SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ १३. चन्द्रप्रमचरितम् [१८, ५भव्याभव्यप्रभेदेन द्विप्रकारोऽप्यसौ पुनः । नरकादिगते दाच्चतुर्धा भेदमश्नुते ।।५।। सप्तवा पृथिवीभेदान्नारकोऽपि प्रभिद्यते । अधोलोकस्थिताः सप्त पृथिव्यः परिकीर्तिताः ॥६॥ आद्या रत्नप्रभा नाम द्वितीया शर्कराप्रभा। सिकतादिप्रभान्या च परा पङ्कप्रभा मता ||७|| धूमप्रभा ततो ज्ञेया परा तस्यास्तमःप्रभा । महातमःप्रभा चेति तासां नामान्यनुक्रमात् ।।८।। प्रथमायां पृथिव्यां ये नारकास्तेषु कीर्तिताः। उत्सेधः सप्त चापानि त्रयो हस्ताः षडङ्गलाः॥६॥ द्विगुणो द्विगुणोऽन्यासु पृथिवीषु यथाक्रमम् । द्वितीयादिषु विज्ञयो यावत्पञ्चधनुःशती ॥१०॥ त एवात्मा स्वरूपं यस्य सः ।। ४ । भव्येति । असौ अयम् । जीवः । पुन: पश्चात् । भव्याभव्यप्रभेदेन सव्याभव्ययो:-रत्नत्रयाविभवनयोग्यो भव्यः, इतरोऽभव्यः तयोर्भेदेन । द्विप्रकारोऽपि द्वौ प्रकारौ यस्य सः । नरकादिगतेः नरकप्रभृतिगतः। भेदात् भेदरूपात् । चतुर्धा । भेदं भेदरूपम् । अश्नुते व्याप्नोति । अशोङ् व्याप्तौ लट् ॥ ५ ॥ सप्तधेति । नारकोऽपि नरकगतजीवोऽपि । पृथिवीभेदात् पृथिवीनां रत्नप्रभादिसप्तभुमीनां भेदात् । सप्तधा सप्तभिः प्रकारैः। प्रभिद्यते भेदः क्रियते । अधोलोकस्थिताः अधोलोकेऽधोभुवने स्थिता आसिताः । पृथिव्यः भूमयः। सप्तेति सप्तसंख्या इति । परिकीर्तिताः प्रोक्ताः ॥ ६॥ आद्येति । आद्या प्रथमा । रत्नप्रभा रत्नप्रभाख्या। नाम निश्चयेन । द्वितीया द्वयोः पुरणा। शर्कराप्रभा। अन्या परा तृतीया इत्यर्थः । सिकतादिप्रभा च सिकतवादी यस्याः सा, सा चासौ प्रभा च तथोक्ता वालुकाप्रभेत्यर्थः । परा चतुर्थी । पङ्कप्रभा पङ्कप्रभेति । मता अङ्गीकृता ॥ ७॥ धूमेति । ततः पश्चात् । धूमप्रभा पञ्चमी धूमप्रभा । ज्ञेया ज्ञातव्या । तस्याः पञ्चम्याः सकाशात । परा अन्या, षष्ठी इत्यर्थः । तमःप्रभा। महातमःप्रभा चेति सप्तमी महातमःप्रभा इति । अनक्रमात परिपाटयाः। तासां सप्तमीनाम् (?)। नामानि नामधेयानि । भवन्ति ॥ ८ ॥ प्रथमेति । प्रथमायाम् आद्यायाम् । पृथिव्यां भूम्याम् । ये नारकाः नरकगतिपर्यायजीवाः । कीर्तिताः प्रोक्ताः । तेषु नारद जोवेषु । उत्सेधः देहोन्नतिः । सप्त । चापानि धषि । त्रयः । हस्ताः अरत्नयः । षडङ्गुलाः षट् च ता अङ्गलयश्च । 'संख्याव्ययादङ्गुलेः' इति ड-प्रत्ययः ॥ ९॥ द्विगुणेति । द्वितीयादिषु द्वितीया आदिर्यासां तासु। अन्यासु पृथिवीषु भूमिषु । यथाक्रमं क्रममनतिक्रम्य । तस्य द्विगुणद्विगुणः द्वौ गुणौ यस्य सः । विज्ञेयः वेदितव्यः । यावत् यावत्पर्यन्तम् । पञ्चधनुःशती पञ्चानां धनुःशतानां स्थित हो जाता है और उत्पाद, व्यय, व ध्रौव्यात्मक है ॥४॥ यह भव्य और अभव्यके भेदसे दो प्रकारका है फिर भी नरक आदि चार गतियोंके भेदकी अपेक्षासे चार प्रकारका है ॥५॥ नरक गतिके जीव सात भूमियोंके भेदकी दृष्टिसे सात प्रकारके होते हैं। अधोलोकमें सात पृथिवियाँ बतलायी गयी हैं ॥६॥ (१) रत्नप्रभा, (२) शर्करा प्रभा, (३) बालुकाप्रभा, (४) पङ्क प्रभा, (५) धूमप्रभा, (६) तमःप्रभा और (७) महातमःप्रभा-ये उन पृथिवियोंके क्रमशः सात नाम हैं ॥७-८॥ पहली पृथिवीमें जो नारकी बतलाये गये हैं, उनके शरीरकी ऊंचाई सात धनुष तीन हाथ छह अंगुल है ॥६॥ द्वितीय आदि अन्य पृथिवियों में नारकियोंके शरीरको ऊंचाई क्रमशः दूनी-दूनी जाननी चाहिए । इसी हिसाबसे सातवों पृथिवीके नारकियों के शरीरको ऊंचाई १. अ नरकोऽपि । २. अ नाम्नी । ३. आ इ क ख ग घ दिप्रभा चान्या। ४. क ख ग घ म 'न्यनुक्रमम् । ५. क ख ग घ म धनुःशतीम् । ६. श आशाञ् । ७. श तस्य द्विगुणः-द्वौ गुणो यस्य सः । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy