________________
पञ्जिका
यस्यां सा निर्मलवृत्तमौक्तिका, पक्षे निर्मलानि निरवद्यानि च तानि वृत्तानि पद्यानि च निर्मलवृत्तानि तानि मौक्तिकानीव यस्यां सा तथा । विद्यामलानि यथा-'अनर्थकं श्रुतिकटु व्याहतार्थमलक्षणम् । स्वसंकेतप्रक्लुप्तार्थमप्रसिद्धमसंमतम् ॥' इति । पुनः किलक्षणा। नरोत्तमैः पुरुषप्रधानविद्भिश्च । कण्ठविभूषणीकृता अकण्ठविभूषणं कण्ठविभूषणं क्रियते स्म या सा कण्ठविभूषणीकृता। उभयत्रापि साम्यम् । तुल्ययोग्य (गि ) तेयमलंकृतिः। अथवेत्थं व्याख्यानकरणे व्यतिरेकश्च । उभयत्र गुणसाम्येऽपि समन्तभद्रस्वामिप्रमुखभवा भारती दुर्लभैव अन्यत्र न प्राप्यते च, पुनः हारलता दुर्लभा न; सर्वत्रापि दृश्यमानत्वात् । भारतीदुर्लभत्वं च समन्तभद्रादिदुर्लभत्वात् । तदुक्तम्-'विद्वन्मन्यतया सदस्यतितरामुद्दण्डवाग्डम्बराः शृङ्गारादिरसैः प्रमोदजनक व्याख्यानमातन्वते । ये ते च प्रति सद्म सन्ति बहवो व्यामोहविस्तारिणो येभ्यस्तत्परमात्मतत्त्वविषयं ज्ञानं तु ते दुर्लभाः ॥ अन्यच्च 'सुप्रापाः स्तनयित्नवः शरदि ते साटोपमुत्याय ये प्रत्याशं प्रसृताश्चलप्रकृतयो गर्जन्त्यमन्दं मुधा । ये प्रागब्दचितान्' फद्धिमुदकैर्नीहीन्नयन्तो नवान् सत्क्षेत्राणि पृणन्त्यलं जनयितुं ते सद्धना दुर्लभाः ॥' ॥६॥ अथो प्रागभ्यस्तगणदोषयोः सूजनदुर्जनयोलक्षणमाहै-गणानगल्लन्नित्यादि । सूजनः शिष्टः । गणान सौजन्यौदार्यस्थैर्यदाक्षिण्यप्रियहितपूर्वकप्रथमाभिभाषणादीन् । अगृह्णन् अस्वीकुर्वन् । निर्वृति सौख्यम् । न प्रयाति न गच्छति । दुर्जनः दुष्टः । दोषान् तद्विपरीतान् । अवदन् अकथयन् । निर्वृति न प्रयाति । च-अव्ययानामनेकार्थत्वाद् यस्मात् । चिरंतनाभ्या० चिरंतन: पुरातनश्चासावभ्यासो भृशप्रवृत्तिश्च चिरंत० स एव निबन्धनं चिरंतनाम्यासनि० तेन ईरिता प्रेरिता मतिर्बुद्धिः । गुणेषु यशःप्रकाशनेषु । दोषेषु अयशःसूत्रकेषु । जायते उत्पद्यते । हेतुरयमलंकारः ॥७॥ अथ तयोरपि सत्कारमाह-गुणानित्यादि । यथैव प्रशंसया श्लाघया । गुणान् सौजन्यादिकान् । उपदिशन् प्ररूपयन् । सुजन: शिष्टः । गुरुत्वबुद्ध्या गुरुत्वमत्या । काव्येषु सदर्थप्ररूपकत्वात् सुजने गुरु त्वं वर्तते इति गुरुत्वबुद्धिः । नमस्यते नमस्क्रियते । तथैव तेनैव प्रकारेण । प्रणिन्दया प्रगहणया। दोषान् दिशतः प्रतिपादयतः । खलस्यापि दुर्जनस्यापि । गुरुत्वबुद्धया मया अयमञ्जलिः कृतो विहितः । 'ती युतावलिः पुमान्'। यतो हि दुर्जनः काव्येषु दोषान् गृहीत्वा प्रकाशयति तेन कविनिर्दोषमेव काव्यं बघ्नातीति दुर्जनोऽपि सन्मतिजनकत्वाद् गुरुरेवेति भावः । तदुक्तम् – 'दोषान् कांश्चन नः प्रवर्तकतया प्रच्छाद्य गच्छत्ययं साद्धं तैः सहसा भृषे ( निये ) यदि गुरुः पश्चात् करोत्येष किम् । तस्मान् मे न गुरुर्गुरुर्गुरुतरान् कृत्वा लघूश्च स्फुटं ब्रूते यः सततं समोक्ष्य निपुणं सोऽयं खलः सद्गुरुः । तुल्ययोगितेयमुपमा वा ॥ ८॥ अथात्मनो गर्वपरिहारमाह-सुदुष्करमित्यादि । गणस्याधिपः-ऋष्यर्जिकाश्रावकश्राविका इति गणः; अथवा ऋषियति-अनगार-मुनयस्तेषां वाधिपः, गणधरोऽपि । अपि विशेषे । किं पुनरन्यः । यद् अर्हच्चरितम् । सुदुष्करं दुःखेन कर्तुं शक्यं दुष्करं, सु अतिशयेन दुष्करं सुदुष्करम् । मनुते जानोते। वाग्देवी सरस्वती अपि । आत्मनः स्वस्य यद भारं मनुते । अल्पधीः अल्पा धीरस्येत्यल्पधीर्मन्दमतिः। अहं तद्विधित्स: विधातुमिच्छुः । सतां महबुद्धीनाम् । हास्यतां हास्यत्वम् । न यास्यामि ( इति ) न, अपि तु यास्यामि । उभौ नकारी प्रकृतं गमयतः । यथा प्रकृतेऽर्थः । 'मन्दः कवियशः प्रार्थी गमिष्याम्युपह्यास्यताम् ।' इति । अथवा नु अहो ध्रुवं हास्यतां न यास्यामोति काकुः, पाठान्तरम् । आक्षेपः ॥ ९॥ अश् नुष्ठानेऽपि भक्त्या करणीयत्वमाह-तथापीत्यादि । तथापि तत्करणे हास्यप्राप्तावपि । सुदुःप्रवेशेऽपि सुष्ठ दुःखेन प्रवेशो यत्र स सूदुःप्रवेशः तस्मिन्नपि । गुरुसेतु. गुरव एव सेतवस्तैर्वाहितस्तस्मिन् आचार्यपरम्परालिप्रापिते। तस्मिन प्रसिद्ध। पुराण पुराणमेव सागरस्तस्मिन् पुराणसमुद्रे । यथात्म० आत्मनः शक्तिमनतिक्रम्य यथात्मशक्ति । प्रयतोऽस्मि यत्नवान् भवामि । यूथाधि० यूथस्य सजातीयकुलस्याधिपतिः स्वामी यूथाधिपतिः तेन प्रवर्तितो वाहितस्तस्मिन् । पथि मार्गे। पोतकः कलभः । 'पोत: पाकोऽर्भको डिम्भः' इति । इव यथा, उपमेये । यथा सुदुःप्रवेशेऽपि पुरातनसमुद्रे महासमुद्रे गुरुसे० गुरश्चासौ सेतुश्च गुरुसेतुस्तेन वाहिते प्रचालिते. पथि मार्गे यथाधिपतिना प्रवर्तिते सति पोतकोऽपि यथात्मशक्ति प्रयतो भवति तथा श्रीवोरनाथप्ररूपितेऽपि पराणसमद्रे श्रीजिनसेनादिसेतुना प्रयतोऽस्मीति भावः ॥ १० ॥ अथ कथावतारः-अथास्तीत्यादि । अथ अनन्तरम् ।
१. ब "चिता । २. ब दुर्लभाः सद्धनाः । ३. बहुः । ४. ज च यस्मात् । ५. ज 'रर्थः ।
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org