SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः ४३५ - १८, ३७] आर्यम्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजाः। भरतादिभिदा पञ्चदश स्युः कर्मभूमयः ॥३२॥ शतानि पञ्च चापानां कर्मभूमिनिवासिनाम् । पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तितः ।।३३।। पूर्वकोटिप्रमाणं च तेषामायुः प्रकीर्तितम् ।। वृद्धिहासौ विदेहे न भरतैरावतेष्विव ॥३४॥ भरतैरावते वृद्धिहासिनी कालभेदतः उत्सर्पिण्यवसर्पिण्यौ कालभेदावुदाहृतौ ॥३५॥ सागरोपमकोटीनां दश कोटयोऽवसर्पिणी। प्रमाणं तावदेवाहुरुत्सर्पिण्याश्च तद्विदः ॥३६।। सुषमोपपदा' प्रोक्ता सुषमा सुषमा ततः । दुःषमा सुषमाद्यान्या सुषमान्ता च दुःषमा ॥३७॥ निष्पन्नम् । भुञ्जते अनुभवन्ति । भुज पालनाभ्यवहारयोः लट् ॥३१॥ आर्येति । आर्यभ्लेच्छप्रभेदेन आर्याणां म्लेच्छानां प्रभेदेन विकल्पेन । कर्मभूमिजाः कर्मभूमिजनिताः । मनुष्याः। द्विविधाः द्वे विधे प्रकारौ येषां ते । भरतादिभिदा भरतादीनां भिदा भेदेन । आदिशब्देनैरावतविदेहयोर्ग्रहणम् । कर्मभूमयः कर्मभुवः । पञ्चदश पञ्चभिरधिका दश । स्युः भवेयुः । लिङ्॥३२॥ शतानीति । कर्मभूमिनिवासिनां कर्मभूमिषु निवासिनां निवसताम् । उत्कृष्टवृत्तितः उत्कृष्टवर्तनात् । मानं प्रमाणम् । पञ्चविंशतियुक्तानि पञ्चभिरधिकया विंशत्या युक्तानि सहितानि । चापानां धनुषाम् । पञ्चशतानि प्रोक्तानि ॥३३॥ पूर्वेति । तेषां कर्मभूमिजमनुष्याणाम् । आयुः जीवनम् । पूर्वकोटिप्रमाणं पूर्वकोटिरेव प्रमाणं प्रमितिर्यस्य तत् । प्रकीर्तितं निगदितम् । भरतैरावतेष्विव भरतेषु ऐरावतेषु क्षेत्रेषु इव । विदेहे विदेहक्षेत्रे । वृद्धिह्रासौ वृद्धिहानी । न न भवतः ॥३४॥ मरतेति । कालभेदतः कालस्य भेदतो विभागतः । भरतैरावते भरतैरावतक्षेत्रे । वृद्धिह्रासिनी वृद्धिहानिमती। उत्सपिण्यवसपिण्यो उत्सपिणी चावसर्पिणी च तथोक्ते। कालभेदो कालविभागौ । उदाहृतौ प्रकीर्तितौ ॥३५॥ सागरेति । सागरोपमकोटीनां सागरोपमानां कोटीनाम् । दशकोटयः दशकोटिकोटय इत्यभिप्रायः । अवसर्पिणी भवतीति । तद्विदः कालभेदज्ञाः । उत्सपिण्याश्च । तावदेव दशकोटिकोट्य एव । प्रमाणम् । आहुः ब्रुवन्ति । 'ब्रुवस्तिप्पञ्चत.-' इति झेरुसादेशः तद्योगे ब्रुव आह-इत्यादेशः ॥३६॥ सुषमेति । सुषमोपपदा सुषमैवोपपदं यस्याः सा सुषमा इति । प्रोक्ता निगदिता। सुषमासुषमा-इत्यर्थः । ततः पुनः । अन्या इतरा । सुषमा वहाँपर मद्यांग आदि दस प्रकारके कल्पवृक्षोंसे उत्पन्न हुए भोगोंको भोगते हैं ॥३१॥ आर्य और म्लेच्छके भेदसे, कर्मभूमियोंमें उत्पन्न हुए मनुष्य दो-दो प्रकारके होते हैं । भरत आदिके भेदसे कर्मभूमियाँ पन्द्रह होती हैं ॥३२॥ कर्मभूमियोंमें निवास करनेवाले मनुष्योंके शरीरकी ऊंचाईका उत्कृष्ट प्रमाण पांच सौ पच्चीस धनुष है ॥३३॥ कर्मभूमिके मनुष्योंकी उत्कृष्ट आयुका प्रमाण एक पूर्व कोटि कहा गया है । भरत और ऐरावत क्षेत्रोंकी तरह विदेह क्षेत्रमें वृद्धि और ह्रास नहीं होते ॥३४॥ कालभेदके कारण भरत और ऐरावतमें वृद्धि और ह्रास होते हैं । उत्सर्पिणी और अवसर्पिणी ये दो कालके भेद कहे गये हैं ॥३५॥ अवसर्पिणी दस कोडाकोड़ी सागरकी होती है, और उत्सर्पिणीका प्रमाण भी उतना ही है, जितना अवसर्पिणीका है-दस कोड़ाकोड़ी सागर॥३६।। सुषमा-सुषमा, सुषमा, सुषमा-दुःषमा, दुःषमा-सुषमा, दुःषमा और दुःषमा-दुःषमाये छह भेद अवसर्पिणी और उत्सपिणो दोनोंके कहे गये हैं। हाँ, इनके क्रममें अन्तर पड़ १ अ आ इ. सुखमोपपदा । २. आ लेङ् । ३. = प्रकर्षतः । ४. श विभागेन । ५. श कीर्तितो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy