________________
चन्द्रप्रभचरितम्
अन्यत् सूक्ष्मक्रियापूर्व प्रतिपात्यन्तमुच्यते । चतुर्थ प्रतिपात्यन्तं समुच्छिन्नक्रियादिकम् ॥१२१॥ कथितेति समासेन निर्जरा सनिबन्धना । सांप्रतं मोक्षतत्त्वस्य रूपं व्यावर्णयिष्यते ॥ १२२ ॥ कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञानदर्शनचारित्रत्रयोपायः प्रकीर्तितः ॥ १२३ ॥ तत्त्वप्रकाशकं ज्ञानं दर्शनं तत्त्वरोचकम् । पापारम्भपरित्यागश्चारित्रमिति कथ्यते ॥ १२४॥ संसारव्याधिविध्वंसे' भाव्यमानमिदं त्रयम् । तुरेकाङ्गविकलो' न हेतुरिव भेषजम् ||१२५||
४५२
मित्यर्थः । द्वितीयं द्वितीयशुक्लध्यानमिति । निगद्यते प्रकीर्त्यते । कर्मणि लट् ॥ १२० ॥ अन्यदिति । अन्यत् तृतीयम् । सूक्ष्मक्रियापूर्वप्रतिपात्यन्तं सूक्ष्मक्रिया पूर्वा प्रथमा यस्य तत् प्रतिपातिशब्दोऽन्ते यस्य तत् तथोक्तं सूक्ष्म क्रियापूर्वं च तत् प्रतिपात्यन्तं च तथोक्तं सूक्ष्मक्रियाप्रतिपातीत्यर्थः । उच्यते निगद्यते । ब्रून् व्यक्तायां वाचि कर्मणि लट् । चतुर्थं तुरीयम् । समुच्छिन्नक्रियादिकं समुच्छिन्नक्रिया आदी यस्य तत् तथोक्तम् । प्रतिपात्यन्तं प्रतिपातिशब्दोऽन्ते यस्य तत् तथोक्तम् । निरूपितम् ॥ १२१ ॥ कथितेति । सनिबन्धना सकारणा । निर्जरा . निर्जरापदार्थः । समासेन संक्षेपेण । इति एवम् । कथिता प्रोक्ता । सांप्रतम् इदानीम् । मोक्षतत्त्वस्य मोक्षपदार्थ - स्य । रूपं स्वरूपम् । व्यावर्णयिष्यते परिकीर्त्यते । वर्ण वर्णक्रियायां लृट् ॥१२२॥ कृत्स्नेति । परिणामिनः परिणामयुक्तस्य । भव्यस्य आसन्नभव्यस्य । कृत्स्नकर्मक्षयः कृत्स्नानां सकलानां कर्मणां ज्ञानावरणादीनां क्षयो विनाशः | ज्ञानदर्शनचारित्रत्रयोपायः सम्यग्दर्शनज्ञानचारित्राणां त्रयमेवोपायो यस्य सः । मोक्ष इति । प्रकीर्तितः निरूपितः ॥ १२३ ॥ तवेति । तत्त्वप्रकाशकं तत्त्वानां जीवादिपदार्थानां प्रकाशकं प्रतिभासकम् । ज्ञानं सम्यग्ज्ञानम् । तत्त्वरोचकं तत्त्वेषु रोचकं रुचिकरम् । दर्शनं सम्यग्दर्शनम् । पापारम्भपरित्यागः पापस्य पापरूपस्यारम्भस्य व्यापारस्य परित्यागः त्यजनम् । चारित्रमिति सम्यक्चारित्रमिति । कथ्यते निगद्यते । कथ वाक्यप्रबन्धे कर्मणि लट् ॥ १२४॥ संसारेति । भाव्यमानं निश्चीयमानम् । इदम् एतत् । त्रयं सम्यग्दर्शनज्ञानचारित्रत्रयम् । संसारव्याधिविध्वंसे' संसार एव व्याधिस्तस्य विध्वंसे विनाशकरणे । हेतुः कारणम् । एकाङ्गविकलम् ( लः ) एकत्ववितर्क, तीसरा सूक्ष्मक्रियाप्रतिपाति और चौथा समुच्छिन्नक्रियाप्रतिपाति ( व्युपरत क्रियावित ) ॥ १२० ॥ १२१ ॥ इस प्रकार संक्षेपमें निर्जराका और उसके कारणोंका भी निरूपण किया, अब मोक्षतत्त्व के स्वरूपका निरूपण किया जायगा ॥ १२२ ॥ समस्त कर्मोका क्षय हो जाना मोक्ष कहलाता है, जो परिणामी नित्य ( न सांख्योंकी तरह सर्वथा नित्य और न बौद्धों की तरह सर्वथा क्षणिक ) भव्य जीवके ही सम्भव है । मोक्षका उपाय रत्नत्रय - सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र है ॥ १२३॥ जीवादि सात तत्त्वों को प्रकाशित करनेवाला सम्यग्ज्ञान होता है, जीव आदि तत्त्वोंमें अभिरुचि उत्पन्न करनेवाला सम्यग्दर्शन होता है और पापमय आरम्भका परित्याग करना सम्यक्चारित्र कहलाता है ॥ १२४ ॥ सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक् चारित्र इन तीनोंकी भावना की जाय तो ये संसाररूपी व्याधिके विध्वंसक
[ १८, १२१ -
१. क ख ग घ संवर्णयिष्यते । २. अइ क ख ग घ व्याधिविध्वंसि । ३ अ आ इ हेतुरेकान्त क ख ग घ हेतुरेकाङ्गविकलं । ४. मूले 'अनुगद्यते' इत्यस्ति न तु 'निगद्यते' इति । ५. एष टोकाश्रयः पाठः, मूले तु 'सूक्ष्मक्रियापूर्वं प्रतिपात्यन्तं' इति वर्तते । ६. एष टीकाश्रयः पाठः, प्रतिषु तु 'संनिबन्धना' इति समुपलभ्यते । ७. आ 'निर्जरा' इति पदं नास्ति । ८. श व्यक्तप्रबन्धे । ९. एष टीका श्रयः पाठः, प्रतिषु तु "विध्वंसि' इत्येवास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,