिनोभिः विकसनशीलाभिः । खनिभिः आकरैः । समन्ततः परितः कृतास्पदा कृतो विहित आस्पद' आश्रयो यस्याः सा तथोक्ता । वसुमती वसु द्रव्यम् अस्या अस्तीति वसुमती । यथार्थनामा यथार्थ नाम यस्याः सा यथार्थनामा यथार्थाभिधाना । अजायत जङ् प्रादुर्भावे लङ् || १८ || शिखेत्यादि । यस्मिन् देशे । शिखावलीलीढघनाघनाध्वभिः शिखानाम् अग्राणाम् आवल्यां लोढः संश्लिष्टो घनाघनस्य मेघस्याध्वा मार्गो येषां तै:, अत्युदग्रैः इत्यर्थः । 'घनाघनो घनो मेघः'
७
किनारोंसे टकराते हुए बहा करते हैं || १५ || यहाँके लोगोंके पास सदा मेरी विरोधिनी ( सौत ) धन-धान्य-सम्पत्ति निवास करती है । अतः यहाँ मेरी दाल गलना कठिन है । मानो इसी सोतियाडाहके कारण विपत्ति वहाँके किसी मनुष्यकी ओर देखती तक न थी || १६ | वहाँ जो शरत्कालीन मेघ के समान धवल स्थलकमल खिले हुए हैं वे खुले हुए शुभ्रवर्ण छातोंके समान दिखते हैं । अतः लगता है कि वह देश उनसे यह व्यक्त कर रहा है कि 'मैं सभी देशोंका राजा हूँ' ॥ १७ ॥ वहाँ चारों ओर जो निर्मल, स्वर्ण आदि धातुओंकी उत्पादक एवं लोगों की समृद्धिको कारणभूत खानें फैली हुई थीं उनसे वहाँकी वसुमती - भूमि का वसुमती - धनवाली - नाम सार्थक हो गया है || १८ | उस देशके निकटवर्ती गाँवों में अन्न बहुतायत से उत्पन्न होता है । उन गाँवों के बाहर खलिहानों में मेघ मार्गको छूनेवाली - अतिशय ऊँची - जो नवीन
१. अ विकाशनोभिः, आ इ विकाशिनीभिः । २ [ मङ्गलावतीविषये ]। ३ [ यस्मिन्नसौ ] ४. स लोकृय् । ५. [ समूहैः ] । ६. [ आस्पदम् ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org