________________
- १८, ११० ]
अष्टादशः सर्गः
श्रस्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संक्रियते येनेत्येवं व्युत्पत्तिसंश्रयात् ॥ १०६॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ । दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥ १०७॥ इति संवरतत्त्वस्य रूपं संक्षिप्य कीर्तितम् । इदानीं क्रियते किंचिन्निर्जराया निरूपणम् ॥ १०८॥ यथाकालकृता काचिदुपक्रमकृतापरा । निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ॥ १०६ ॥ या कर्मभुक्तिः श्वभ्रादौ सा यथाकालजा स्मृता । तपसा निर्जरा या तु सा चोपक्रमनिर्जरा ॥ ११०॥
1
स्वरूपम् । किंचित् स्तोकम् । उद्योतयिष्यते प्रकाशयिष्यते । द्युति दीप्तौ णिजन्ताल्लट् ॥ १०५ ॥ आस्रवस्येति । आसवस्य कर्मणामासवस्य । यः । निरोधः निवारणम् । संवर इति संवरपदार्थ इति । निगद्यते । गद व्यक्तायां वाचि कर्मणि लट् । अनेन एतेन । कर्म ज्ञानावरणादि । संव्रियते निरुध्यते । इति एवं प्रकारेण । व्युत्पत्तिसंश्रयात् व्युत्पत्तेर्निरुक्तेः संश्रयात् आश्रयात् ॥ १०६ ॥ चारित्रेति । असौ संवरः । चारित्रगुप्त्यनुप्रेक्षापरीषहजयात् चारित्रं त्रयोदशविधं तच्च, गुप्तिर्यतः संसारकारणादात्मनो गोपनं गुप्तिः सा च, अनुप्रेक्षा शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा सा च परीषहजयात् परीषहाणां क्षुत्पिपासादीनां जयो विजयः स च तथोक्ताः तेषां समाहारः चारित्रगुप्त्यनुप्रेक्षापरीषहजयं तस्मात् । दशलक्षणधर्माच्च दशलक्षणान्यसाधारणस्वरूपाणि यस्य तस्मात् धर्मात् इष्टस्थाने धरणरूपात् । समितिभ्यश्च प्राणिपीडापरिहारपरिणतिः समितिः, पञ्च समितयः ताभ्यश्च । जायते समुत्पद्यते । लट् ॥ १०७ ॥ इतीति । इति उक्तप्रकारेण । संवरतत्त्वस्य संवरपदार्थस्य । रूपं स्वरूपम् । संक्षिप्य समस्य । कीर्तितं प्रोक्तम् । इदानीम् अधुना । निर्जरायाः निर्जरापदार्थस्य । निरूपणम् अनुवर्णनम् । किंचित् ईषत् । क्रियते विधीयते । कर्मणि लट् ॥ १०८॥ यथेति । तावत्' । यथाकालकृता यथाकालं कालमनतिक्रम्य कृता विहिता । अपरा अन्या । उपक्रमकृता उपक्रमेण कृता विहिता । कर्मक्षपणलक्षणा कर्मणां ज्ञानावरणादीनां क्षपणं विनाशः तदेव लक्षणं स्वरूपं यस्याः सा । निर्जरा निर्जरापदार्थः । द्विविधा द्विप्रकाराद्वौ विध प्रकारौ यस्याः सा । ज्ञेया वेदितव्या ॥ १०९ ॥ येति । श्वभ्रादो नरकादिगत्याम् । कर्मभुक्तिः कर्मणां भुक्तिरनुभवना ज्ञायते । या निर्जरा । सा यथाकालजा कालमनतिक्रम्य जनिता इति । स्मृता ज्ञाता । या तु । निरूपण किया, अब थोड़ा संवरके स्वरूपपर प्रकाश डाला जा रहा है || १०५ || आसूवके निरोधको संवर कहते हैं । आनेवाले कर्मों का जिसके द्वारा संवरण हो— निरोध हो, उसे संवर कहते हैं—'कर्म संव्रियते येन स संवरः' यह संवरकी व्युत्पत्ति है । इसी व्युत्पत्ति के आधारपर उक्त अर्थ किया गया है ॥ १०६ ॥ यह संवर, चारित्र, गुप्ति, अनुप्रेक्षा, परीषहजय, दशलक्षणधर्म और समितियोंसे होता है ॥ १०७॥ इस प्रकार संक्षेपमें संवरतत्त्वका स्वरूप कहा, अब थोड़ा निर्जराका निरूपण किया जा रहा है || १०८ || पहले बंधे हुए कर्मोंका अंशतः क्षपण होना - झड़ना निर्जराका लक्षण है, और वह निर्जरा दो प्रकारकी होती है— सविपाक निर्जरा और अविपाक निर्जरा । स्वाभाविक क्रमसे प्रति समय कर्मों का फल देकर झड़ना सविपाक निर्जरा है । इसीका दूसरा नाम अनुपक्रम निर्जरा या यथाकाल निर्जरा है । तपके द्वारा कर्मोंका उनके उदयके समय के पहले ही झड़ा देना अविपाक निर्जरा है । इसीका दूसरा नाम उपक्रम निर्जरा है ॥ १०६ ॥ नरक आदि गतियों में कर्मो का फल भोगना - अपने समय के अनुसार फल
,
१. एप टोकाश्रयः पाठः, प्रतिषु तु 'काचित्' इत्येवास्ति |
५७
Jain Education International
४४९
For Private & Personal Use Only
www.jainelibrary.org