SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् [१,७ गुणानगृह्णन् सुजनो न निवृतिं प्रयाति दोषानवदन्न दुर्जनः । चिरंतनाभ्यासनिबन्धनेरिता गुणेषु दोषेषु च जायते मतिः ॥७॥ गुणान्यथैवोपदिशन्प्रशंसया गुरुत्वबुद्धया सुजनो नमस्यते । तथैव दोषान्दिशतः प्रणिन्दया कृतः खलस्यापि मयायमञ्जलिः ॥८॥ सुदुष्करं यन्मनुते गणाधिपोऽप्यवैति वाग्देव्यपि भारमात्मनः। विधित्सुरर्हच्चरितं तदल्पधीध्रुवं न यास्यामि न हास्यतां सताम् ॥६।। च, नरोत्तमैः कण्ठविभुषणीकृतेत्यर्थः । श्लेषः ॥ ६ ॥ गुणानित्यादि । सुजनः शोभनो जनः । गुणान् अगृह्णन् गृह्णातीति गृह्णन्, न गृह्णन् [ अगृह्णन् ] तथोक्तः, अस्वीकुर्वन् । निर्वृति संतोषम् । 'निवृतिस्तु मनस्तोषे मोक्षे समयवाढयोः' इति विश्वः । न प्रयाति । दुर्जन: निन्दितो जनो दुर्जनः । दोषान् अवदन् वदतीति वदन् न वदन् अवदन् तथोक्तोऽब्रुवन् निर्वृतिम् । न प्रयाति । चिरन्तनाभ्यासनिबन्धनेरिता चिरं भवश्चिरन्तनः । 'सायं चिरं प्राले प्रगेऽव्ययात्' इति तनट् । चिरन्तनश्चासावभ्यासश्च स एव निबन्धनं तेनेरिता प्रेरिता । मति: बुद्धिः । गुणेषु सम्यग्ज्ञानादिसहभाविपरिणामेषु। दोषेषु च तद्विपरीतेषु च । च-शब्दः समुच्चयार्थः । जायते उत्पद्यते । जनै प्रादुर्भावे लट् ॥ ७ ॥ गुणानित्यादि। गुणान् उपदिशन् उपदिशत्युपदिशन् । 'सल्ल' इत्यादिना शतृप्रत्ययः । उपदेशं कुर्वन् । सुजनः सत्पुरुषः । प्रशंसया स्तुत्या । गुरुत्वबुद्धया गुरुत्वस्य महत्त्वस्य बद्धया। यथैव नमस्यते नमस्क्रियते । 'नमो वरिवस्तपसः क्यच' । तथैव दोषान् दिशतः ब्रुवतः । खलस्य दुर्जनस्यापि प्रणिन्दया प्रगर्हया। मया कविना । अयम् एषः अञ्जलि: मुकुलितहस्तः । ती युतावलिः पुमान्' इत्यमरः । कृतः क्रियते स्म कृतो विहितः ॥ ८॥ सदुष्करमित्यादि । यत चरितम । गणाधिपोऽपि गणानां द्वादशानामधिपोऽपि गणाधिपोऽपि । सुदुष्करं सु सुष्ठु दुःखेन महता कष्टेन क्रियत इति तथोक्तम् । मनुते जानाति । वाग्देव्यपि सरस्वत्यपि । आत्मनः स्वस्य । भारम् । अवैति बुध्यते। तत् अर्हच्चरितम् अर्हतश्चरितम् । विधित्स: विधातुमिच्छः । 'सन्भिक्षा-' इत्यादिना उ-प्रत्ययः । अल्पधीः अल्पाधीर्यस्य सः, स्तोकबुद्धिरित्यर्थः । ध्रवं निश्चयम् । सतां सत्पुरुषैः । 'वा नाकस्य' इत्यादिना करणे षष्ठी। हास्यतां हास्यस्य भावम् । न यास्यामि न गमिष्यामि । न इति न, अपि तु यास्याम्येव । द्वौ नौ प्रकृतमथं गमयतः है और उसे श्रेष्ठ पुरुष कण्ठस्थ करते हैं ।।६॥ दूसरोंसे गुण ग्रहण किये बिना सज्जनको और उनके दोषोंका व्याख्यान किये बिना दुर्जनको चैन नहीं पड़ती। इसका एक मात्र कारण है अपना-अपना चिरन्तन अभ्यास, जिससे प्रेरित होकर मानव ( सज्जन और दुर्जन ) की मति गुणों या दोषोंकी ओर झुकती है ॥७॥ सज्जन दूसरोंके सद्गुणोंकी-उनकी कृतिकी प्रशंसा करता है और उनके ग्रहण करनेका उपदेश भो देता है, अतः लोग उसे अपना गुरु मानकर नमस्कार करते हैं। इसी प्रकार दुर्जन दूसरोंके दोषोंकी-उनकी कृतिकी-निन्दा करता हुआ उनको प्रख्यात करता है, अतः मैं उसे भी हाथ जोड़ता हूँ ॥८॥ अरहंत भगवान्के जिस चरितको चार ज्ञानके धारी, स्वयं गणधर भगवान् भी कठिन मानते हैं और जिसे भगवती सरस्वती देवी ( तीर्थंकरकी वाणी ) भी अपना बोझा समझती है, अर्थात् अपरिमित होनेसे जिसका वर्ण, पद व वाक्योंके द्वारा पूर्णतया वर्णन नहीं किया जा सकता है, उसीको लिखनेके लिए मैं मन्द बुद्धि होकर भी प्रवृत्त हुआ हूँ। अत: सत्पुरुषोंके सामने परिहास योग्य नहीं बनूँगा, यह कभी नहीं हो सकता--निश्चित ही उनकी हँसीका भाजन बनूँगा ॥ ९ ॥ १. श स 'विहितः' नास्ति । २. श स सुदुष्करमिति । ३. श स सन्विषेत्यादिना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy