________________
अष्टादशः सर्गः
४२९
[ १८. अष्टादशः सर्गः]
सर्वभाषास्वभावेन ध्वनिनाथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ॥१॥ जीवाजीवानवा बन्धसंवरावथ निर्जरा। मोक्षश्चेति जिनेन्द्राणां सप्त तत्त्वानि शासने ॥२॥ बन्ध एव प्रविष्टत्वादनुक्तिः पुण्यपापयोः । तयोः पृथक्त्वपक्षेच पदार्था नव कीर्तिताः ॥३|| चेतनालक्षणो जीवः कर्ता भोक्ता स्वकर्मणाम् । स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ॥४॥
विज्ञाय पीठचलनाज्जिनजन्म जिष्णुरागत्य मातृसदनं च शचीसमेतः ।
आरोपयञ् जिनशिशुं करिमस्तकाग्रे मेरुं निनाय सुरवमपथा समोदः । सवैति । अथ उपदेशाभिमुखानन्तरम् । जगद्गुरुः जगतां गुरुः । जिनेश्वरः जिनेन्द्रः। गणिनः । प्रश्नात् प्रार्थनायाः। सर्वभाषास्वभावेन सर्वाः समस्ता भाषा एव स्वभावो यस्य तेन । तदक्तममधुरं मनोहरतरं दोषग्यपेतं हितं, कण्ठोष्टादिवचोनिमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्टवस्तुकथनं निःशेषभाषात्मकं, दूरासन्नसमं समं निरुपम जैनं वचः पातु नः ॥' इति । ध्वनिना दिव्यध्वनिना । दात् (?) । तत्त्वं जीवादितत्त्वम् । इति वक्ष्यमाणप्रकारेण । जगाद ब्रवीति स्म । लिट् । जातिः ॥ १॥ जीवेति । अथ अनन्तरम् । जिनेन्द्राणां जिनेश्वराणाम् । शासने स्याद्वादशासने । जीवाजीवास्रवाः जीवो जीवतत्त्वम्, अजीवतत्त्वम् आस्रवतत्त्वं च । बन्धसंवरौ बन्धश्च बन्धतत्त्वं च संवरश्च संवरतत्त्वं च । निर्जरा निर्जरातत्त्वं च । मोक्षश्चेति मोक्षतत्त्वमिति । तत्त्वानि सप्तविधानि । भवन्ति ।। २॥ बन्ध इति । पुण्यपापयोः पुण्यपदार्थपापपदार्थयोः । बन्ध एव बन्धतत्त्व एव । प्रविष्टत्वात् अन्तर्भूतत्वात् । अनुक्तिः पृथगुच्चारणं नास्तीत्यर्थः । तयोः पुण्यपापद्वयोः । पृथक्त्वपक्षे च भिन्नत्वपक्षाङ्गीकारे। नव नवसंख्या: । पदार्थाः नवपदार्था इति। कीर्तिताः प्रोक्ताः ॥३॥ चेतनेति । चेतनालक्षणः चेतपति ज्ञाने(B) जानाति दर्शन पश्यतीति चेतना, सैव लक्षणमसाधारणं स्वरूपं यस्य सः। स्वकर्मणां स्वस्य कर्मणां शुभाशुभरूपाणाम् । कर्ता विधाता। भोक्ता कर्मफलानां भोक्ता अनुभविता । शरीरमानेन स्वीकृतदेहप्रमाणेन । स्थितः आसितः । स्थित्युत्पत्तिव्ययात्मकः स्थितिव्यं ( ध्रौव्यं ) सा च उत्पत्तिर्जननं सा च व्ययो विनाशः स च, तथोक्ताः,
इसके पश्चात् जगद्गुरु जिनेश्वर भगवान् चन्द्रप्रभको स्वभावतः सभी भाषाओं में परिणत होनेवाली दिव्यध्वनि, गणधरके प्रश्नके अनुसार खिरी, जिसमें जीवादि तत्त्वोंका इस प्रकारसे निरूपण किया गया था-॥१॥ जिन शासनमें जीव, अजीव, आसव, बन्ध, संवर, निर्जरा और मोक्ष ये सात तत्त्व बतलाये गये हैं ॥२॥ बन्धमें गभित होनेके कारण पुण्य और पापको अलगसे नहीं कहा गया है। यदि पुण्य और पापको अलग कहा जाय तो नौ पदार्थ हो जाते हैं-जीवादि सात और पुण्य-पाप दो। आगममें नौ पदार्थोंकी भी चर्चा की गई है ॥३॥ जीवका लक्षण चेतना है। वह शुभ एवं अशुम कर्मोंका कर्ता है, अपने किये हुए कर्मोके फलका भोक्ता है, देह-परिणामो है-जिस देहको वह प्राप्त करता है, उसीके बराबर होकर उसमें
१. म पृथक् च पक्षे । २. आ दत्तप्रश्नात् । ३. श पेतं तथा । Jain Education International For Private & Personal Use Only
www.jainelibrary.org