SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१, १३ - निरन्तरैर्यत्र शुकाङ्गकोमलैः समानसस्याङ्कुरसंचयश्चिताः। जनस्य चेतांसि हरन्ति भूमयो हरिन्मणिवातविनिर्मिता इव ॥१३॥ निशाकरांशुप्रकराच्छवारिभिर्विनिद्रनीलोत्पलरश्मिरञ्जितैः । च्युतैर्निरालम्बतया विहायसो विभाति खण्डैरिव यः सरोवरैः॥१४॥ निशालु शीतांशुमणिस्थलच्युतैः पयःप्रवा हैः परिपूरितान्तराः। वहन्ति यस्मिञ्जलराशियोषितो निदाघकालेष्वपि कूलमुद्रजाः॥१५॥ निरन्तरैरित्यादि । यत्र यस्यां मङ्गलावत्याम् । निरन्तरैः अन्तरान्निर्गतैः, निरवकाशैरित्यर्थः । शुकाङ्गकोमलैः शुकानामङ्गानीव कोमलैमृदुलैः । समानसस्याङ्करसंचयैः समानानां सस्यानाम् अङ्कराणां संचयैः समूहैः । चिता: चीयन्ते स्म चिताः, व्याप्ताः। भूमयः भुवः । हरिन्मणिवातविनिर्मिता इव हरितां मणीनां मरकतरत्नानां वातेन समहेन विनिर्मिता: सृष्टा इव । जनस्य लोकस्य । चेतांसि चित्तानि । हरन्ति अपहरन्ति । हृञ् हरणे लट् । उत्प्रेक्षा ॥१३॥ निशाकरेत्यादि । यः देशः । निशाकरांशुप्रकराच्छवारिभिः निशाकरस्य चन्द्रस्य अंशनां प्रकर: समह इव अच्छानि निर्मलानि वारीणि जलानि येषां तैः। विनिद्रनीलोत्पलरश्मिरजितैः विनिद्राणां विकसितानां नीलोत्पलानाम् इन्दीवराणां रश्मिभिः कान्तिभी रञ्जितैबिम्बितैः ( नीलवर्णीकृतैः )। सरोवरैः महासरोभिः । निरालम्बतया आलम्बनात [आलम्बात ] निर्गतं निरालम्बं तस्य भावः तया, आधाररहितत्वेनेत्यर्थः । च्युतैः च्यवन्ते स्म च्युताः तैः, पतितैः । विहायसः गगनस्य । खण्डैरिव शकलैरिव । विभाति विराजते । भा दीप्तौ लट् । उत्प्रेक्षा ।।१४॥ निशास्वित्यादि । यस्मिन् देशे। निशासु रात्रिपु । शीतांशुमणिस्थलच्युतैः शीतांशुमणेः चन्द्रकान्तमणे: स्थलात् प्रदेशात् च्युतैः पतितैः । पयःप्रवाहैः पयसां सलिलानां प्रवाहैः । परिपूरितान्तराः परिपूर्यते स्म परिपूरितम् अन्तरं मध्यप्रदेशो यासां ताः । जलराशियोषितः जलराशेः समुद्रस्य योषितः स्त्रियो नद्य इत्यर्थः । निदाघकालेष्वपि निदाघाश्च ते कालाश्च निदाघकालाः तेष्वपि, उष्णकालेष्वपि । कूलमुद्रुजाः कूलम् उद्रुजन्तीति कूलमुद्रुजाः । 'कूलादुदिरुज्वहः' इति श्खः, "खित्यरुः - ' इत्यादिना अम् [ मम् ] । तटविदारकाः सत्यः । वहन्ति स्रवन्ति । वह प्रापणे वहाँ धान्यकी खेती प्रचुर मात्रामें होती है। वहाँकी भूमि उपजाऊ है। जब उसमें चारों ओर समान ऊँचाईवाले कोमल, इतने कोमल जितना कि तोतेका शरीर कोमल होता है, धान्यके अंकुर दृष्टि-गोचर होते हैं, तब वह ऐसी जान पड़ती है मानो उसमें हरे मणि जड़ दिये गये हों। इसीलिए वह देखनेवालोंके मनको बरबस हर लेती है-देखनेवाले वहाँसे भले ही चले जाँय, किन्तु उनका मन वहीं रमा रह जाता है ॥१३॥ वहाँ जो बड़े-बड़े सरोवर हैं उनमें चन्द्रमाकी किरणोंके समान निर्मल जल भरा हआ है और उसमें नील कमल खिले उन कमलोंकी नीली प्रभासे सरोवरोंका जल नीला दिख रहा है। अतः वे ऐसे जान पड़ते हैं मानो आधार न रहनेसे टूटकर गिरे हए आकाशके टकडे हों॥१४॥ वहाँ जहाँ-तहाँ जो चन्द्रकान्त मणिमय भवन हैं उनसे रात्रिके समय चन्द्रमाकी किरणोंका स्पर्श होते ही जो जलका पूर बहने लगता है उसके प्रभावसे वहाँकी नदियोंके प्रवाह ग्रीष्मकालमें भी अपने दोनों १. श स निरालम्बनं। २. आ येषां। ३. श ष निदाघकालेऽपि । ४. श स मट । ५. आ बहि प्रापणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy