________________
४४५
.. १८, ९०]
अष्टादशः सर्गः परिदेवनसंतापशोकाक्रन्दवधादयः । असातवेदनीयस्य कर्मणः समनुस्मृताः ॥८॥ सरागसंयमो दानं शौचं क्षान्त्यनुकम्पने । इत्येवमादयो ज्ञेयाः सातवेद्यस्य कर्मणः ॥८६॥ केवलिश्रुतधर्माणां देवस्य च गणस्य च । अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम् ।।८७|| यः कषायोदयात्तीवः परिणामः प्रजायते । चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ॥८८।। नारकस्यायुषो शेयो बह्वारम्भपरिग्रहः माया बहुविधाकारा तैयग्योनस्य कीर्तिताः ।।८।। मानुषस्यावगन्तव्यः स्वल्पारम्भपरिग्रहः ।
सरागसंयमत्वादि देवस्य परिवर्णितम् ॥१०॥ परिदेवनेति । परिदेवनसंतापशोकाक्रन्दवधादयः परिदेवनं विप्रलापः तच्च, संतापः पश्चात्तापः स च, शोको दुःखं स च, आक्रन्द आक्रोशः स च, वधः प्राण्यपरोपणं स च, तथोक्ताः परिदेवन संतापशोकाक्रन्दवधाः ते आदयो येषां ते । असातवेदनीयस्य असातवेदनीयाख्यस्य कर्मणः। आसवा इति । समनुस्मृताः सम्यग्ज्ञाताः ॥८५॥ सरागेति । सरागसंयमः सरागो रागसहितः संयमश्चारित्रम् । दानं लोभाभावः। शौचं क्रोधाद्यभावः । क्षान्त्यनुकम्पने क्षान्तिः क्षमा सा च अनुकम्पनं प्राणिदया तश्च तथोक्ते । इत्येवमादयः एवंप्रभृतयः । सातवेद्यस्य सातवेदनीयाख्यस्य कर्मणः । आसत्रा: । ज्ञेयाः ॥८६॥ केवलीति । केवलिश्रुतधर्माणां केवली अर्हत्परमेष्ठी श्रुतं त-प्रणीतागमो धर्मो रत्नत्रयस्वरूपः तेषाम् । देवस्य चतुर्णिकायामरसमूहस्य । गणस्य चतुःसङ्घस्य । अवर्णवादनम्' अवर्णस्य निन्दाया वादनं वचनम् । केवलिनः कवलाहारत्वम् । श्रुतस्य हिंसाप्रतिपादनम् । धर्मस्य दयाविलोपनम् । देवस्य ।।८७॥ य इति । कषायोदयात् कषायस्य क्रोधादिस्वभावस्योदयाद् विपाकात् । यः । तीवः क्रूरः । परिणामः परिणतिः । प्रजायते समुत्पद्यते । जनैङ् प्रादुर्भावे । सः परिणामः । चारित्रमोहनीयस्य चारित्रमोहस्य । कर्मण. कर्मपरीत पुद्गलस्य । अनुवर्णितः आसवत्वेन वर्णितः ॥८८॥ नारकस्येति । बह्वारम्भपरिग्रहः बहुना बहुत्वेनारम्भेण पापव्यापारेण युक्तः परिग्रहः । नारकस्य नरकसंबन्धस्य । आयुषः आयुष्यस्य । ज्ञेयः आसव इति ज्ञातव्यः । बहुविधाकारा बहुविधेनाकारेण युक्ताः। मायाः मायाकषायाः । तैर्यग्योनस्य तिर्यग्जन्मनः । कीर्तिताः आसवत्वेन निरूपिताः ।।८९॥ मानुषस्येति । अ[स्व]ल्पारम्भपरिग्रहः अ[स्वल्पेन स्तोकेनारम्भेण युक्तः परिग्रह. क्षेत्रादिपरिग्रहः । मानुषस्य मनुष्यायुष्यस्य । अवगन्तव्यः आसव इत्यवगन्तव्यो ज्ञातव्यः । सरागसंयमत्वादि सरागसंयमत्वादि चारित्रत्वादि । देवस्य देवायुष्यस्य । परिवणितं प्ररूपितम् हैं ॥८४॥ परिदेवन, सन्ताप, शोक, आक्रन्दन और वध आदि असातावेदनीय कर्मके आसवके कारण हैं ।।८५॥ सराग संयम, दान, शौच-लोभका परित्याग, क्षान्ति-क्षमा और अनुकम्पा आदि सातावेदनीय कर्मके आसूवके कारण हैं ॥८६॥ केवली, श्रुत, धर्म, देव और सङ्घका अवर्णवाद करना ( झूठे दोष लगाना ) दर्शन मोहनीय कर्मके आसवके कारण हैं ॥८७।। कषायके उदयसे जो तीव्र परिणाम होता है, वह चारित्रमोहनीय कर्मके आसवका कारण है ॥८८॥ बहुत आरम्भ और बहुत परिग्रह नरकायुके आस्वके कारण हैं। नाना प्रकारकी माया तिर्यग्योनिके आसवका कारण है ॥८९॥ थोड़ा आरम्भ और थोड़ा परिग्रह मनुष्यायुके आसूवका
१. एष टीकाश्रयः पाठः, प्रतिषु तु 'अवर्णवदनं' इत्येव दृश्यते । २. = मद्यमांसोपसेवनाद्याघोषणम् । गणस्य च चतुर्विधसङ्घस्य च शूद्रत्वाशुचित्वाद्याविर्भावनम् । दृष्टिमोहनीयस्य दर्शनमोहनीयस्य । कीर्तितं प्रति. पादितम् । आस्रवहेतुन्वेन-इति शेषः । ३. = कर्मपरिणत । ४. = नरकसंबन्धिनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org