________________
- १८, २६] अष्टादशः सर्गः
४३३ स्पर्शनं रसनं घ्राणं चतुः श्रोत्रमितीन्द्रियम् । वर्धनीयं क्रमादेतेष्वेकैकं द्वीन्द्रियादिषु ।।२२।। संवत्सरसहस्राणि द्वाविंशतिरुदाहृतम् । पृथिवीकायिकेष्वायुरुत्कर्षेण जिनागमे ।।२३।। तान्यष्कायिषु सप्त स्युस्त्रीणि मारुतकायिषु । वनस्पतौ दशोक्तानि तेजःकायिष्वहस्त्रयम् ।।२४।। वर्षाणि द्वादशैवायुर्वीन्द्रियाणां प्रकीर्तितम् । दिनान्यकोनपञ्चाशत्त्रीन्द्रियषु शरीरिषु ।।२५।। षण्मासप्रमितं प्रोक्तं चतुरिन्द्रियदेहिषु ।
पञ्चेन्द्रियेषु पूर्वाणां कोट्येका परिकीर्तिता ॥२६॥ द्वीन्द्रियजीवे । यथागमम् आगममनतिक्रम्य । योजनानि । द्वादशैव द्वाभ्यामधिकानि दश द्वादश तान्येव । स्युः भवेयुः । अस भुवि लिङ्। त्रोन्द्रिये त्रीन्द्रियजीवे । त्रिकोशं त्रयाणां क्रोशानां समाहारः त्रिकोशम् । चतुरिन्द्रिये चतुरिन्द्रियजीवे। योजनम् एकयोजनम् । प्रोक्तं निगदितम् ॥२१॥ स्पर्शनमिति । स्पर्शनं स्पर्शनमिति । रसनं रसनमिति । घ्राणं घ्राणमिति । चक्षुः चक्षुरिति । श्रोत्रं श्रोत्रमिति । इन्द्रियं भवेत् । द्वीन्द्रियादिषु द्वीन्द्रियादिजीवेषु । एतेषु उत्सेधोक्तेषु । क्रमात् क्रमेण । एकैकम् । वीप्तायां द्विः । वर्धनीयम् ऐधितव्यम् ॥२२॥ संवत्सरेति । जिनागमे जिनशासने । पृथिवोकायिकेषु पृथिवीकायिकजीवेषु । उत्कर्षेण उत्कृष्टेन । आयुः आयुष्यम् । द्वाविंशतिः द्वाभ्यामधिका विंशतिस्तथोक्ता। संवत्सरसहसाणि संवत्सराणां सहसाणि दशशतानि । उदाहृतं निगदितम ॥२३॥ तानीति । अप्कायिष अप्कायिकेष । सप्त सप्तवर्षसहसाणि । मारुतकायिष वायकायिकेष । त्रीणि त्रीणि वर्षसहसाणि । वनस्पती वनस्पतिकायिके । दश दशवर्षसहस्राणि । तेजःकायिषु तेजस्कायिकेषु । अहस्त्रयं त्रीणि रात्रिन्दिवानि । उत्कृष्टा स्थितिरिति शेषः ॥२४॥ वर्षेति । द्वीन्द्रियाणां द्वोन्द्रिय जीवानाम् । द्वादशैव । वर्षाणि संवत्सराः । आयुः आयुष्यम् । प्रकीर्तितं प्रभाषितम् । त्रीन्द्रियेषु श्रीन्द्रिययुतेषु । शरीरिषु प्राणिषु । एकोनपञ्चाशत् एकरहिता पञ्चाशत् । दिनानि दिवसाः। प्रोक्तानि ॥२५॥ षण्मासेति । चतुरिन्द्रियदेहिषु चतुरिन्द्रियेषु देहिषु जीवेषु । षण्मासप्रमितं षण्मासैःप्रमितम् । आयुः। प्रोक्तं निगदितम् । शरीरकी उत्कृष्ट अवगाहनाका प्रमाण बारह योजन है, इससे अधिक नहीं, जैसा कि आगममें प्रतिपादित है। त्रीन्द्रिय जीवोंके शरीरकी उत्कृष्ट अवगाहनाका प्रमाण तीन कोश है और चतुरिन्द्रिय जीवके शरीरको उत्कृष्ट अवगाहनाका प्रमाण एक योजन है ॥२१॥ स्पर्शन, रसना, घ्राण, चक्षु और श्रोत्र ये पाँच इन्द्रियाँ हैं, इनमें-से क्रमसे एक-एक इन्द्रिय, द्वीन्द्रिय आदि जीवोंमें बढ़ानी चाहिए। एकेन्द्रिय जीवोंमें केवल स्पर्शन इन्द्रिय होती है, द्वीन्द्रिय जीवोंमें स्पर्शन और रसना, त्रीन्द्रिय जीवोंमें स्पर्शन, रसना और घ्राण, चतुरिन्द्रिय जीवोंमें स्पर्शन, रसना, घ्राण और चक्षु तथा पञ्चेन्द्रिय जीवोंमें स्पर्शन, रसना, घ्राण, चक्षु और श्रोत्र ॥२२॥ पृथिवीकायिक जीवोंको उत्कृष्ट आयु जिनागममें बाईस हजार वर्षको बतलायी गयी है ॥२३॥ जलकायिक जीवोंकी उत्कृष्ट आयु सात हजार वर्षकी; वायुकायिक जीवोंकी उत्कृष्ट आयु तीन हजार वर्षकी, वनस्पतिकायिक जीवोंको उत्कृष्ट आयु दश हजार वर्षको और तेजस्कायिक जीवोंकी उत्कृष्ट आयु केवल तीन दिनकी है ॥२४॥ द्वीन्द्रिय जीवोंकी उत्कृष्ट आयु बारह वर्षकी और त्रीन्द्रिय जीवोंको उत्कृष्ट आयु एक कम पचास दिनकी है ।।२५।। चतुरिन्द्रिय जीवोंकी उत्कृष्ट आयु छह
१. म तान्यकायिषु । २. आ लेङ् । ३. आ वर्धमानीयम् । ४. = प्रकर्षेण । ५. आ श अस्य पद्यस्य व्याख्या नोपलभ्यते । ६. श त्रीन्द्रियजीवेषु ।
For Private & Personal Use Only
Jain Education Internal
www.jainelibrary.org