________________
चन्द्रप्रभचरितम्
किनरादिप्रभेदेन व्यन्तराश्चाष्टधा स्मृताः । सूर्यचन्द्रादिभेदेन' ज्योतिष्काः पंचधा स्मृताः ॥ ४९ ॥ वैमानिका द्विधा प्रोक्ताः कल्पातीताश्च कल्पजाः । सौधर्मादिषु कल्पेषु कल्पजाः परिकीर्तिताः ॥ ५० ॥ नवभैवेयकादिस्थाः कल्पातीताः प्रवर्णिताः । सर्वार्थसिद्धिपर्यन्ताः समृद्धावधिचक्षुषः ॥ ५१ ॥ तत्रासुरकुमाराणां प्रमाणं पंचविंशतिः । धनूंषि दश चापानि शेषाणां भवनक्षिताम् ॥५२॥ दशसप्तधनुर्माना व्यन्तरा' ज्योतिषामराः । सौधर्मेशानयोर्मानं सप्त हस्ता दिवौकसाम् ||१३|| सनत्कुमारमाहेन्द्रकल्पयोः षट् प्रकीर्तिताः । ब्रह्मकापिष्ठयोः पञ्च तन्मध्मगतयोरपि ॥ ५४ ॥
४३८
किंनरेति । व्यन्तराश्च व्यतरामराश्च । किंनरादिप्रभेदेन किंनरादीनां प्रभेदेन विभागेन । अष्टधा अष्टभि: प्रकारैः । स्मृताः ज्ञाताः । ज्योतिष्काः ज्योतिष्कदेवाः | सूर्यचन्द्रादिभेदेन सूर्यचन्द्रम:प्रमुखानां भेदेन विकल्पेन । पञ्चधा पञ्चभिः प्रकारैः । स्मृताः ज्ञाताः ||४९ || वैमानिका इति । वैमानिकाः कल्पामराः । कल्पातीताश्च कल्पातीतदेवाश्च । कल्पजाः सौधर्मादिकल्पजनिताः । द्विधा द्वाभ्यां प्रकाराभ्याम् । प्रोक्ताः निगदिताः । सौधर्मादिषु सौधर्मप्रभृतिषु । कल्पेषु स्वर्गेषु । कल्पजा इति । परिकीर्तिताः प्रोक्ताः ॥ ५० ॥ नवेति । नवग्रैवेयकादिस्थाः नवग्रैवेयकादिषु विमानेषु स्थाः स्थिताः । सर्वार्थसिद्धिपर्यन्ताः सर्वार्थसिद्धिरेव पर्यन्तोऽवसानं येषां ते । समृद्धावधिचक्षुषः समृद्धं संपूर्णमवधिरेवावधिज्ञानमेव चक्षुर्येषां ते । कल्पातीताः कल्पातीतामराः । प्रकीर्तिताः प्रोक्ताः ॥ ५१ ॥ तत्रेति । तत्र चतुणिकाये । भवनक्षितां भवनवासिनाम् । असुरकुमाराणाम् । पञ्चविंशतिः पञ्चभिरधिका विशतिः पञ्चविंशतिः । धनूंषि चापानि । प्रमाणं प्रमितिः । शेषाणाम् अवशिष्टानाम् । दश कार्मुकाणि परिकीर्तितानि ॥ ५२ ॥ दशेति । व्यन्तराः व्यन्तरदेवाः । ज्योतिषामराः ज्योतिष्कदेवाः । दशसप्तधनुर्मानाः दश च सप्त च तथोक्तानि दशसप्तघनूंष्येव मानं प्रमाणं येषां ते स्युः । सौधर्मेशानयोः प्रथमद्वितीयकल्पयोः । दिवौकसां देवानाम् । मानं प्रमाणम् । सप्त हस्ताः स्युः || ५३ ॥ सनत्कुमारेति । सनत्कुमारमाहेन्द्रकल्पयोः सनत्कुमार कल्पमाहेन्द्रकल्पयोः । षट् षड् हस्ताः । प्रकीर्तिताः भाषिताः । ब्रह्मकापि भवनवासी देव दस प्रकार के होते हैं- असुरकुमार, नागकुमार आदि ||४८ || किन्नर आदिके भेदसे व्यन्तर आठ प्रकारके होते हैं, तथा ज्योतिष्क देव सूर्य और चन्द्र आदिके भेदसे पाँच प्रकार ||४९ || वैमानिक देव दो प्रकारके कहे गये हैं- कल्पवासी और कल्पातीत । सोधर्म आदि कल्पों में रहनेवाले देव कल्पवासी कहे जाते हैं ॥ ५० ॥ नवग्रैवेयक आदिमें स्थित देव कल्पातीत कहलाते हैं, जिनमें प्रथम ग्रैवेयकसे सर्वार्थसिद्धि तक के देव गिने जाते हैं । इन सब - का अवधिज्ञान उत्तरोत्तर प्रबल होता है । यही ज्ञान उनका नेत्र है ||५१ ॥ भवनवासी देव दस प्रकार के होते हैं । उनमें असुर कुमारोंके शरीरकी ऊँचाई पच्चीस धनुष है और शेष नौके शरीरकी ऊँचाई दस धनुष ॥५२॥ व्यन्तरों और ज्योतिष्क देवोंके शरीरकी ऊँचाई सत्रह धनुष है । सौधर्म और ऐशान स्वर्गों में देवोंके शरीरकी ऊँचाई सात हाथ ( अरत्नि ) है ||५३॥ सनत्कुमार और माहेन्द्र स्वर्गों में देवोंके शरीरकी ऊंचाई छह हाथ ( अरत्नि ) है । ब्रह्म,
[ १८,४९
१. अ आ इ क ख ग घ सूर्याचन्द्रा । २. अ क ख ग व परिवर्णिताः । ३. अ आ इ व्यन्तरज्योति । ४. = तिष्ठन्तीति नवग्रैवेयकादिस्थाः । ५. श येषां तेषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,