________________
- १७, ९०
सप्तदशः सर्गः प्राकारोऽच्छस्फटिकघटितोऽभूत्पुरस्ताच्च तेभ्यः कोष्ठास्तस्य स्फुरितरुचयो द्वादशान्ते बभूवुः। तेभ्यः स्थानं परमनुपमं गन्धकुटयाख्यमासीजज्ञे तत्र स्फुरदुरुमणिभ्राजितं सिहपीठम् ।।८।। तस्योपरि स्फुरितभासररत्नरश्मेः स प्रातिहार्यपरिभूषितदिव्यमूर्तिः। निर्बारवीर्यसुखबोधनिधिर्जिनेन्द्रस्तत्त्वोपदेशकथनाभिमुखोबभूव ।।१०।। तत्राद्या' मुनिभिः समं गणधराः कल्पस्त्रियः संयता' ज्योतिय॑न्तरभावनामरवधूसंघास्ततो भावनाः ।
मुनिजनानां सभामण्डपा आस्थानमण्डपाः । आसन् अभवन् । लङ्॥८८॥ प्राकार इति । तेभ्यः स्तूपेभ्यः । पुरस्तात् अग्रे । अच्छस्फटिकघटितः अच्छेन निर्मलेन स्फटिकेन घटितः कृतः । प्राकारः सालः । अभूत् अभवत् । लुङ् । तस्य स्फटिकप्राकारस्य । अन्ते । स्फुरितरुचयः स्फुरिता दीप्ता रुचिः कान्तिर्येषां ते । द्वादश द्वाभ्यामधिका दश । 'द्वाष्टा-' इत्यादिना द्वा-आदेशः। कोष्ठाः बभूवुः कोष्ठा भवन्ति स्म । लिट् । तेभ्यः कोष्ठेभ्यः । परं परः । तत् । अनुपमम् उपमातीतम् । गन्धकुटपाख्यं गन्धकुटी आख्या अभिधानं यस्य तत । स्थानं प्रदेशः । आसोत् अभवत् । लङ् । तत्र गन्धकुटयाम् । स्फुरदुरुमणिभ्राजितं स्फुरद्भिः प्रज्वलद्भिरुरुभिमणिभिर्धाजितं विभासितम् । सिंहपीठं सिंहैरुपलक्षितं' पीठं सिंहपीठम् । जज्ञे अजायत । लिट् । अतिशयः ॥८९॥ तस्येति । स्फुरितभासुररत्नरश्मेः स्फुरितः प्रवृद्धो भासुराणां देदीप्यमानानां रत्नानां रश्मिः कान्तियस्य तस्य । तस्य सिंहपीठस्य । उपरि अग्रे। प्रातिहार्यपरिभूषितदिव्यमूर्तिः प्रातिहायरष्टमहाप्रातिहार्यः परिभूषिता अलंकृता दिव्या परमौदारिकाच्या मूर्तिस्तनुर्यस्य सः । निर्वारवीर्यसुखबोषनिधिः निर्वाराणां निवारयितुमशक्यानां, वीर्यमनन्तवीर्यं तच्च, सुखमनन्तसुखं तच्च, [बोधः] बोधनं (अनन्तं) ज्ञानं तच्च, तथोक्ताः तेषां निधिः । सः जिनेन्द्र: जिनेश्वरः । तत्त्वोपदेशकथनाभिमुखः तत्त्वानां जीवादितत्त्वानामुपदेशस्य प्रतिबोधनस्य कथने निगदनेऽभिमुखः । बभूर्व भवति स्म । लिट् । जातिः ॥९०॥ तत्रेति । तत्र कोष्ठेषु । मुनिभिः योगिभिः । समं साकम् । गणधराः गणाधिपाः । आद्याः प्रथमाः। कल्पस्त्रियः कल्पवनिताः । संयताः नर
शिखरोंसे युक्त मुनियोंके सभामण्डप थे ॥८८॥ उन स्तूपोंके आगे स्वच्छ स्फटिक मणिनिर्मित प्राकार था, उसके अन्दर चमकती हुई कान्तिसे युक्त बारह कोठे थे, उनके आगे अनुपम गन्धकुटी नामका एक उत्कृष्ट स्थान था; उसमें जगमगाते हुए बड़े-बड़े मणियोंसे विभूषित सिंहासन था ॥८९॥ चारों ओर फैलनेवाली, देदीप्यमान रत्नोंकी किरणोंसे विभूषित, उस सिंहासनके ऊपर वे जिनेन्द्र भगवान् चन्द्रप्रभ विराजमान हुए, जिनको दिव्य मूर्ति आठ प्रातिहार्योंसे विभूषित थी, जो अनन्त ज्ञान, अनन्तदर्शन, अनन्त सुख और अनन्त वीर्यकी निधि थे और तत्त्वोपदेश देनेके लिए सभोके लिए अभिमुख थे ॥६॥ बारह कोठोंमें, क्रमशः मुनिराजोंके साथ गणधर, कल्पवासिनी देवियां, आर्यिकाएं, ज्योतिष्क देवियाँ, व्यन्तर देवियाँ, भवनवासिनी
१. क ख ग घ म दत्ताद्या । २. म सज्जिता । ३. = पुरः । ४. श गन्धकुटी आख्या अभिधानं यस्त तत्' इति नास्ति, 'गन्धकुट्यभिधानम्' इत्यस्ति । ५.श 'लङ्' इति नास्ति । ६. श सिंहरूपकल्पितम् । ७. एष टोकाश्रयः पाठः, मूलप्रतिषुतु 'निर्बाध०' इत्यस्ति । ८. अयमपि टोकाश्रयः पाठः मूलप्रतिषु तु 'ऽवतस्थे' इति दृश्यते । ९. आ यतिभि। १०. आ स्वर्गव । ११. श 'नरस्त्रियः' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org