________________
चन्द्रप्रभचरितम्
तिर्यग्गतिप्रभेदस्य क्रमोऽयं संप्रदर्शितः । कीर्त्यते सांप्रतं केचिद्भेदा नरगतेरपि ||२७|| भोगकर्मभुवो भेदान्मानुषा द्विविधाः स्मृताः । देवकुर्वादिभेदेन स्युस्त्रिंशद्धोगभूमयः ||२८|| मध्योत्तमजघन्येन ताश्च त्रेधा व्यवस्थिताः । षट्सहस्राणि चापानामुत्तमासु नृणां प्रमा ॥२६॥ मध्यमासु च चत्वारि द्वे जघन्यासु कीर्तिते । त्रीणि पल्योपमान्यायुद्धे चैकं तास्वनुक्रमात् ||३०|| मद्याङ्गादिभिदाभिन्नं दशकल्पद्रुमोद्भवम् ४ । पात्रदानप्रभावेण भुञ्जते तत्र ते फलम् ||३१||
४३४
[ १८, २७
पञ्चेन्द्रियेषु पञ्चेन्द्रियजीवेषु । पूर्वाणां 'पूर्व' -- प्रतीतानाम् । वर्षाणाम् । एका कोटिरिति । परिकीर्तिता प्रभाषिता ॥ २६ ॥ तिर्यग्गतीति । तिर्यग्गतिप्रभेदस्य तिरश्चां तिर्यग्जीवानां गतेः प्रभेदस्य विकल्पस्य । अयम् एषः । क्रमः परिपाटी । संप्रदर्शितः प्रकीर्तितः । सांप्रतम् इदानीम् । नरगतेरपि नराणां मनुष्याणां गतेरपि भवस्यापि । केचित् कियन्तः । भावाः विकल्पाः । कीर्त्यते प्रदृर्श्यन्ते । कृ शब्दे कर्मणि लट् ॥२७॥ भोगेति । मानुषाः मनुष्याः । भोगकर्मभुवः भोगभूश्च भोगभूमिश्च कर्मभूश्च कर्मभूमिश्च तयोः । भेदात् विकल्पात् । द्विविधाः द्विप्रकारकाः । स्मृताः । देवकुर्वादिभेदेन देवकुरुप्रभृतिभेदेन । भोगभूमयः । त्रिंशत् स्युः ॥२८॥ मध्येति । मध्योत्तमजघन्येन मध्येन मध्यमेनोत्तमेनोत्कृष्टेन जघन्येन चरमेण । भेदेन । ताश्च भोगभूमयः । त्रेधा त्रिधा - त्रिभिः प्रकारै: । ' प्रकारे धा' (?) [ 'एधाच्च '] इति धा- प्रत्ययः । व्यवस्थिताः निश्चिताः । उत्तम उत्तमभोग भूमिषु । नृणां मनुष्याणाम् । प्रमा- प्रमाणम् । चापानां धनुषाम् । षट् सहस्राणि कीर्तितानि ॥२९॥ मध्यमेति । मध्यमासु च मध्यमभोगभूमिषु । चत्वारि चतुःसहस्राणि । जघन्यासु जघन्यभोगभूमिषु । द्वे द्विसहस्रे । कीर्तिते प्रकाशिते । तासु भोगभूमिषु । अनुक्रमात् आनुपूर्व्यात् । आयुः श्रायुष्यम् । त्रीणि पत्योपमानि त्रिपल्योपमानि । द्वे च द्विपल्योपमे च । एकम् एकपल्योपमम् । कीर्तितम् ||३०|| मद्येति । ते भोगभूमिमानवाः । तत्र भोगभूमिषु । पात्रदानप्रभावेण पात्राणां दानानां प्रभावेण माहात्म्येन । मद्याङ्गादिभिदा मद्याङ्गादीनां भिदा भेदेन । भिन्नदशकल्पद्रुमोद्भवं भिन्नैविकल्पितैर्दशभिः कल्पद्रुमैरुद्भवमुत्पन्नम् । फलं
मासकी है और पञ्चेन्द्रिय जीवोंकी उत्कृष्ट आयु एक पूर्व कोटो की ||२६|| यह तिर्यग्गतिके भेदों का क्रम दिखलाया है, अब मनुष्य गतिके भी कुछ भेदोंकी चर्चा की जा रही है ||२७|| भोगभूमि और कर्मभूमि के भेदसे मनुष्य दो प्रकार के होते हैं । देवकुरु और उत्तरकुरु आदि भेदों की दृष्टि भोगभूमियाँ तीस हैं ||२८|| उत्तम, मध्यम और जघन्य इन भेदोंकी दृष्टिसे भोगभूमियाँ तीन प्रकारकी हैं । उत्तम भोगभूमिमें मनुष्योंको ऊँचाई छह हजार धनुष है ||२९|| मध्यम भोगभूमि में मनुष्यों के शरीरकी ऊँचाई चार हजार धनुष है और जघन्य भोगभूमियों में मनुष्यों के शरीरकी ऊँचाई दो हजार धनुष है ||३०|| पात्रदान के प्रभाव से भोगभूमियों में उत्पन्न हुए जीव
१. मतिर्यगादि ॥ २. म क्रमात् त्रेधा । ३. अ आ इ कीर्त्यते । ४. क ख ग घ कल्पतरूद्भवम् । ५. अ आ इ प्रभावेन । ६. आ कोटीति । ७. श 'केचित्' इति नास्ति । ८. आश अस्य श्लोकस्य व्याख्या नोपलभ्यते । ९. श उक्तभोगं । १०. श आनुपूर्व्याः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org,