________________
४१८
[ १८, १०१
चन्द्रप्रमचरितम् सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । आयुषश्च त्रयस्त्रिंशत्सागरोपमसंमिताः ॥१०१।। मुहूर्ता वेदनीयस्य द्वादशैवापरा स्थितिः । स्यानामगोत्रयोरष्टौ शेषाश्चान्तर्मुहूर्तकाः ॥१०२।। कर्मणां यो विपाकस्तु भवक्षेत्राद्यपेक्षया । सोऽनुभागः समाम्नातो जिनः केवललोचनैः ॥१०३।। योगभेदादनन्ता ये प्रदेशाः कर्मणः स्थिताः। सर्वेष्वात्मप्रदेशेषु स प्रदेश इति स्मृतः ॥१०४॥ एवमेष चतुर्भेदभिन्नो बन्धो निरूपितः । संवरस्याधुना रूपं किंचिदुद्योतयिष्यते ।। १०५ ।।
कोटयः' प्रयुतप्रमाः । स्युः ॥१००॥ सप्तति रिति । मोहनीयस्य मोहनं यकर्मणः । सप्ततिः सप्ततिकोटि-कोटिसागरोपमाः । नामगोत्रयो. नामगोत्रकर्मणोः । विंशतिः विशतिकोटि-कोटिसागरोपमाः। आयुषस्तु आयुष्य. कर्मणः । सागरोपमप्रमिता सागरोपमैः प्रमिता संमिता। त्रयस्त्रिशत् त्रिभिरधिका त्रिंशत् । 'द्वाष्टात्रय-' इत्यादिना त्रयस्-आदेशः ॥१०१॥ मुहूर्ता इति । वेदनीयस्य वेदनीयकर्मणः। द्वादशैव द्वाभ्यामधिका दश द्वादशैव । मुहूर्ताः मुहूर्तप्रमाणा । अपरा जघन्या। स्थितिः स्थितिबन्धः । नामगोत्रयोः नाभगोत्रकर्मणोः । अष्टौ मुहूर्ताः। शेषाः प्रकृतयस्तु । अन्तर्मुहूर्तका: अन्तर्मुहूर्तसहिताः ॥१०२। कर्मणामिति । भवक्षेत्राद्यपेक्षया भवस्य नरकादीनां भवस्य क्षेत्रादीनां नरकादिक्षेत्रादीनामपेक्षया विवक्षया, आदिशब्देन कालभावद्रव्याणि ग्राह्याणि । यः । कर्मणां ज्ञानावरणादीनाम् । विपाकः परिणतिः। सः फलादानपरिणामः। केवललोचनैः केवलमेव केवलज्ञानमेव लोचनं येषां तैः । जिनैः जिनेश्वरैरहद्भिः । अनुभागः अनुभागबन्धः । समाम्नातः निरूपितः ॥१०३।। योगेति । योगभेदात् कायवाङ्मनोयोगानां भेदाद् विकल्पात् । कर्मणः ज्ञानावरणादेः । सर्वेषु सकलेषु। आत्मप्रदेष आत्मनो जीवस्य प्रदेशेष । ये। अनन्ताः अनन्तपरिमाणाः । प्रदेशाः । स्थिता: आसिताः। सः प्रदेश इति प्रदेशबन्ध इति । स्मृतः ज्ञात : ॥१०४ । एवमिति । एवं प्रकारेण । चतुर्भेदभिन्नः चतुभिर्भदैभिन्नो युक्तः । एषः अयम् । बन्धः बन्धपदार्थः । निरूपितः प्रकीर्तितः । अधुना इदानीम् । संवरस्य संवरपदार्थस्य । रूपं
उत्कृष्ट स्थिति तीस कोटाकोटी सागर प्रमाण है ।।१०९॥ मोहनीय कर्मकी उत्कृष्ट स्थिति सत्तर कोडाकोड़ी सागर प्रमाण है, नाम और गोत्र इन दो कर्मों की बीस-बीस कोड़ा-कोड़ी सागर प्रमाण है और आयुकर्मकी उत्कृष्ट स्थिति तेतीस सागर प्रमाण है ॥१०१॥ वेदनीय कर्मको जघन्य स्थिति बारह मुहूर्त है; नाम और गोत्र कर्मकी जघन्य स्थिति आठ मुहूर्त है और शेष कर्मो को जघन्य स्थिति अन्तर्मुहूर्त है ॥१०२॥ भव और क्षेत्र आदि (द्रव्य, क्षेत्र, काल, भव और भाव ) की अपेक्षासे कर्मो के विपाकको अनुभाव बन्ध जानना चाहिए । केवलज्ञानी भगवान् जिनेन्द्रदेवने ऐसा निरूपण किया है ॥१०३॥ योगोंकी विशेषताके अनुसार आत्माके सभी प्रदेशोंमें प्रति समय जो कर्मो के अनन्तप्रदेश आकर स्थित होते हैं, इसीको प्रदेशबन्ध कहते हैं ॥१०४॥ इस प्रकार चार भेदोंमें विभक्त बन्धका
१. श 'कोटयः' इति नास्ति । २. श युतप्रमाः। ३. आ आयुषस्य, मूलप्रतिषु च आयुषश्च । ४. मूलप्रतिषु तु संमिताः । ५. श मुहूर्ताः, मुद्रितप्रतो तु मुहूर्तकम् । ६. एष टीकाश्रय पाठः, प्रतिषु तु 'अनुभावः' समुपलभ्यते । ७. श 'आसिता.' इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.