________________
विषयानुक्रमः मात्मसैन्यं संधीरयन् सोत्साहं चकार इति वर्णनम् । ६६-७४ चन्द्रशेखरस्य पद्मनाभसेनापतिना भीमेन सह युद्धम् । ७५-९६ सामन्तानां प्रतिद्वन्द्विभिः सामन्तैः सह युद्धम् । ९७-१०५ सुवर्णनाभधर्मपालयोः ( पद्मनाभपृथिवीपालपुत्रयोः ) वायुद्धवर्णनम् । १०६-१११ द्वन्द्वयुद्धे सुवर्णनाभो धर्मपालं बन्दीकृत्य पितुरन्तिक निनायेति वर्णनम् । ११२-११३ पद्मनाभसामन्तैः पृथिवीपालसामन्ता भग्नमनोरथाः कृताः- इति वर्णनम् । ११४-१२९ पद्मनाभपृथिवीपालयोयुद्धम् । १३० पद्मनाभस्तत्र पृथिवीपालस्य शिरश्चिच्छेद-इति वर्णनम् । १३१ शत्रूणां पलायनं रणभूमिसंशोधनं च । १३२ युद्ध मूनि मृतानां दाहसंस्कारः । १३३ शत्रोश्छिन्नं शिरो निरीक्ष्य पद्मनाभस्य वैराग्यम् । १३४-१४४ वैराग्यविचागः । १४५-१४७ निजतनूजाय सुवर्णनाभाय राज्यभारं वितीर्य पृथिवीपालनन्दनाय च तत्पितुः पदं, पद्मनाभः श्रीधरमुनेः सकाशाद्दोक्षामादाय श्रमणो बभूव । १४८-१५० पद्मनाभस्य ज्ञानद्धि प्राप्तेस्तपश्चरणस्य च वर्णनम् । १५१-१६० षोडश भावना भावयन् पद्मनाभस्तीर्थकृन्नामकर्म वबन्ध-इति वर्णनम् । १६१-१६२ स्वतनुं त्यक्त्वा सोऽनुत्तरवैजयन्तं भेजे, तत्र दिव्यं सुखं च लेभे ।
१६. षोडशः सर्गः १-५ पूर्वदेशवर्णनम् । ६.९ चन्द्रपुरीवर्णनम् । १० राजवेश्मवर्णनम् । ११-१५ तदधिपतेर्महासेननृपतेर्वर्णनम् । १६-२० तन्महिष्या लक्ष्मणाया वर्णनम् । २१ तां लक्ष्मणामवाप्य राजा महामेन आत्मानं सार्वभौमं कलयतिस्म-इति वर्णनम् । २२ तां प्रति राज्ञोऽनुरक्तवर्णनम् । २३ तदनुरक्तेः प्रभावात् सामन्तानां स्वाच्छन्द्यम् । २४ सचिवमुखात्तच्छ्रुत्वा राज्ञस्तद्विजयस्य विचारः । २५-५२ राज्ञो दिग्विजयवर्णनम् । ५३ राज्ञः स्वपुरी प्रति प्रत्यागमनम् । ५४ सत्कृत्यनन्तरं राज्ञां विसर्जनम् । ५५ रत्तवृष्टिवर्णनम् । ५६ दिक्कुमार्यो लक्ष्मणाया गर्भशोधनादि कर्तव्यं व्यधिषत-इति वर्णनम् । ५७-६२ देवी षोडश स्वप्नान् ददर्श-इति वर्णनम् । ६३-६६ राजमुखेन स्वप्नफलवर्णनम् । ६७ तच्छ्रत्वा लक्ष्मणा देवी प्रमोदं भेजे-इति वर्णनम् । ६८ चन्द्रप्रभस्य गर्भावतरणम् । ६९ गर्भकल्याणमहोत्सवस्य वर्णनम् । ७० श्रीह्रोधृत्यादिभिर्देवोभिः सेव्यमाना लक्ष्मणा देवी नवमासान सूखेनैव निन्य-इति वर्णनम् ।
१७. सप्तदशः सर्गः १ जिनजन्मवर्णनम् । २-३ जिनजन्मसमये ककुभः प्रसेदुः, नभस्तलममलं जातं, सुरभिर्वायुर्ववो, वियतो दिव्यकुसुमवृष्टिर्जाता-इति वर्णनम् । ४-५ कल्पवासिप्रभृतिदेवानामावासस्थानेषु मणिघण्टिकादयः स्वयमेव रेणुः-इति वर्णनम् । ६ ज्ञातचन्द्रप्रभजिनजन्मनां देवानां चन्द्रपुरी प्रति प्रस्थानम् । ७ सुरासुराभरणकिरणः ककुभां शोभाया वर्णनम् । ८ नभसि देवविमानानां सुषमा। ९ अमरालयादानृपतिगेहं विस्तृताया देवपङ क्तेः सौन्दर्यम् । १० सवासवः सुरगणो नृपसम प्राप----इति वर्णनम् । ११ शची मायाशिशुं मातुरुर सि विनिवेश्य जिनमुज्जहार-इति वर्णनम् । १२ तमुदोक्ष्य हरेहर्षप्रकर्षः समजनि--इति वर्णनम् । १३ सोधर्मेन्द्रस्तमर्भकमात्मगजमरोपयत्--इति वर्णनम् । १४ अन्येषाममरपतीनामानमनवर्णनम् । १५ मङ्गलगानपूर्वकं देवीनामग्रतोऽभिमेरु प्रस्थानम् । १६ देवानां प्रस्थानवेलायां दुन्दुभिनादः । १७ तदवसरे नभस्तले देवनृत्यमजनिइति वर्णनम् । १८ सुमेरुप्राप्तिवर्णनम् । १९ सुमेरुशिखरस्य पाण्डुकशिलायां सिंहासने जिना कस्य स्थापनम् । २० तदभिषेकवर्णनम् । २१ सोत्सवं तत्कर्णच्छेदनसंस्कारं सुरेश्वराश्चक्रुः--इति वर्णनम् । २२ सुरास्तं जिनार्भकं मणिकुण्डलादिभिराभरणैरभूषयन्-इति वर्णनम् । २३ तन्नामकरणसंस्कारः । २४ तत्स्तुतेरुपक्रमः । २५-४० इन्द्रमुखेन जिनार्भकस्तुतिः । ४१ सुमेरुतश्चन्द्रपुर्ण प्रति प्रस्थानम् । ४२ जिनार्भकं समर्पा सुराः सुरेन्द्राश्च तत्र महोत्सवं चक्रुः-इति वर्णनम् । ४३-४८ जिनार्भकस्य बालक्रीडाया वणनम् । ४९ धनदप्रेपितानां तदाभरणानां वर्णनम् । ५० तत्कलावगमनवैशिष्टयम् । ५१ तद्विवाहसंस्कारः । ५२ राज्यलाभः तत्प्रशासनं च। ५३-५६ तच्छासने प्रजायाः सुखावस्थितिः । ५७ सामन्तानामानुकूल्यम् । ५८ रजनीमहश्चाष्टधा विभज्य विहितः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org