________________
मूल ग्रन्थकी सूक्तियाँ
सुहृदर्थ परैर्महात्मभिर्न पुनः स्वार्थपरैरुदीयते
निरपेक्षा हि परोपकारिता
नो किंचित्फलमतिभग्नपीडनेन
कोपोऽयं नियतममङ्गलावसानः
किं जातु त्यजति महामृतस्य वृक्षो माधुर्यं विषवनमध्यसंप्रसूतः अहो नराणां भवगर्तवर्तिनामशाश्वतीं पश्यत जीवित स्थितिम् विभेति पापान्न सतामसंमतान्न मन्यते दुर्गतिदुःखमुद्धतम् । विलोभ्यमानो विषयामिषाशया करोत्य कर्तव्यशतानि मानवः अहेतुकाः क्वापि न कार्यसंपदः
निरन्तरं मुञ्चति वारि वारिदे विगाहितुं धूलिरलं हि नाम्बरम् । भवाम्बुराशी पुनरापदां पदे पतन्ति ते ये न हिते विजाग्रति यदीदमागन्तुकदुःखकारणं प्रशस्यते संसृतिसौख्यमज्ञकैः ।
तदा प्रशंसास्पदमेतदप्यहो विषान्वितस्यास्तु गुडस्य भक्षणम् हितान्न योऽपैति स एव पण्डितः
हितानुबन्ध्याचरितं महात्मनाम्
शुभं तनोत्याशु निहन्ति चाशुभं करोति किं वा न सतामनुग्रहः किमस्ति दीनोद्धरणात्परं तपः
स्थिरा हि सन्तः करणीयवस्तुनि
प्रत्यक्षमन्यदथवा जगति प्रमाणं संवादकं मतिमतां सकलं प्रमाणम्
नहि जगति नराणां पुण्यभाजामसाध्यम् महतामतिदूरवर्तिनोऽप्यनुरागं जनयन्ति ते गुणाः भजते मदवृत्तिमात्मवान् क इवानात्महितप्रवर्तिनीम् मदमूढमतिहिताहितं न हि जात्यन्ध इवावलोकते परिपश्यति सोऽथवा धिया न मदान्धस्तु धिया न चक्षुषा ननु खङ्गबलेन भुज्यते वसुधा न क्रमसंप्रकाशनैः बलवानहमित्यक्रिया नहि सर्वत्र भवेत्प्रशान्तये भवति प्रियमिष्टसाधकं महति क्षुद्रजने हठक्रिया स्वहितं स्वधियैव बुध्यते पुरुषः सत्युदये सुकर्मणः । अविधेयविधिर्न बुध्यते स्वधिया नापि परेण बोधितः ननिमित्तमिहोपदेशको न च शास्त्रं न च साधुसंगतिः । कुशलाकुशला च जायते धिषणा दैववशेन देहिनाम् प्रविचिन्त्यमुदेतुमिच्छता प्रथमं स्वस्य परस्य चान्तरम् । परिमृश्य कृतो न हि क्रमः शरभस्येव विपाकदारुणः अधमेन समेन वाधिकामधिगच्छन्निजभाग्यसंपदम् । मतिमान् विदधातु विग्रहं बलवद्भिः सह कोऽस्य विग्रहः परिवारितमप्यगैर्नगं क्षुभितः प्लावयितुं क्षमोऽम्बुधिः स्फुटतामुपयाति कस्यचिद्रसभेदो नहि जिह्वया विना प्रतिकूलजने ह्यपेक्षणं हितशिक्षानुगतैकवृत्तिषु
Jain Education International
For Private & Personal Use Only
५४७
१०।३८
१०१४०
१०/७०
१०।७१
१०।७३
११।१०
११।१४
११।२०
११।२१
११।२४
११।२५
११।३०
११।५४
११।५७
११६१
११ ॥७०
११७८
११।९१
१२।६
१२।१२
१२।१३
१२।३१
१२/३५
१२।४०
१२।४३
१२।४४
१२।४६
१२/४७
१२।५१
१२।५२
१२/५३
www.jainelibrary.org