________________
४४६
चन्द्रप्रमचरितम्
[१८,९१
विसंवादनमत्यन्तयोगवक्रत्वमित्यपि । नाम्नोऽशुभस्य विशेयं विपरीतं शुभस्य च ।।६।। विशेयास्तीर्थकृन्नाम्नो दृक्शुद्धयाद्याश्च षोडश । स्वप्रशंसान्यनिन्दादि नीचैर्गोत्रस्य वर्णितम् ॥१२॥ स्वनिन्दान्यप्रशंसादिरुच्चैगोत्रस्य गम्यताम् । दानादिविघ्नकरणमन्तरायस्य कीर्तितम् ।।९३।। इत्यास्रवपदार्थस्य तत्त्वं समुपवर्णितम् । अधुना बन्धतत्त्वस्य स्वरूपं व्याकरिष्यते ॥१४॥ असम्यग्दर्शनं योगा विरतेश्च विपर्ययः । प्रमादाश्च कषायाश्च पञ्च बन्धस्य हेतवः ॥१५॥
॥९०॥ विसंवादनमिति । विसंवादनम् अन्यथाप्रवर्तनम् । अत्यन्तयोगवक्रत्वम् अत्यन्तं योगानां मनोवावकायव्यापाराणां वक्रत्वं कौटिल्यम । इत्यपि एवमपि । अशभस्य अप्रशस्तस्य । नाम्न: नामकर्मणः। विज्ञयम् आस्रवणमिति विज्ञेयम् । विपरीतम् । अविसंवादनं योगसरलत्वं च । शुभस्य प्रशस्तनामकर्मणः । आसव इति ज्ञेयः ।।९१।। विज्ञेया इति । दृक्शुद्धयाद्याश्च दर्शनशुद्धयादयः । षोडश षोडशभावनाः । तीर्थकृन्नाम्नः तीर्थकृन्नामकर्मणः । विज्ञयाः आसवा इति विज्ञेया ज्ञातव्याः । स्वप्रशंसान्यनिन्दादि स्वस्य आत्मनः ॥९२।। (स्वनिन्देति । स्वनिन्दान्यप्रशंसादिः स्वस्यात्मनो निन्दा दोषकीर्तनमन्यस्य प्रशंसा गुणकीर्तनं च तत्प्रभृति । उच्चैर्गोत्रस्य उच्चगोत्राभिधस्य कर्मणः । गम्यताम आस्रवहेतृत्वेन ज्ञायताम ।) दानादिविघ्नकरणं दानादीनाम् आदिपदेन लाभभोगादिग्रहणं,विघ्नकरणं विघ्नस्य प्रत्यहस्य करणं विधानम् । अन्तरायस्य अन्तरायकर्मणः। कीर्तितं प्ररूपितम् ॥९३।। इतीति। इति एवम। आसवपदार्थस्य आसवस्य पदार्थस्या तत्त्वं स्वरूपम् । समुपवणितं कीर्तितम् । अधुना इदानीम् । बन्धतत्त्वस्य बन्धपदार्थस्य । स्वरूपं लक्षणम् । व्याकरिष्यते व्याख्यास्यते । डुकृञ् करणे लुट् ॥९४।। असम्यगिति । असम्यग्दर्शनं पञ्चविधमिथ्यात्वम् । योगाः कायवाङ्मनोयोगाः । विरतेश्च चारित्रस्य । विपर्ययः नाशः । प्रमादाश्च राजकथादिपञ्चदशप्रमादाः । कषायाश्च क्रोधादिचतुष्कषायाश्च । पञ्च पञ्चविधाः।
कारण है । सरागसंयम आदि देवायुके आस्वके कारण हैं ॥९०॥ विसंवाद और योगोंकी अत्यधिक वक्रता अशुभनाम कर्मके आसवके कारण हैं तथा अविसंवाद एवं योगोंकी अत्यधिक सरलता शुभनाम कर्मके आसूवके कारण हैं ॥११॥ दर्शन विशुद्धि आदि सोलह भावनाएं तीर्थङ्कर नाम कर्मके आसूवमें कारण हैं । अपनी प्रशंसा, और, औरोंकी निन्दा आदि नीचगोत्रके आसूवके कारण हैं ॥१२॥ अपनी निन्दा और दूसरोंकी प्रशंसा करना उच्चगोत्रके आसबके कारण हैं । दान आदिमें विघ्न करना अन्तराय कर्मके आसूवमें कारण है ।।९३॥ इस प्रकारसे आसूवके स्वरूपका निरूपण किया, अब बन्धनामक तत्त्वके स्वरूपका निरूपण किया जा रहा है-॥९४।। मिथ्यादर्शन, अविरति, प्रमाद, कषाय और योग ये पाँच बन्धके कारण हैं ॥१५॥
१. अ आ इ क ख ग घ कीर्तिताः। २. म वर्णितम्। ३. अ योगो विरतेश्च, म योगाविरतेश्च । ४. प्रशंसा श्लाघा, अन्यस्य परस्य निन्दादि दोषकथनादिकम। नोचैर्गोत्रस्य नीचगोत्रस्य। वणितम
आस्रवहेतुत्वेन कीर्तितम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org