________________
सप्तदशः सर्गः
४२३
-१७,७९]
प्रविधाय तत्र पटुवाद्यनिनदरमणीयमुत्सवम् । क्षोभितसकलमहीवलयं प्रययुः पुनः सुरगणा यथायथम् ॥६॥ अथ सोमदत्तनृवरस्य नलिनपुरपालिनो गृहे। पश्च वसुनिपतनप्रभृतीन्यकृतामृतानि स गृहीतपारणः ॥७७।। प्रशमादिभिः स चतुरोऽपि चतुरमतिरूर्जितैर्गुणैः । नाशमनयत कषायरिपून्विहरंस्तपस्विजनयोग्यधामसु ॥८।। न परीषहास्तमसहन्त धृतिकचिनं प्रबाधितुम् । जुत्तुडवनिशयनप्रमुखा युधि संवृताङ्गमिव शत्रपत्रिणः । ७६ ॥
॥७५।। प्रविधायेति । तत्र परिनिष्क्रमणकल्याणे। पटवाद्यनिनदरमणीयं पटनां गंभीराणां वाद्यानां निनदेन रवेण रमणीयं मनोहरम् । क्षोभितसकलमहीवलयं क्षोभितं व्याप्त सकलं महीवलयं भूमण्डलं येन तम् । उत्सवं संभ्रमम् । प्रविधाय कृत्वा । सुरगणाः सुराणां देवानां गणा निवहाः । यथा तथा [ यथायथं ] । स्वर्गम् । प्रययुः प्रजग्मुः । अतिशयः ॥७६॥ अथेति । अथ देवगमनानन्तरम् । नलिनपुरपालिनः नलिनाख्य. पररक्षकस्य । सोमदत्तनपवरस्य ( सोमदत्तनवरस्य ) सोमदत्तस्य सोमदत्ताख्यस्य नप (न) वरस्य नरपस्य । गृहे सदने । गृहीतपारण: स्वीकृतपारणायुतः । सः चन्द्रप्रभमुनिः। वसुनिपतनप्रभृतोनि वसूनां रत्नानां निपतनं प्रभृतियेषां तानि । पञ्च पञ्चसंख्यानि । अद्भुतानि आश्चर्याणि । अकृत करोति स्म । लङ् ॥७७॥ प्रशमादिभिरिति । चतुरमतिः मनःपर्ययज्ञानी। सः चन्द्रप्रभमुनिः । तपस्विजनयोग्यधामसुतपस्विजनानां मुनिजनानां योग्येषु उचितेषु धामसु स्थानेषु । विहरन् संचरन् । ऊजितैः समर्थैः । प्रशमादिभिः प्रशम उत्तमक्षमा आदिर्येषां तैः । गुणः । चतुरोऽपि प्रौढोऽपि । कषायरिपून कषायशत्रून् । नाशं विनाशम् । अनयत प्रापयति स्म । णीज प्रापणे लङ् ॥७८॥ नेति । क्षुत्तुडवनिशयनप्रमुखाः क्षुत् बुभुक्षा तृट् पिपासा अवनिशयनं क्षुच्च तृट् च अवनिशयनं च तानि प्रमुखानि मुख्यानि येषां ते । परीषहाः । धृतिकवचिनं धृतिरेव धैर्य मेव कवचिनं कवचयुतम् । तं चन्द्रप्रभम् । शत्रुपत्रिणः शत्रुणा प्रयोजिताः पत्रिणो बाणाः । 'पत्रिणौ शरपक्षिणी' इत्यमरः । युधि संग्रामे । संवृताङ्गमिव संवृतं कवचितमङ्गं शरीरं यस्य तमिव । प्रबाधितुं
में सुन्दर बाजोंकी ध्वनिने चार चांद लगा दिये, और जिसने सारे भूमण्डलको प्रभावित कर दिया। इसके बाद वे देव लोग अपने-अपने स्थानमें चले गये ॥७६॥ उपवास समाप्त होनेपर भगवान्ने नलिनपुरके पालन करनेवाले राजा सोमदत्तके घर पारणा की, जिससे उसके यहाँ रत्नवृष्टि आदि पांच आश्चर्य प्रकट हुए ॥७७॥ यों भगवान् चन्द्रप्रभ स्वभावतः चतुर थे फिर भी उन्हें चतुर्थ ज्ञान-मनःपर्यय और प्राप्त हो गया। उन्होंने क्षमा, मार्दव, आर्जव और शौच इन समृद्ध गुणोंसे क्रोध, मान, माया और लोभ इन अभ्यन्तर शत्रुओंको नष्ट कर दिया। वे साधुओंके योग्य स्थानों में विहार किया करते थे ॥७८॥ उन्होंने धैर्यरूपी कवच धारण कर लिया था, इसलिए भूख, प्यास और भूमिशयन आदि परीषहें उन्हें बाधा नहीं पहुँचा सकीं। जैसे युद्ध में जो कवच पहने रहता है, उसे शत्रुओंके बाण बाधा नहीं पहुंचा सकते ॥७९|| आगमोक्त
१. आ इ निनाद । २. भ नृपवरस्य । ३. = यथायोग्यम् । ४. = स्वीकृतपारणः । ५. श लुङ । ६. श'समर्थः' इति नास्ति । ७. श 'क्षमा' इति नास्ति। ८. = वेदनाविशेषाः। ९. यस्य तम, अतिधीरमिति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org