SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४४४ चन्द्रप्रभचरितम् [१८, ८० - शरोरेन्द्रियरूपेण प्राणापानादिपर्ययः। प्राणिनामुपकाराय स सर्वेषां प्रवर्तते ॥८॥ विभक्तमित्यजीवस्य रूपमागमवर्णितम् । संप्रत्यास्रवतत्त्वस्य किंचिद्र पं निरूप्यते ।।८१॥ कर्मणामागमद्वारमानवं संप्रचक्षते । स कायवाङ्मनःकर्मयोगत्वेन व्यवस्थितः ।।२।। शुभः पुण्यस्य पापस्य विपरीतः प्रकीर्तितः। सकषायोऽकषायश्च तस्य द्वौ स्वामिनी स्मृतौ ।।८३॥ तत्रासादनमात्सर्यगुरुनिह्नवनादयः। शानावृतिहगावृत्योरास्रवत्वेन वर्णिताः ।।४।। रूपेण छायातपादीनाम, आदिशब्देन उद्योतादीनां रूपेण स्वभावेन । बहुधा बहुभिः प्रकारैः। विभिद्यते विकल्प्यते । भिदृर विदारणे कर्मणि लट् ॥७९॥ शरीरेति । सः पुद्गलः । शरीरेन्द्रियरूपेण शरीराणां देहानामिन्द्रियाणां च रूपेण स्वरूपेण । प्राणापानादिपर्ययैः प्राणापानादिभिरुच्छ्वासनिश्वासादिभि: पर्ययैः परिणामः । सर्वेषां समस्तानाम् । प्राणिनां जीवानाम् । उपकाराय उपकृतये । प्रवर्तते आस्ते । वृतूङ् वर्तने लट् ॥८॥ विभक्तमिति । आगमवणितम आगमेन जिनागमेन वणितं प्रोक्तम् । अजीवस्य अजीवद्रव्यस्य । रूपं स्वरूपम् । इति उक्तप्रकारेण । विभक्तं विभागेन प्रणीतम् । संप्रति इदानीम् । आसवतत्त्वस्य आसवपदार्थस्य । रूपं स्वरूपम् । किञ्चित् ईषत् । निरूप्यते प्रकीर्त्यते । रूप रूपक्रियायां कर्मणि लट् ॥८१॥ कर्मेति । कर्मणां ज्ञानावरणादीनाम् । आगमनद्वारम् आगमनस्य द्वारम् । आसवम् । संप्रचक्षते प्रतिपादयन्ति । सः आसव. । कायवाङ्मनःकर्मयोगत्वेन कायश्च वाक च मनश्च कायवाङमनांसि तेषां कर्म कायवाङमनस्कर्म, कायवाइमनस्कर्मयोगः, तस्य भावः तेन । व्यवस्थितः। 'कायवाङ्मनस्कर्म योगः' इति वचनात् ॥८२॥ शुभ इति । शुभः प्रशस्तासवः । पुण्यस्य शुभकर्मासवस्य । विपरीतः अशुभास्रवः । पापस्य अशुभकर्मासवस्य । इति प्रकीर्तितः प्ररूपितः । सः साम्पराय (यि) क जीवः । तस्य आसवस्य । कषायः क्रोधादि सहितः [ सकषायः ] । अकषायः क्रोधादिरहितः इति । [ तस्य ] । द्वौ द्विसंख्यौ । स्वामिनी कर्तारौ । स्मृतौ ज्ञातौ ॥८३॥ तत्रेति । तत्र आसवे । आसादनमात्सर्यगुरुनिह्नवादयः आसादनं ज्ञानवत्सु विनयाभावः तच्च, मात्सयं तेषु मत्सरत्वं तच्च, गुरुनिह्नवो गुरुषु नहापुरुषेषु निह्नवोऽपलापः स च तथोक्ता आसादनमात्सर्यगुरुनिह्नवा आदको येषां ते। ज्ञानावृतिदृगावृत्त्योः ज्ञानावरणदर्शनावरणयोः। आसवत्वेन आगमत्वेन । वणितः निरूपितः ॥८४॥ में नाना प्रकारसे विभक्त हो जाता है ॥७९॥ शरीर, इन्द्रिय और श्वासोच्छ्वास आदिके रूपमें वह पुद्गल सभी प्राणियोंके उपकारमें लगा हुआ है ।।८०॥ इस प्रकारसे अजीव तत्त्वके भेदों और उनके स्वरूपका आगमानुसार वर्णन किया, अब थोड़ा-सा आसव तत्त्वका निरूपण किया जा रहा है ॥८१॥ कर्मो के आनेके द्वारको आसव कहते हैं, वह मन, वचन और कायकी चंचलता ( योग ) से होता है ॥८२॥ शुभ योग पुण्यासवका और अशुभ योग पापासवका कारण है । उस आसूवके स्वामी दो हैं-(१) सकषाय जीव और (२) अकषाय जोव । सकषाय जीवोंके साम्परायिक आसूव होता है और अकषाय जीवोंके ईर्यापथ आस्व होता है ॥८३॥ आसादन, मात्सर्य और गुरुका नाम छिपाना आदि, ज्ञानावरण और दर्शनावरणके आसबके कारण १. म विरक्त । २. आ श अस्य श्लोकस्य व्याख्या नास्ति । ३. = क्रोधादिकषायसहितः। ४. - आस्रवस्य । ५. = आदौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy