________________
४५१
- १८, १२०]
अष्टादशः सगः अनिष्टसंगमे तस्य वियोगपरिचिन्तनम् । विप्रयोगे मनोज्ञस्य समागमविचिन्तनम् ॥११६।। रोगादिजनितायाश्च वेदनाया मुहुः स्मृतिः।। निदानं चेति चत्वारो भेदाः पूर्वस्य कीर्तिताः ।।११७।। रौद्रं हिसानृतस्तेयविषयप्रतिपालनैः । चतुर्भिर्जायमानत्वात्कारणः स्याच्चतुर्विधम् ॥११८।। आशा विपाकविचयावपायविचयस्तथा। संस्थानविचयश्चेति धर्मध्यानं चतुर्विधम् ॥११९॥ पृथक्त्वादिवितर्कान्तं शुक्लमाद्यमुदीरितम् ।
एकत्वादिवितर्कान्तं द्वितीयमनुगद्यते ॥१२०॥ यस्य तत् । अर्हद्भिः सर्वज्ञैः । आख्यातं प्रोक्तम् ॥११५॥ अनिष्टेति । अनिष्टसङ्गमे अनिष्टस्य सङ्गमे संयोगे सति । तस्य अनिष्टवस्तुनः । वियोगपरिचिन्तनं वियोगे विगमे परिचिन्तनं स्मरणम् । ॐ मनोज्ञस्य इष्टवस्तुनः । विप्रयोगे विरहे सति । समागमनचिन्तन' समागमने संप्रापणे चिन्तनं स्मरणम् ॥११६॥ रागेति । रागादि जनितायाश्च रागादिभी रागद्वेषादिभिर्जनितायाश्च । वेदनायाः पीडायाः । मुहः स्मृतिः विगमचिन्तनम् । निदानं चेति संपदाद्यपेक्षणं चेति । पर्वस्य आर्तध्यानस्य । चत्वारः। भेदाः विकल्पाः। कीर्तिताः निस ॥११७॥ रौद्रमिति । रौद्रं रौद्रध्यानम् । हिंसानृतस्ते यविषयप्रतिपालनैः हिंसा प्रमत्तयोगात् प्राण्यपरोपणं सा च, अनृतम् असदभिधानं तच्च, स्तेयम् अदत्तादानं तच्च, विषयाः पञ्चेन्द्रियगोचराः, तेषां प्रतिपालनं तच्च, तथोक्तानि तैः । चतुभिः चतुःसंख्यैः । कारणः हेतुभिः। जायमानत्वात् उत्पद्यमानत्वात् । चतुर्विधं चतुर्विकल्पम् । स्यात् । लिङ् ॥११८॥ आज्ञेति । आज्ञाविपाकवचियो आज्ञाविचयश्च विपाकविचयश्च तथोक्तौ । अपायविचयः । तथा तेन प्रकारेण । संस्थानविचयश्चेति । धर्म्य ध्यानं धयं च तध्यानं च तथोक्तम् । चतुर्विधं चत्वारो विधाः प्रकारा यस्य तत् ॥११९॥ पृथक्त्वेति । आद्यं प्रथमम् । शुक्लं शुक्लध्यानम् । पृथक्त्वादिवितर्कान्तं पृथक्त्वम् आदौ यस्य तत् पृथक्त्वादि, वितर्कोऽन्ते यस्य तद् वितर्कान्तं, पृथक्त्वादि च तद् वितर्कान्तं च तथोक्तम् । पृथक्त्ववितर्कसंज्ञमित्यर्थः । यद्यपि पृथक्त्ववितर्क विचार इति नाम शुक्लाध्यानस्य तथापि पृथक्त्ववितर्कमित्युच्ये, 'नामैकदेशो नाम्नि प्रवर्तते' इति वचनात् । इत्युदीरितं प्रोक्तम् । एकत्वादि. वितर्कान्तम् एकत्वमादौ यस्य तत्, वितर्कोऽन्ते यस्य तत्, एकत्वादिवितर्कान्तं च तथोक्तम् । एकत्ववितर्कविचारअशुभगतिके कारण हैं और धर्म और शुक्ल शुभ गति के ॥११५॥ अनिष्ट समागम होनेपर बार-बार यह सोचना कि यह कैसे दूर हो अनिष्ट संयोग नामक आतध्यान है। इष्ट वियोग होनेपर बार-बार यह सोचना कि उसका समागम कैसे हो इष्ट वियोग नामक आतंध्यान है ॥११६॥ रोगादिजनित वेदनाके होनेपर बार-बार उसीका स्मरण करना वेदना नामक आतध्यान है। आगामी भोगोंको बार-बार चिन्ता करना निदान नामक आर्तध्यान है । इस तरह ये चार पहले आर्तध्यान के भेद हैं ॥११७॥ हिंसा, झूठ. चोरी और विषयोंके संरक्षणको चिन्ता करना रौद्रध्यान है। हिंसानन्दी, मृषानन्दी, चौर्यानन्दी और विषयानन्दी ये चार रौद्रध्यानके भेद हैं । चार कारणोंसे उत्पन्न होनेके कारण यह चार प्रकारका होता है ॥११८॥ धर्मध्यान चार प्रकारका है-आज्ञाविचय, विपाकविचय, अपायविचय और संस्थान विचय ॥११९॥ शुक्लध्यान भी चार प्रकारका है-पहला पृथकत्ववितर्क, दूसरा
१. एष टोकाश्रय पाठः प्रतिषु तु निखिलास्वपि 'समागमविचिन्तनम्' इति समुलभ्यते । २. श स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । ३. अयमपि टीकाश्रयः पाठः, प्रतिष तु 'रोगादि" दृश्यते । ४. आ ले। ५. एष टीकाश्रयः पाठः, प्रतिषु तु 'धर्म' इत्यस्ति । ६. = चतस्रो। ७. आ विकल्पाः । ८. श इत्युदितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org