________________
चन्द्रप्रमचरितम्
कार्यक्रमः। ५९ समये समये सूरवनितानामागमनं ललितगीतनर्तनादिविधानं च । ६० चन्द्रप्रभस्य भोगसुखानुभवनम् । ६१-६४ चन्द्रप्रभस्य पुरतो धर्मरुचिनाम्नो धृतवृद्धविग्र हस्य सुरस्य पूत्कृतिः। ६५ अन्तर्हिते तस्मिन् स क इति सभ्यजनानां जिनं प्रति जिज्ञासा । ६६ तदुत्तरम् । ६७-७० संसारासारतायाश्चिन्तनम् । ७१ कृत्स्नकर्मक्षयस्य निश्चयः । ७२ लोकान्तिकदेवानामागमनम् । ७३ विमलाभिधां शिबिकामारुह्य चन्द्रप्रभः सकलर्तुवनं प्रापत्-इति वर्णनम् । ७४ वरचन्द्राभिधानाय स्वपुत्राय राज्यं वितीर्य स तपोऽग्रहीत्-इति वर्णनम् । ७५ अपाकृतांस्तत्कचानमराधिपः क्षीरसमुद्रे निदधे-इति वर्णनम् । ७६ दीक्षाकल्याणमहोत्सवः । ७७ नलिनपुरपालिनः सोमदत्तस्य गृहे चन्द्रप्रभस्य पारणा । ७८ चतुर्णां कषायाणां नाशनम् । ७९ परीषहजयवर्णनम् । ८० चन्द्रप्रभस्य पार्श्वे संशयनिरासाय नानामुनीनामनुदिनमागमनम् । ८१ पुनरपि दीक्षावनं प्रति गमनम् । ८२ तत्र नागशाखिनस्तस्तलभुवि कैवल्यलाभः । ८३-९१ समवसरणवर्णनम् ।
१८. अष्टादशः सर्गः १ गणधरप्रश्नाज्जिनेश्वरश्चन्द्रप्रभस्तत्त्वं जगाद-इति कथनम् । २ सप्ततत्त्वानां नामानि । ३ पुण्यपापयोर्बन्धेऽन्तभावोऽनन्तर्भावे च नवपदार्थाः- इति प्रतिपादनन् । ४. जीवस्वरूपनिरूपणम् । ५ विवक्षावशाज्जीवस्य द्वैविध्यं चातुर्विध्यं च। ६ पृथिवीभेदान्नारकः सप्तधा प्रभिद्यते । ७-८ अधोलोकस्थितानां सप्तपृथिवीनां नामानि । ९-१० नारकाणामुत्सेधः । ११-१२ नारकाणामायुः । १३-१४ नारकबिलानां संख्या । १५ पापा नरकं प्रयान्ति तत्र दु:खं चानुभवन्ति । १६ नरकगतिवर्णनस्योपसंहारस्तिर्यग्गतिवर्णनस्योपक्रमश्च । १७ तिर्यग्योनिजानां जीवानां भेदाः । १८-१९ स्थावरजीवानां भेदाः। २०-२१ इन्द्रियापेक्षया जीवानामुत्कृष्टावगाहना। २२. इन्द्रियाणां नामानि द्वीन्द्रियादिजीवेषु तद्वद्धिक्रमश्च । २३-२४ स्थावरजीवानामायुषः प्रमाणम् । २५-२६ त्रसजीवानामायुषः प्रमाणम् । २७ तिर्यग्गतिवर्णनस्योपसंहारो मनुष्यगतिवर्णनस्योपक्रमश्च । २८ मनुष्याणां भेदा भोगभूमीनां संख्या च। २९ उत्तमादिभेदेन भोगभूमीनां त्रैविध्यमुत्तमासु च भोगभूभिषु नृणामुत्सेधः । ३० भोगभूमिजानामायुः । ३१ भोगभूमिजाः कल्पद्रुमोद्भवं फलं भुजतेइति कथनम् । ३२ कर्मभूमिजानां मानवानां भेदाः कर्मभूमीनां संख्या च । ३३ कर्मभूमिजानां मानवानामुत्कृष्ट उत्सेधः। ३४ कर्मभूमिजानामायुः, विदेहे वृद्धिह्रासौ न-इति कथनम् । ३५ भरतैरावतयोः कालकृती वृद्धिह्रासौ, कालश्च द्विविधः- इति प्रतिपादनम। ३६ उत्सपिण्या अवसर्पिण्याश्च कालस्य प्रमाणम । ३७-३८ तयोः सुषमासुषमादयो भेदाः । ३९-४१ सुषमासूषमादीनां कालस्थ प्रमाणम । ४२ म्लेच्छानां भेदाः। ४३ आर्याणां भेदाः । ४४-४६ गुणस्थानानां नामानि । ४७ मनुष्यगतिवर्णनस्योपसंहारो देवगतिवर्णनस्योपक्रमश्च । ४८ निकायापेक्षया देवानां चातुर्विध्यं तत्र च भवनवासिनां दशविधत्वम् । ४९ व्यन्तरा अष्टधा। ५० वैमानिकदेवानां भेदाः । ५१ कल्पातीतदेवानां वर्णनम् । ५२ भवनवासिनां देवानामवगाहना। ५३ व्यन्तरज्यौतिषसौधर्मेशानदेवानामुत्सेधः । ५४-५८ अन्येषां सुमनसा ( वैमानिकानां) कायोच्छ्रायः । ५९-६५ देवानामायुःप्रमाणम् । ६६ जीवनिरूपणाया उपसंहारोऽजीववर्णनाया उपक्रमश्च । ६७ अजीवद्रव्यस्य पञ्चविधत्वम् । ६८ षष्ठस्य जीवद्रव्यस्य पञ्चास्तिकायनां च प्रतिपादनम् । ६९-७० धर्मद्रव्यस्य स्वरूपनिरूपणम् । ७१ अधर्मद्रव्यस्य स्वरूपम् । ७२ आकाशद्र व्यस्य निरूपणम् । ७३ धर्मादिद्रव्याणां प्रदेशसंख्या । ७४ कालद्रव्यस्य लक्षणमुपकारश्च । ७५-७७ दिनकरादीनां क्रियां विहायापरः कालो नास्तीति पूर्वपक्षस्तदुत्तरपक्षश्च । ७८ पुद्गलस्य स्वरूपनिरूपणमणुस्कन्धविवक्षया द्वैविध्यं च । ७९ स्थूलसूक्ष्मादिभेदतः पुद्गलानां बहुविधत्वम् । ८० पुद्गलद्रव्यस्योपकारः । ८१ पुद्गलवर्णनस्योपसंहार आस्रवतत्त्वस्योपक्रमश्च । ८२ आस्रवस्य स्वरूपम् । ८३ आस्रवस्य भेदो तत्स्वामिनी च । ८४ ज्ञानदर्शनावरणयोरास्रवहेतवः । ८५ असातवेदनीयस्यास्रवहेतवः । ८६ सातवेद्यस्यास्रबहेतवः । ८७ दर्शनमोहनीयस्यास्रवहेतवः । ८८ चारित्रमोहनीयस्यास्रवहेतवः । ८९ नारकायुषस्तिर्यगायुषश्चास्रवहेतवः । ९० मनुष्यायुषो देवायुषश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org