SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः -१८,१८] आर्याः षट्कर्मभेदेन षोढा भेदमुपागताः । ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ।।४३।। मिथ्यासासादनदृशौ' मिश्राविरतिदर्शनौ । प्रदेशविरतस्तस्मात्प्रमत्तविरतस्ततः॥४४।। स्यादप्रमत्तविरतस्ततोऽपूर्वक्रियः स्मृतः । अनिवृत्तिक्रियस्तस्मात्ततः सूक्ष्मः प्रकीर्तितः ॥४५॥ शान्तक्षीणकषायौ च सयोगः केवली स्मृतः। अयोगकवली चेति गुणस्थानान्यनुक्रमम् ॥४६।। इति मानुषभेदेन कृता जीवनिरूपणा । सांप्रतं देवभेदेन कुर्वे किंचित्प्रपंचनम् ।।४।। चतुर्णिकायभेदेन स्मृता देवाश्चतुर्विधाः। असुराहिकुमाराद्या दशधा तेषु भावनाः ।।४।। म्लेच्छाः म्लेच्छमानवाः । पञ्चधा पञ्चप्रकारैः । परिकीर्तिताः परिभाषिताः ॥४२॥ आर्या इति । षट्कर्मभेदेन षण्णां कर्मणां कृत्यानां भेदेन विकल्पेन । आर्याः आर्यखण्डजातमनुष्याः । षोढा षड्भिः प्रकारैः। भेदं विकल्पम् । उपागताः । पुनः पश्चात् । गुणस्थानप्रभेदेन गुणस्थानप्रभेदेन गुणस्थानानां प्रभेदेन विभागेन । चतुर्दशधा चतर्दशप्रकारैः । स्यः भवेयः । लिङ॥४३॥ मिथ्येति । मिथ्यासासादनदशी मिथ्यादष्टिसासादनसम्यग्दृष्टी। मिश्राविरतदर्शनौ मिश्रपरिणाम्यसंयतसम्यग्दृष्टी। तस्मात् । प्रदेश विरतः देशसंयतः। ततः तस्मात् । प्रमत्तविरतः प्रमत्तसंयतः ॥४४॥ स्यादिति । ततः परम् । अप्रमत्तविरतः अप्रमत्तसंयतः । स्यात् भवेत् । अपूर्वक्रियः अपूर्वगुणस्थापकः । स्मृतः ज्ञातः । ततः तस्मात् परम् । अनिवृत्तिक्रियः अनिवृत्तिकरणः । ततः परम् । सूक्ष्मः सूक्ष्मसाम्परायः । प्रकीर्तितः प्रोक्तः ॥४५॥ शान्तेति । शान्तक्षीणकषायो च उपशान्तकषायक्षीणकषायो च। सयोगः योगसहितः । केवली सयोगकेवली भगवान् । अयोगकेवली चेति अयोगिभगवान् चेति । अनुक्रमम् अनुक्रमेण । गुणस्थानानि चतुर्दशगुणस्थानभेदाः । स्युः ॥४६॥ इतीति । इति एवम् । मानुषभेदेन मानुषाणां भेदेन विकल्पेन । जीवनिरूपणा जीवस्य जीवतत्त्वस्य निरूपणा । कृता विहिता। सांप्रतम इदानीम् । देवभेदेन देवानां भेदेन विकल्पेन । किंचित ईषत् । प्रपञ्च विवरणम् । कुर्वे करोमि । लट् ॥४७॥ चतुर्णिकायेति । चतुर्णिकायभेदेन चतुर्णा निकायानां समूहानां भेदेन विकल्पेन । देवाः सुराः । चतुर्विधाः चतुःप्रकाराः । स्मृता: ज्ञाताः। तेषु देवेषु । असुराहिकुमाराद्याः असुरकुमारनागकुमारमुख्याः । भावनाः भवनजाताः । दशधा दशभिः प्रकारैः । प्रोक्ताः ॥४८॥ अतः उनके खण्डोंकी दृष्टिसे म्लेच्छ मनुष्य भी पांच प्रकारके कहे गये हैं ।।४२।। असि आदि छह कर्मोंकी दृष्टि से आर्य मनुष्य छह प्रकारके होते हैं, और मिथ्यात्व आदि चौदह गुणस्थानोंके भेदकी दृष्टिसे चौदह प्रकारके ।।४३॥ मिथ्यादृष्टि, सासादन सम्यग्दृष्टि, मिश्र, अविरत सम्यग्दृष्टि, देशविरत, प्रमत्तविरत, अप्रमत्तविरत, अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय, उपशान्तकषाय, क्षीणकषाय, सयोगकेवली और अयोगकेवली-ये क्रमसे चौदह गुणस्थान होते हैं ॥४४-४६॥ इस प्रकार मनुष्योंके भेदकी दृष्टिसे जीवोंका निरूपण किया, अब देवोंके भेदकी दृष्टिसे कुछ विस्तार पूर्वक जीवोंका निरूपण करते हैं ॥४७॥ निकायोंके भेदकी दृष्टि से देव चार प्रकारके होते हैं-भवनवासी, व्यन्तर, ज्योतिष्क और वैमानिक । इनमेंसे १. म विधौ मिश्राः । २. म क्रियास्तम्भात् । ३. म शान्ततीक्ष्ण । ४. आ इ नुक्रमात् । ५. आ केवलिभगवान् । ६. आ विसरणम् । ७. = कथिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy