SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४४७ -१८, ६..] अष्टादशः सर्गः सकषायतया जन्तोः कर्मयोग्यनिरन्तरम् । पुद्गलैः सह संबन्धो बन्ध इत्यभिधीयते ॥६६।। विभेदात्प्रकृतिस्थित्योरनुभागप्रदेशयोः । जिनागमनदी स्नातैर्विज्ञेयः स चतुर्विधः ॥६७|| शानदृष्टयावृती वेद्यं मोहनीयायुषी तथा। नामगोत्रान्तरायाश्चेत्यष्टौ प्रकृतयः स्मृताः ॥१८॥ भेदाः पञ्च नव द्वौ च विंशतिश्चाष्टसंयुताः । चतुर्द्विचत्वारिंशद् द्वौ पञ्च तासामनुक्रमम् ।।९९।। ज्ञानावृतिहगावृत्योर्वेदनीयान्तराययोः। सागरोपमकोटीनां कोटयस्त्रिंशत्परा स्थितिः ॥१००। बन्धस्य । हेतवः कारणानि । स्युः भवेयुः ।।९५ । सकषायेति । जीवस्य संसारिजीवस्य । सकषायतया क्रोधादिकषाययुक्ततया । कर्मयोग्यैः कर्मणां योग्यरुचितैः । पुद्गलः पुद्गलपरमाणुभिः । सह साकम् । निरन्तरं सततम् । संबन्धः संयोगः । बन्ध इति बन्धपदार्थ इति । अभिधीयते निगद्यते । डुधाञ् धारणे च कर्मणि लट् ॥१६॥ विभेदादिति । जिनागमनदीस्नातै. जिनागम एव जिनशासनमेव नदी तरङ्गिणी तस्यां स्नातैः स्नानं कृतैः ( निष्णातैः ) मुनीश्वरः। प्रकृतिस्थित्योः प्रकृतिबन्धस्थितिबन्धयोः । अनुभागप्रदेशयोः अनुभागबन्धप्रदेश (बन्ध) योश्च । विभेदात् विकल्पात् । सः बन्धः । चतुर्विधः चत्वारो विधाः प्रकारा यस्य सः । इति विज्ञयः वेदितव्यः ॥९७॥ ज्ञानेति । ज्ञानदृष्टयावृती ज्ञानदृष्टयोनिदर्शनयोरावृती आवरणे । वेद्यं वेदनीयम् । मोहनीयायुषी मोहनीयायुष्यकर्मणी। तथा तेन प्रकारेण । नामगोत्रान्तरायाश्च नामकर्म-गोत्रकर्म-अन्तरायकर्माणि च । इति एवम् । अष्टौ अष्टसंख्याः । प्रकृतयः प्रकृतय इति । स्मृताः ज्ञाताः ॥९८॥ भेदा इति । पञ्च, नव, द्वी च, अष्टसंयुता अष्टभिः संयुता सहिता विंशतिश्च, चतुद्विचत्वारिंशद्वाः (?) चत्वारश्च (दि) चत्वारिंशच्च द्वो च चतुर्द्विचत्वारिंशद्वाः (?), पञ्च । तासां प्रकृतीनाम् । अनुक्रमम् । भेदाः विकल्पाः । स्युः। ज्ञानावरणी. यस्य पञ्च भेदाः । दर्शनावरणीयस्ग नव भेदाः । वेदनीयस्य द्वौ भेदौ । मोहनीयस्य अष्टाविंशतिभेदाः । आयु. ष्यस्य चतुर्भेदाः । नामकर्मणः द्वाचत्वारिंशद्भेदाः । गोत्रस्य द्वौ भेदो। अन्तरायस्य पञ्च भेदा इत्यर्थः ॥१९॥ ज्ञानेति । ज्ञानावृतिदगावृत्योः ज्ञानावरणीयदर्शनावरणीययोः । वेदनोयान्तराययोः वेदनीयकर्मान्तरायकर्मणोः । परा प्रकृष्टा । स्थितिः स्थितिबन्धः । सागरोपमकोटीनां सागरोपमाणां कोटयः तासाम् । त्रिंशत् त्रिंशत्संख्याः सकषाय होनेके कारण जीवका कर्मयोग्य पुद्गलोंसे जो सम्बन्ध होता है, उसे बन्ध कहते हैं ॥१६॥ प्रकृतिबन्ध, स्थितिबन्ध, अनुभागबन्ध और प्रदेशबन्धके भेदसे जैन आगमके निष्णात विद्वानों ने बन्ध चार प्रकारका बतलाया है, जो सभीके लिए जानने योग्य है ॥६७॥ ज्ञानावरण, दर्शनावरण, वेदनीय, मोहनीय, आयु, नाम, गोत्र और अन्तराय-ये आठ प्रकृतिबन्धके भेद हैं ॥९८।। इन ज्ञानावरण आदि आठों कर्मोंके क्रमसे (१) पांच, (२) नौ, (३) दो, (४) अट्ठाईस, (५) चार, (६) बयालीस, (७) दो और (८) पांच भेद हैं-ज्ञानावरणके पांच, दर्शनावरणके नौ, वेदनीयके दो, मोहनीयके अट्ठाईस, आयुके चार, नामके बयालीस, गोत्रके दो और अन्तरायके पाँच ॥९९ ॥ ज्ञानावरण, दर्शनावरण, वेदनीय और अन्तराय इन चार कमों की १. म नदीस्नानः । २. श 'भवेयुः' इति नास्ति । ३. आ डुदान् । ४. श 'प्रकृतयः' इति नास्ति । ५. एष टीकाश्रय. पाठः, प्रतिषु तु 'चत्वारिंशद् द्वौ' इत्येवावलोक्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy