________________
४२४
चन्द्रप्रमचरितम्
[१७,८०अपरापरैः स समुपेत्य समयगततत्त्वगोचरम् । संशयमलमपहस्तयितुं प्रतिवासरं मुनिजनैरसेव्यत ॥८॥ प्रकृतीनयंस्तनुतरत्वमतनुतपसा स कर्मणाम् । तत्र पुनरपि जगाम वने समपादि यत्र निजमेव दीक्षणम् ॥८१।। मुनिभिः स्थितः सह समेत्य तलभुवि स नागशाखिनः । ध्यानमतुलमवलम्ब्य सितं हतघातिकमरिपुराप केवलम् ॥२॥ तस्मिन्काले सह परिजनैर्यक्षराजेन गत्वा शकादेशात्समवसरणं निर्ममे तस्य भर्तुः।
जैनादाद्यात्समवसरणाद्योजनार्धाधहान्या सार्धान्यष्टौ यदनुगदितं योजनान्यागमज्ञैः ।।८३।। पीडितुम् । नासहन्त समर्था न भवन्ति स्म । उपमा ॥७९॥ अपरेति । सः मुनिः । समयगततत्त्वगोचरं समयं परमागमं गतानि तत्त्वानि जोवादिद्रव्याणि तान्येव गोचरो यस्य तत् । संशयमल' संशयमेव मलम् । अपहस्तयितुं निराकर्तुम् । अपरापरैः अन्यैः । मुनिजनैः योगिजनैः । प्रतिवासरं प्रतिदिनम् । असेव्यत आराध्यते स्म । सेवृञ् सेवने कर्मणि लङ् ॥८०॥ प्रकृतीरिति । यत्र सकलख्येि । वने उद्याने । निजमेव स्वकीयमेव । दीक्षणं परिनिष्क्रमणम् । समपादि जायते स्म । पदि गतौ लुङ् । कर्मणां पापानाम् । प्रकृतीः स्वभावान् । अतनुतपसा अतनुना महता तपसा तपश्चरगेन । तनुतरत्वम् अतिकृशत्वम् । नयन् प्रापयन् । सः चन्द्रप्रभमुनिः । पनरपि पश्चादपि। तत्र वने। जगाम ययौ। लिट् ॥१॥ मुनिमिरिति । मुनिभिः यतिभि. । सह
म् । समेत्य गत्वा । नागशाखिनः नागवृक्षस्य । तलभुवि तलक्षितौ। स्थितः आसितः। सः मुनिः । अतुलम् असदृशम्, सादृश्यरहितमिति भावः। सितं शुक्लाख्यम् । ध्यानम् एकाग्रचिन्तनम् । अवलम्ब्य आश्रित्य । हतपातिकमरिपुः हतो जोवाद् विश्लेषितो घातिकर्माण्येव रिपुर्येन स.। केवलं नवकेवललब्धिम्। आप ययौ। आप्ल व्याप्तौ लिट् । रूपकम् ॥८२॥ तस्मिन्निति । आद्यात् प्रथमात् । जैनात् जिनसंबन्धिनः । समवसरणात् समवसृतेः सकाशात् । योजनाधिहान्या योजनस्यार्धेनार्धन हान्या हीयमानक्रमेण । सार्धानि अर्धेन दलेन युतानि । अष्टो अष्टसंख्यानि । योजनानीति । आगमज्ञैः परमागमवेदिभिः । अनुगदितम् अनूक्तम् । यत् समवसरणं वृषभजिनेश्वरसमवसरणम् । द्वादशयोजनप्रमितम् । ततः परमजितादितीर्थकराणामधियोजनेन हीनमित्यर्थः । शक्रादेशात् देवेन्द्राज्ञया । तस्मिन् काले केवलज्ञानोत्पत्तिकाले । परिजनैः सह परिवारदेवैः साकम् । यक्षराजेन
तत्त्वोंमें उत्पन्न हुए संशयको सर्वथा दूर करनेके लिए और-और मुनि लोग उनके पास प्रतिदिन आने लगे और उनकी आराधना करने लगे ॥८०॥ घोर तपश्चरणके द्वारा कर्मोको प्रकृतियों को क्षीण करते हुए वे पुनः उसी वनमें जा पहुंचे, जहां उन्होंने जिनदीक्षा ली थी ।।८१॥ उस 'सकलतुं' नामक वनमें मुनियोंके साथ पहुँचकर वे नागवृक्षके नीचे आसन लगाकर बैठ गये, और फिर अनुपम शुक्ल ध्यानका अवलम्बन लेकर उन्होंने ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय इन घातिया कर्मोंको नष्ट करके केवल ज्ञान प्राप्त किया ॥२॥ जिस समय केवलज्ञान हुआ, उसी समय इन्द्रके आदेशसे कुबेरने अपने परिजनके साथ भगवान् चन्द्रप्रभके पास जाकर उनके समवसरणकी रचना की । आगमके जाननेवाले विद्वानोंने भगवान् चन्द्रप्रभके समवसरणका प्रमाण साढ़े आठ योजन बतलाया है। प्रथम तीर्थङ्कर भगवान् ऋषभ देवके समवसरणका प्रमाण बारह योजन था। उनके बाद अजित आदि तीर्थङ्करोंके समवसरणोंका प्रमाण आधा-आधा
१. = संशय एव मलो दोषस्तम् । २. श सेवृङ्। ३. आ श प्रकृतिरिति । ४. = जिनदोक्षा। ५. =ज्ञानावरणादीनाम् । ६. श स्वरित्तकान्तर्गतः पाठो पोपलभ्यते । ७. साधुभिः । ८. = एकाग्रचिन्तानिरोधनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org