________________
-१, १२]
प्रथमः सर्गः तथापि तस्मिन् गुरुसेतुवाहिते सुदुष्प्रवेशेऽपि पुराणसागरे । यथात्मशक्ति प्रयतोऽस्मि पोतकः पथीव यूथाधिपतिप्रवर्तिते ॥१०॥ अथास्ति' शृङ्गोल्लिखितामरालयो द्विपूरणद्वीपगतो गभस्तिभिः। सृजन्नमेघां कलमाग्रपिङ्गलैस्तडिच्छ्रियं व्योमनि पूर्वमन्दरः ॥११॥ विभूष्य तत्पूर्वविदेहमात्मनः श्रिया स्थितो नाकिनिवाससंनिभः ।
समस्ति देशो भुवि मङ्गलावतीत्यभिख्यया यः प्रथितोऽर्थयुक्तया ।। १२ ।। ॥ ९ ॥ तथेत्यादि । तथापि हास्यगमनप्रकारेणापि [ प्रकारेऽपि ] । सुदुष्प्रवेशेऽपि सुष्ठु दुःखेन महता कष्टेन प्रवेशनीयेऽपि । गुरुसेतुवाहिते गुरवो गणधरादयः त एव सेतुस्तेन वाहिते प्रापिते । तस्मिन् पुराणसागरे पुराणमेव सागरः तस्मिन् । यथात्मशक्ति आत्मनः शक्तिस्तथोक्ता, आत्मशक्तिमनतिक्रम्य यथात्मशक्ति । यूथाधिपतिप्रवर्तिते यूथानामधिपतिर्गजाधिपः तेन प्रवर्तितः शोधितः तस्मिन् । पथि मार्ग। पोतक इव करिशावक इव । प्रयत: उद्यतः । अस्मि भवामि । उपमा ॥ १० ॥
अथेत्यादि । अथ पुराणप्रवेशानन्तरम् । शृङ्गोल्लिखितामरालयः शृङ्गेणोल्लिखितः संस्पृष्टः सुरालयः स्वर्गो यस्यासौ तथोक्तः, अत्युन्नतत्वादित्यर्थः । द्विपूरणदीपगतः द्वयोः पूरणं द्वीपं गच्छति स्म तथोक्तः, द्वितीयद्वीपस्य धातकीखण्डस्य मध्यगत इत्यर्थः। कलमाग्रपिङ्गलैः कलमानां शालीनामग्राणि मजर्यः तानीव पिङ्गलाः सुवर्णवर्णाः तैः । गभस्तिभिः किरणः । अमेघां जलधररहिताम् । व्योमनि आकाशे । तटिच्छ्रियं तटितो विद्युतः श्रियं संपत्तिम् । सृजन् सृजतीति सृजन् निर्मापयन् । पूर्वमन्दरः पूर्वमन्दरो मेरुः । अस्ति वर्तते । अस भुवि लट् ॥११॥ विभूष्येत्यादि । यः विषयः । आत्मनः स्वस्य । श्रिया पुण्यवत: पुरुषान् श्रयतीति श्रीः, तया संपदा। तत्पूर्वविदेहं तस्य पूर्वमन्दरस्य पूर्व पौरस्त्यं विदेहं जनपदम् । विभूष्य विभूषणं पूर्व पश्चात् किंचिदिति, अलंकृत्य । स्थितः नाकिनिवाससंनिभः नाकिनां देवानां निवासस्य स्वर्गस्य संनिभः समानः । अर्थयुक्तया अर्थेन युक्ता तया, सार्थकया। मङ्गलावतीत्यभिख्यया 'मङ्गलावती' इति अभिख्यया अभिधानेन । भुवि भूमौ । प्रथितः प्रतीतः । देशः विषयः । समस्ति सम्यग् वर्तते । अस भुवि लट् ॥१२॥ यद्यपि मुझे अपने परिहासका पहलेसे ही भान हो गया है, किन्तु फिर भी जैसे सेतु ( पुल ) की सहायतासे समुद्रमें प्रवेश करना सरल हो जाता है, इसी तरह गुरु-परम्पराको कृपासे मुझे पुराण ( उत्तरपुराण, जिसके आधारसे चन्द्रप्रभचरित लिखा गया है ) में प्रवेश करना सरल हो गया है । यह पुराण भी समुद्रसे किसी अंशमें कम नहीं है, तो भी गुरुओंको कृपासे अपनी प्रतिभा शक्तिके अनुसार इसमें प्रवेश करनेके लिए उद्यत हुआ हूँ। जैसे गजराजके द्वारा बनाये गये मार्गमें उसका बच्चा ( पोतक ) प्रवेश करनेके लिए उद्यत होता है ॥१०॥
अब यहाँसे कथाका प्रारम्भ होता है-दूसरे द्वीपका नाम धातकी खण्ड है। वहाँ पूर्व दिशामें जो मेरु पर्वत अवस्थित है, उसका शिखर स्वर्गको छूनेवाला-बहुत ऊँचा-है। उसका ऊपरी भाग सुनहरे रंगका है, अतः वह पकी धानको बालों ( मञ्जरी ) के समान पीली किरणोंके द्वारा आकाशमें मेघोंके न रहनेपर भी बिजलीकी छटा दिखलाता है ।।११।। उसके उस क्षेत्रमें-जिसका नाम पूर्व विदेह है-एक मंगलावती नामका देश है। सदा मंगलमय रहनेसे वह सार्थक नामवाला है । वह उस विदेहका भूषण है। वह अपनी श्री-विभूति और उत्कृष्ट शोभा-की दृष्टिसे स्वर्गके समान है। इसीलिए वह सारे भूमण्डलमें विख्यात है ॥१२॥
१. अ अथोस्ति । २. स प्रवेशनीयोऽपि । ३. श स अस्मिन् । ४. आ लोभितः । ५. आ श स प्रवेशानन्तरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org