________________
४५०
चन्द्रप्रमचरितम्
[१८,१११ -
स्थितं द्वादशभिर्भेदैनिर्जराकरणं तपः। बाह्यमाभ्यन्तरं चेति मूलभेदद्वयान्वितम् ॥११॥ उपवासावमोदर्य वृतिसंख्या रसोझनम्। विविक्तवासता कायक्लेशश्चेति बहिर्भवम् ॥११२॥ स्वाध्यायो व्यावृतिानं व्युत्सगों विनयस्तथा । प्रायश्चित्तमिति शेयमान्तरं षड्विधं तपः ॥११३।। स्वाध्यायानशनादीनां व्यक्तत्वादप्रपञ्चनम् । क्रियते दुर्विबोधत्वाद्धयानस्यैव प्रपश्चनम् ॥११४॥ आते रौद्रं च धर्म च शुक्लं चापि चतुर्विधम् । ध्यानमाख्यातमहद्भिः शुभाशुभगतिप्रदम् ॥११५।।
उपक्रमनिर्जरा उपक्रमेण जाता निर्जरा । स्मृता ॥११०॥ स्थितमिति । निर्जराकारणं निर्जरायाः कर्मविना. शस्य कारणं हेतुः । तपः तपश्चरणम् । द्वादशभिः । भेदैः विकल्पैः । स्थितम् आसितम् । बाह्यं बहिर्जातम् । आभ्यन्तरं चेति अन्तरङ्गजनितं चेति । मूलभेदद्वयान्वितं मूलभेदयोर्द्वयेनान्वितं सहितम् ॥१११॥ उपवासेति । उपवासावमोदर्ये उपवासोऽनशनं स च, अवमोदर्यम् अवमं रिक्तमुदरं जठरं यस्य सोऽवमोदरः तस्य भावोऽवमौदर्यं तच्च तथोक्ते । वृत्तिसंख्या । रसोज्झनं रसानां क्षीरघृतादीनामुज्झनं त्यजनम् । विविक्तवासता विविक्ते एकान्ते वासता स्थितित्वम् । कायक्लेशश्चेति कायक्लेश इति । बहिर्भवं बा ह्यम् । तप इति स्मृतम् ॥११२॥ स्वाध्याय इति । स्वाध्यायः श्रुताध्ययनम् । व्यापृतिः वैयावृत्यम् । ध्यानम् एकाग्रचिन्तानिरोधलक्षणम् । व्युत्सर्गः कायोत्सर्गः । विनयः ज्ञानादिविनयः । तथा तेन प्रकारेण । प्रायश्चित्तमिति । आन्तरम् अन्तरङ्गभवम् तपः तपश्चरणम् । षड्विधं षट्प्रकारम् । ज्ञेयं वेदितव्यम् ॥११३॥ स्वाध्याय इति । स्वाध्यायानशनादीनां स्वाध्यायानशने आदी येषां तेषाम् । व्यक्तत्वात् विशदत्वात् । अप्रपञ्चनम् अविवेचनम् । ध्यानस्यैव दुर्विबोधत्वात् ज्ञातमशक्यत्वात । प्रपञ्च विवरणम । क्रियते विधीयते । कर्मणि लट ॥११४॥ आतमिति । शभाशभगतिप्रदं शभगत्यशभगती प्रददातीति शुभाशुभगतिप्रदम । ध्यानम् । आर्तम ऋते भवमार्तम् । रौद्रं रोदयतीति रुद्रः तस्य भावो रौद्रम् । धम्यं च धर्मादनपेतम् । शुक्लं चेति शुक्लमिति । चतुविधं चत्वारो विधा विकल्पा
देकर बद्ध कर्मो का अंशतः झड़ जाना यथाकालजा-सविपाक निर्जरा है, और जो तपश्चरणसे कर्मों की निर्जरा होती है वह उपक्रम निर्जरा या अविपाक निर्जरा कहलाती है ॥११०॥ निर्जराका कारण तप है, जो बारह प्रकारका है । तपके मूल भेद दो हैं, बाह्य और आभ्यन्तर ॥१११॥ बाह्य तप छह प्रकारका है-अनशन, अवमौदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्त शयनासन और कायक्लेश ॥११२॥ स्वाध्याय, वैयावृत्ति, ध्यान, व्युत्सर्ग, विनय और प्रायश्चित्त ये छह आभ्यन्तर तप जानने चाहिए ॥११३॥ स्वाध्याय और अनशन आदि किसे कहते हैं; यह स्पष्ट है, अतः इनका विस्तार छोड़ते हैं। दुर्बोध होनेके कारण केवल ध्यानका ही विस्तार किया जा रहा है ।।११४॥ भगवान् अरिहंतने उस ध्यानके चार भेद बतलाये हैं-आतं, रौद्र, धर्म, और शुक्ल । इनमें आर्त और रौद्र
१. म रसोप्सनम् । २. अ विविक्ता वासना, आ इ विविक्तावासता, म विविक्तवासना । ३. = तपसा तपश्चरणेन । निर्जरा जायते । सा च । ४. श 'तपः' इति नोपलभ्यते । ५. एष टीकाश्रयः पाठः, प्रतिषु तु 'व्यावृतिः' वर्तते । ६. श रोधयतीति । ७. एष टोकाश्रयः पाठः प्रतिषु तु 'धर्म च' इति समुपलभ्यते । ८. चतस्रो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.