________________
परिशिष्ट
१. पञ्जिका स्वस्ति श्री सरस्वत्यै श्री श्रुतमुनिमुनये नमः । प्रणम्य वीरं नृसुरासुरस्तुतं प्रकृष्टबोधं विबुधेष्टसंमतम् ।
करिष्यते संशयधामभजिका मयाथचन्द्रमकाव्यपञ्जिका ॥१॥ अथ श्री वीरनन्द्याचार्याः शिष्याणां हितानुचिन्तनप्रवण मनस: श्रीचन्द्रप्रभस्वामिचरित महाकाव्यं प्रारब्धकामास्तदादौ विशिष्टेष्टदेवताभिशंशनार्थमादाविदमभिदधते-श्रियं क्रियादित्यादि । अवयवार्थप्रतिपत्तिपविका समुदायार्थप्रतिपत्तिरिति व्याख्यापद्धतिरतोऽवयवार्थों निरूप्यते। तत्र, अवयवाः-स सचराचरे जगति प्रसिद्धो जिनः । श्रियम् आत्यन्तिको लक्ष्मीम् । क्रियात् विधेयात् । जयति कर्मारातीनिति जिनः । उपलक्षणत्वात् सर्वज्ञः। कर्मारातिजये हि सकलज्ञत्वं सुप्रसिद्धमेव । किमभिधानोऽसावग्रजः । अग्रे प्रथमं सकलजिनानां जातोऽग्रजः । कालापेक्षया वाग्रजः। अग्रजग्रहणादनादिपुरुषस्य ब्रह्मणः प्राप्तिरित्येके. तन्निरासार्थं जिन इति विशेष्यपदम् । अस्य च विशेषणत्वम्; यतस्तस्य ब्रह्मणोऽनादिसिद्धत्वात् सुविशुद्धत्वप्ररूपणमेवः पनरवतीर्य कर्मजयाभावात् । यद्यवतीयँव कर्माणि जयति तदा सुविशुद्धपरमात्मत्वाभावः इत्यलमतिप्रसङ्गेन । यत्तदोनित्यसंबन्धाद् यस्य भगवतः श्रीमदादिजिनस्य । सभा समवसृतिः। बभी शुशुभे । क्व, सुरागमे देवागमने । यदा ज्ञानमुत्पन्नं तदैव देवा आयाता इति भावः । किंलक्षणा, नटत्सु० नटन्तश्च ते सुरेन्द्राश्च नटत्सुरेन्द्राः तेषां नेत्राणि नटत्सुरेन्द्रनेत्राणि तेषां प्रतिविम्बानि नटत्सुरेन्द्रनेत्रप्रतिविम्बानि तैलाञ्छिता नटत्सुरेन्द्र० नृत्यद्देवेन्द्रनयनप्र (ति) कृतिचिह्निता। पुनः किं लक्षणा, रत्नमयी रत्ननिर्वृत्ता। प्राचुर्यविकारप्राधान्यादिषु मयट् । किलक्षणेव कृतोपहारेव कृत उपहारः पूजाविशेषो यस्यां सा । विहितरचना। कैर्महोत्पलैः अरविन्दरिवेति । अथवा महाकाव्यानां सकलसभासू विद्वद्धिरादरणीयत्वात् ॥ तदभिमतव्याख्यानेऽग्रजो रामचन्द्रस्तस्यापि भ्रातृचतुष्टयापेक्ष यानजत्वात् । जिनः समस्तान् शत्रून् जयतीति जिनः । तस्यापि प्रार्थितवरप्रदातृत्वाद् ॥ इन्द्रादिभिः सभायां पूज्यत्वम् । यो यच्छत्रन् निहन्ति स तैः पूज्यो भवतीति । अथवा बौद्धमतापेक्षया जिनो बुद्धः शेषं तथैव । ननु चाचार्यैरभिमतदेवतानमस्कारः प्रथमं कथं न विहितः, इत्यत्रोच्यते । 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् ।' इति वचनादाशीर्वचनेऽपोष्टाभिशंशनमेव, तत्र भगवतो गुणातिशयस्य वर्णनात्, तस्य च मङ्गलहेतुत्वात् । कि तन्मङ्गलम्, 'मं मलमित्युक्तमुपचारसमाश्रयात् । तद्विगालयतीत्युक्तं मङ्गलं पण्डितैजनैः ॥१॥' अथवा 'मङ्गशब्दोऽयमुद्दिष्टः पुण्यार्थस्यामिधायकः । तल्लातीत्युच्यते सद्भिर्मङ्गलं पण्डितैर्जनैः ॥२॥' तन्मङ्गलं द्विविधं मुख्यमौपचारिक चेति । 'यथार्हद्गुणस्तोत्रं तन्मुख्यं मङ्गलं मतम् । अमुख्यं तद्गुणौपम्यात्पूर्णकुम्भादि लौकिकम् ।।' इति । सभाख्यानजिनत्वादिगुणप्रकाशनत्वमेव मङ्गलमिदम् । आशीश्च विनेयविबोध्यशिष्याणां निर्विघ्नतः काव्यादिव्युत्पत्तिजननाय स्वस्य च तथैव परिसमाप्त्यादिफल प्रकाशनायेति । तदुक्तम् -'विघ्नाः प्रणश्यन्ति भयं न जातु न क्षुद्रदेवाः परिलङ्घयन्ति । अर्थान् यथेष्टांश्च सदा लभन्ते जिनोत्तमानां परिकीर्तनेन ॥' ॥१॥ अथाष्टमजिनानुस्मरणायाह-स पातु इत्यादि । स जिनः । पातु रक्षतु । कान्, वः युष्मान् । स कः, शशिलाञ्छनः शशी चन्द्रो लाञ्छनं यस्य सः। यत्तदोनित्यसंबन्धात् । विदिद्युते चकासे । कैः, अमरैः; न म्रियन्त इत्यमरा देवास्तैः । किं लक्षणः, विनिमग्नमूर्तिभिः निनिमग्ना मज्जन्ती मूर्तिर्येषां ते विनिमग्नमूर्त
१. विरचि । २. ब प्रतीति । ३. ब न्यादिमयट् । ४: ब 'सु' नोपलभ्यते । ५. ब स्वस्तिकान्तगा: पाठो नास्ति । ६.ब वाचा । ७. ब शंस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org