SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ [१८, १६ - ४३२ चन्द्रप्रमचरितम् इति नारकभेदेन कृता जीवस्य वर्णना। तिर्यग्गतिकृतो भेदः सांप्रतं वर्णयिष्यते ।।१६॥ त्रसस्थावरभेदेन तिर्यग्जीवो द्विधा स्मृतः । तत्र द्वीन्द्रियमारभ्य त्रसः पञ्चेन्द्रियावधि ।।१७।। स्थावराः कायभेदेन पञ्चधा परिकीर्तिताः। पृथिवीकायिकाः केचित्केचिदकायिकाः स्मृताः॥१८॥ तेजःकायभृतः केचिदपरे वायुकायिकाः । स्युर्वनस्पतिकायाश्च सर्वेऽप्येकेन्द्रियाः स्मृताः ॥१६॥ सहस्रं मानमुत्कर्षाद्योजनानां प्रकीर्तितम् । पञ्चेन्द्रियशरीरस्य तदेवैकेन्द्रियेऽधिकम् ॥२०॥ द्वीन्द्रिये द्वादशैव स्युर्योजनानि यथागमम् । त्रिक्रोशं त्रीन्द्रिये प्रोक्तं योजनं चतुरिन्द्रिये ॥२१॥ जाताः'। भूत्वा जनित्वा । दुःखं क्षेत्रजनितादिदुःखम् । प्रपद्यन्ते प्राप्नुवन्ति । लट् ॥१५॥ इतीति । इति उक्तप्रकारेण । नारकभेदेन नारकाणां नरकजनितानां जीवानां प्रभेदेन प्रकारेण । जीवस्य जीवतत्त्वस्य । वर्णना कीर्तना। कृता विहिता। साम्प्रतम् इदानीम् । तिर्यग्गतिकृतः तिर्यग्गत्या कृतो विहितः। भेदः प्रकारः । वर्णयिष्यते । वर्ण वर्णनक्रियायां लट ॥१६॥ त्रसेति। तिर्यग्जीवः तियंग्गतिगतजीवः त्रसस्थावरभेदेन त्रसजीवस्थावर जीवयोर्भेदेन विकल्पेन । द्विधा । स्मतः ज्ञातः । तत्र सस्थावरयोर्मध्ये । द्वीन्द्रियं द्वीन्द्रियजीवम् । आरभ्य प्रारभ्य । पञ्चेन्द्रियावधिः पञ्चेन्द्रिय एवावधिरवसानो यस्य सः । त्रस: त्रसजीव इति ज्ञातव्यः ॥१७॥ स्थावरा इति । स्थावराः स्थावरजीवाः कायभेदेन कायानां देहानां भेदेन विकल्पेन । पञ्चधा पञ्चप्रकारैः। परिकीर्तिताः परिभाषिताः । केचित । पथिवीकायिकाः पथिवीकायिकजीवा: । केचित एके। अकायिकाः अप्कायिकजीवाः । स्मृता: ज्ञाताः ॥१८॥ तेज इति । केचित् एके। तेजस्कायभृतः तेजोऽग्निः स एव कायः तं बिभ्रतीति तेजस्कायिकजीवाः । अपरे केचित् । वायुकायिकाः वातकायिकजीवाः। केचित । वनस्पतिकायिकाः वनस्पतिकायिकजीवाः । स्युः भवेयुः । सर्वेऽपि एते सर्वेऽपि । एकेन्द्रियाः इति एकमिन्द्रियं येषां ते । स्मृताः ज्ञाताः ॥१९॥ सहस्रमिति । पञ्चेन्द्रियशरीरस्य पञ्चेन्द्रिस्य पञ्चेन्द्रियजीवस्य शरीरस्य. देहस्य । उत्कर्षात् उत्कृष्टात् । योजनानाम् । सहसौंदशशतम् । मानम् उत्सेधप्रमाणम् । प्रकोतितं प्रोक्तम् । तदेव योजनानां सहसमेव । एकेन्द्रिये जीवे । अधिकम् उत्कृष्टमिति प्रकीर्तितम् ॥२०॥ द्वीन्द्रिय इति । द्वीन्द्रिये . नरकोंमें दुःख उठाते हैं ॥१५॥ इस प्रकार नारकियोंके भेदकी दृष्टि से जीवोंका वर्णन किया । अब तिर्यग्गतिकी अपेक्षासे जीवोंके भेदोंका वर्णन किया जायगा ।।१६।। त्रस और स्थावरके भेदसे तिर्यञ्च जीव दो प्रकारके होते हैं। उनमें द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय और पञ्चेन्द्रिय जीव त्रस कहलाते हैं ॥१७॥ काय भेदकी दृष्टिसे स्थावर जीव पाँच प्रकारके कहे गये हैंकोई जीव पृथिवीकायिक होते हैं, कोई जलकायिक होते हैं ॥१८॥ कोई तेजस्कायिक होते हैं, कोई वायुकायिक होते हैं और कोई वनस्पतिकायिक होते हैं । ये सभी जोव ऐकेन्द्रिय होते हैं ।।१९।। पञ्चेन्द्रिय जीवके शरीरको उत्कृष्ट अवगाहनाका प्रमाण एक हजार योजन है और एकेन्द्रिय जीवको उत्कृष्ट अवगाहनाका प्रमाण कुछ अधिक एक हजार योजन है ॥२०॥ द्वीन्द्रिय जीवके १. श 'जाताः' इति नास्ति । २.श क्षेत्रजनितानि । ३. आ वर्णक्रियायां। ४. श त्रसीति । ५. श जातः । ६. शकायिका जीवाः । ७. = योजनसहस्रतोऽपि किंचिदधिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy