SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् I यस्तैर्मज्जत्कायैः । क्व, प्रभाविताने प्रभाया वितानं प्रभावितानं तस्मिन् प्रभामण्डले । कि लक्षणे, स्फटिको ० स्फटिकोपलस्य प्रभेव प्रभा यस्य तत् तस्मिन् स्फटिकपाषाणसदृशकान्ती । पुनः कथंभूतैरिव, दुग्ध० दुग्धपयोधेः क्षीरसमुद्रस्य मध्यं गच्छन्तीति दुग्धपयोधिमध्यपास्तैः क्षीरसमुद्रमध्यस्थितैरिव । प्रभामण्डल क्षीरसमुद्रयोरुपमानोपमेयभावः ॥२॥ अथ शान्तिजिनमभिष्टौति | अनन्तविज्ञानमित्यादि । यः विभुः । अनन्तचतुष्टयं चत्वारोऽवयवा यस्य तच्चतुष्टयम् अनन्तं च तच्चतुष्टयं च तत् । 'अवयवे तयट् ।' बिर्भात दधाति । के वयवाः अनन्तं च तद्विज्ञानं चानन्तविज्ञानं तत् । तथा अनन्तं च तद्वीयं चानन्तवीर्यं तस्य भावोऽनन्तवीर्यता ताम् । तथा अनन्तं च तत् सौख्यत्वं चानन्तसौख्यत्वं तत् । तथानन्तं च तद्दर्शनं चानन्तदर्शनं तद् इति । अथवानन्तं विज्ञानं यत्र तदनन्तविज्ञानं तदनन्तचतुष्टयस्य विशेषणत्वाद् बहुब्रीहिरपि सर्वत्र | विज्ञानं केवलज्ञानम् । वीर्यं बलम् । सौख्यं सम्यक्त्वम् । दर्शनं दृष्टिरिति । सः प्रसिद्धः । शान्तिः भगवान् षोडशतीर्थंकरः । नः अस्माकम् । भवस्य दुःखानां शान्तिरुपशमस्तस्यै संसारदुःखोपशमाय । अस्तु भवतु । समुच्चयोऽयम् ॥ ३ ॥ अथान्त्यतीर्थ करं नमस्करोति । अहं श्रोवीरनन्दी । वीरं नमामि नमस्करोमि । किंलक्षणं स्मरणीयं परोक्षीभूतम् । कस्याः जराजरत्याः । अथवा जरैव जरती वृद्धस्त्री तयास्मरणीयं न स्मरणार्होऽस्मरणीयस्तम् । जरा कथयति नन्वेनमीश्वरं न स्मरामि मोक्षलक्ष्म्याः ४ स्वयंवरीभूतोऽयं यत इति । अस्वयंवरः स्वयंवरः क्रियतेऽनयेति स्वयंवरीभूतस्तम् । कस्या अनश्वरश्रियः । अनश्वरा चासौ श्रीश्चानश्वरश्रीतस्या मोक्षलक्ष्म्याः । पुनः किलक्षणं, निरामयं निर्गत आमयान्निरामयो निर्व्याधिस्तम् । वीतं विशेषेण इतं गतं भयं यस्मात् स तं वीतभयम् । भवं छिनत्तीति भवच्छित् तं संसारच्छेदकम् । नृसुरासुरस्तुर्त नरश्च सुराश्चासुराश्च नृसुरासुरास्तैः स्तुतस्तं मनुजदेव दैत्यनुतमिति । ननु च चत्वार एव तीर्थकराः कथमभिष्टुता, न सर्वेऽपीति चेद् उच्यतेऽत्रकवैरभिप्रायः - बृहत्कथाप्रवरस्यास्य काव्यस्य विस्तरभयात् । अथवा उत्सर्पिणीसमयादितीर्थ प्रवर्तनाद् आदिजिनस्याभिष्टवः प्रारब्धकाव्यकथानायकत्वाद् अष्टमस्य; निर्विघ्नतः शास्त्रपरिसमाप्तेः कारणत्वात् शान्तेः; वर्तमानतीर्थस्वामित्वाद् अन्त्यस्येति । तद्दापि ( तथापि ) शेषाणां नमना करणेऽपरीक्षकत्वमिति चेत्, इत्यत्रोच्यते सर्वेऽपि नुता भगवताचार्येण - वीरं विशिष्टाम् ईं समवसरणादिलक्षणां लक्ष्मीम् ईरते इति वीरस्तीर्थकर समुदायस्तं नमामि । यतः सर्वेषामपि श्रीः पञ्चकल्याणाभिधा प्रातिहार्यादिलक्षणा समानैव श्रूयते श्रुते इति । शेषं व्याख्यानं तथैव । तथा परसमयाभिप्रायेण व्याख्यानकर ईश्वरं महादेवं नमामि तस्यापि जराजरत्या अस्मरणीयत्वात्, अनश्वरश्रियः स्वयंवरत्वात्, निरामयत्वात्, वीतभयत्वात्, भवच्छित्त्वात्, वीरत्वात् महाभटत्वात् नृसुरासुरस्तुतत्वाच्च । तथानश्वरश्रियः अनश्वरा निश्चला या श्रीलक्ष्मी: पाणिगृहीती तस्या स्वयमात्मना वरीभूतं वरमेव लक्ष्मीपतिम्; शेषं तथैव । तथा भवच्छिदं भवं छिनत्तोति० संसारातिक्रान्तं ब्रह्माणम् । शेषविशेषणानि पूर्ववदिति ॥ ४ ॥ अथ जिनानभिष्ट्य जिनागममनुस्मरति - हितमित्यादि । अहं जिनागमं जिनप्रवचनम् । शरणं त्राणम् । गतोस्मि प्राप्तो भवामि । कस्मात् ? शरण्यभूतत्वात् । कुतः शरणार्हम् प्रवितोर्णा दत्ता मुक्तिर्येन स तम्; दत्तमुक्तित्वात् । अतएव भव्य जनानामेकबान्धवत्वं तस्य । न चेदमसिद्धं भव्यप्राणिबान्धवत्वम्; परमागमस्य हितत्वात् । कुतश्च हितम्, विसंवादविवर्जितस्थिति त्वात् । विसंवादोऽप्रतिपत्तिस्तेन विवर्जिता स्थितिर्यस्य स तम् । अतएवापरैरेकान्तवादिभिरभेद्यमजेयमिति हेतुमद्वयाख्यानमिदम् । हेतुरयं जातिर्वा ॥ ५ ॥ अथ परगुरुणा प्रतिपादितमागममनुस्मृत्यापरगुरु भारती मनुस्मरति — गुणान्वितेत्यादि । परं केवलम् | हारयष्टिहरलतैव दुर्लभा दुःप्रापा न, किन्तु समन्तभद्रादिमवा भारती च । समन्तभद्रादिभ्यो जाता समन्त० । किंलक्षणा हारलता भारती चेति तुल्यत्वमुच्यते । गुणैस्तन्तुभिर्दवर कैरन्विता, पक्षे गुणैरौदार्यादिभिः । तदुक्तम्- 'औदार्यं समता कान्तिरर्थव्यक्तिप्रसन्नता । समाधिः श्लेष ओजोऽथ माधुर्यं सुकुमारता ॥' इति भारतोगुणाः । पुनः किंलक्षणा, निर्म० वृत्तानि वर्तुलानि च तानि मौक्तिकानि मुक्ताफलानि च वृत्तमौक्तिकानि, निर्मलानि मलरहितानि वृत्तमौक्तिकानि ४६४ १. ब 'प्रभा' इति नास्ति । २. ब स्तौति । ३. ब 'ते' नास्ति । ४. ब लक्ष्म्या | तथाख्यातम् । ६. ब स्थित । Jain Education International For Private & Personal Use Only ५. ब तथैव www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy