________________
चन्द्रप्रमचरितम्
[१८,१८
पञ्चमी दुःषमा ज्ञेया षष्ठी चात्यन्त दुःषमा । प्रत्येकमिति षड्भेदास्तयोरुक्ता द्वयोरपि ॥३८।। सागरोपमकोटोनां चतस्रः कोटयः स्मृताः। पूर्वा तिस्रो द्वितीया च द्वे तृतीया प्रकीर्तिता ॥३९॥ द्वाचत्वारिंशता वर्षसहस्रः परिवर्जिता। एका कोटी च कोटोनां चतुर्थी परिकीर्तिता ॥४०॥ पञ्चमी च सहस्राणि वर्षाणामेकविंशतिः । षष्ठी तावत्प्रमाणेव जिनैः कालकलाः स्मृताः ।।४।। म्लेच्छाः खण्डप्रभेदेन पञ्चधा परिकीर्तिताः । म्लेच्छखण्डा यतः पञ्च कथ्यन्ते कर्मभूमिषु ॥४२॥
सुषमेत्यर्थः । सुषमाद्या सुषमैवाद्ये प्रथमे यस्याः सा दुःषमा सुषमादुःषमेत्यर्थः । सुषमान्ता च सुषमैवान्तेऽवसाने यस्याः सा दुःषमासुषमेत्यर्थः ॥३७॥ पञ्चमीति । पञ्चमी पञ्चानां पूरणा । दुःषमा दुःषमेति । ज्ञेया ज्ञातव्या । षष्ठी षण्णां पूरणा षष्ठी । 'षट् कति कतिपयात् प्थट्' इति प्थट्-प्रत्ययः । अत्यन्तदुःषमा अति. दुषमेत्यर्थः । द्वयोः द्विसंख्ययोः । तयोः उत्सपिण्यवसर्पिण्योः । प्रत्येकमपि पृथगपि । षड्भेदाः षड्विकल्पाः । उक्ताः उदाहृताः।।३८॥ सागरेति । पूर्वा सुषमसुषमा । सागरोपमकोटोनां चतस्रः कोटयः-चतस्रः सागरोपमकोटीकोटयः- इत्यर्थः । स्मृताः । आगमज्ञैरिति शेषः । द्वितीया सुषमा। तिस्रः तिस्र: सागरोपमकोटीकोटयः। तृतीया च सुषमदुःषमा च । द्वे द्वे सागरोपमकोटीकोटयौ । प्रकीर्तिता प्रतिपादिता ॥३९॥ द्वे चतुर्थी चतुर्णा परणा चतुर्थी दु:षमासुषमा। द्वाचत्वारिंशता द्वाभ्यामधिकया चत्वारिंशता । वर्षसहस्रः वर्षाणां सहस्राणि तैः । परिवजिता रहिता। कोटीनां सागरोपमानां कोटीनां कोटिसंख्यानाम् । एका कोटि: एकसागरोपमकोटिकोटिरित्यर्थः । परिकीर्तिता प्रोक्ता ॥४०॥ पञ्चमीति । पञ्चमी पञ्चमी च दुःषमा । वर्षाणां संवत्सराणाम् । एकविंशतिः एकाधिका विंशतिः । सहस्राणि दशशतानि । षष्ठी अतिदुःषमा । तावत्प्रमाणव तावन्मात्रं प्रमाणं यस्याः सा, एकविंशतिसहस्रवर्षाणोत्यर्थः । जिनैः जिनेश्वरैः । कालकलाः कालभेदः । स्मृता ज्ञाताः११ ॥४१॥ म्लेच्छा इति । कर्मभूमिषु कर्मयुक्त भूमिषु । यतः यस्मात् । म्लेच्छखण्डाः । पञ्च पञ्चसंख्याः । कथ्यन्ते प्रोच्यन्ते । कथ वाक्यप्रबन्धे लट् । खण्डप्रभेदेन खण्डानां विभागानां प्रभेदेन विकल्पेन
जाता है । ऊपर जो क्रम दिया गया है, वह अवसर्पिणीका हैं, उत्सपिणीका इससे विपरीत हैदुषमा-दुःषमा, दुःषमा, दुःषमा-सुषमा, सुषमा-दुःषमा, सुषमा और सुषमा-सुषमा ॥३७-३८॥ सुषमा-सुषमा, जो सबसे पहली है, चार कोड़ाकोड़ी सागरकी है, दूसरी सुषमा तीन कोड़ाकोड़ी सागरकी है, तीसरी सुषमा-दु:षमा दो कोडाकोड़ी सागरकी है, चौथी दुःषमा-सुषमा बयालीस हजार वर्ष कम कोडाकोड़ी है, पांचवीं दुःषमा इक्कीस हजार वर्षकी है और छठी दुःषमा-दुःषमा भी इक्कीस हजार वर्षको है। इस तरह जिन भगवान्ने कालकी कलाओंका वर्णन किया है ॥३९-४१॥ चूंकि भरत आदि कर्मभूमियोंमें पांच म्लेच्छ खण्ड होते हैं,
१. म परिकीर्तिता। २. म म्लेच्छखण्डौं । ३. क ख ग घ म्लेच्छाः खण्डा । ४. श दुक्षमा दुक्षमेति । ५. श दुक्षमा अतिदुक्षमा । = दुःषमादु.षमा-इति यावत् । ६. श 'द्वयो :' इति नोपलभ्यते । ७. आ श अस्य श्लोकस्य व्याख्या नास्ति । ८. श कोटीत्यर्थः । ६. श दुःक्षमा । १०. = कालकलाः कालभेदाः । ११. = स्मृताः ज्ञाताः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org,